| YouTube Channel

डुवप (Duvapa)

 
धातुप्रदीपः
Sanskrit
डुवपँ डुवप बीजसन्ताने
- वपति वपते उप्यते उवाप ऊपे ऊपतुः ऊपाते वप्ता उप्तम् अप्त्रिमम् ।। 1011 ।।
क्षीरतरङ्गिणी
Sanskrit
डुवपँ डुवप् बीजसन्ताने
- (अर्थविवरणम्) बीजानां सन्तानः क्षेत्रे विस्तारणम्
वपते, वपति [ प्रणिवपते ] प्रणिवपति (द्र0 8417) उप्यते वप्ता उवाप, ऊपुः, ऊपे उप्तः आसुयुवपि (31186) इति ण्यत् वाप्यः उप्त्रिमम् गृधिवपिभ्यां रन् (तु0 उ0 227) वप्रः अर्तिपृवपि (उ0 2118) इत्युस्- वपुः वसिवपिवदिराजि (द0 उ0 153) इतीञ्-वापिः भिदादौ (गण0 33104) वपा 973
धातुवृत्तिः
Sanskrit
डुवपँ डुवप (अर्थः) बीजसन्ताने
( वपति उवाप उवप्थ उवपिथ ) उवपिवेत्यादि यजिवत् प्रणिवपति "नेर्गद''इति णत्वम् ( प्रण्यवपत् ) "अङ्व्यवायेऽपीष्यत' इति णत्वम् (प्रवपाणि ) "आनि लोट्'' इति उपसर्गस्थान्निमित्तात्परस्य लोट्सम्बन्धिन आनेर्नकारस्य णत्वम् ( वाप्यम्, ) "आसुयुवपि'' इति ण्यत् ( वापी ) ऋदृसृवपीनामिति ग्रहादिपाठादिनिः (उप्त्रिमम्) "ड्वितः क्त्रिः'' सम्प्रसारणं, "क्त्रेर्मम्नित्यम्'' इति मप् ( वापिः ) इञ् "स्वपिवपिभ्य''इति इतीञ् (वापी) "कृदिकारादक्तिनः''इति डष (वप्रः) "वृधिवपिभ्यां रन्" इति रप्रत्ययः बीजसन्तानं क्षेत्रे बीजविकरणम्, अयं गर्भाधानेऽपि दृश्यते, यथा मा वः क्षेत्रे परबीजान्यवाप्सुः छेदनेऽपि दृश्यते केशान्वपतीति983