| YouTube Channel

डुलभँष् (Dulabha~S)

 
धातुप्रदीपः
Sanskrit
डुलभष् प्राप्तौ
- लभते लेभे लब्धा लम्भयति लभ्यम् उपलम्भः। लाभः। सुलभः लब्ध्रिमम् प्रलभा उपलब्धिः ।। 983 ।।
क्षीरतरङ्गिणी
Sanskrit
डुलभष् प्राप्तौ
- लभते लब्धिमम् (द्र0 3388, 4 320) उपलभा (द्र0 33104) बाहुलकाल् लब्धिः लभेश्च (7164) इति नुम्-आलम्भः, विलम्भनम् विभाषा चिण्णमुलोः (7169) अलाभि, अलम्भि, सोपसर्गान् नित्यमाहुः (द्र0 7169 काशिका0) व्यलम्भि लाभंलाभम् लम्भंलम्भम् उपसर्गात् खल्घञोः (7267) ईषल्लम्भः, सुप्रलम्भः सुदुर्भ्यां केवलाभ्याम् (7168) सुलभम्, दुर्लभम् अङोयि (7165) आलम्भ्यम् उपात् प्रशंसायाम् (7166) उपलम्भ्यम् सनि मीमाघु (7454) इति लिप्सते लभते भोक्तुम् (द्र0 3465) 946
धातुवृत्तिः
Sanskrit
डुलभष् (अर्थः) प्राप्तौ
लभतइत्यादि सर्वं रभतिवत् अस्यापि शब्लिड्वर्जिते ऽजादौ नुम् आलभ्या गौः "आङो यि'' इति आङ्पूर्वाल्लभेर्यकारादौ नुम् अत्र यीत्यस्य विषयसप्तमीत्वात् प्रागेव प्रत्ययोत्पत्तेः पूर्वं नुमि अदुपधत्वाभावात् "पोरदुपधात्'' इति यन्नेति ण्यद्भवति ण्यद्यतोश्च स्वरे विशेषः, ण्यति "गतिकारकोपपदात् कृत्'' इति कृदन्तोत्तरपदप्रकृतिस्वरः "तित्स्वरितम्''इति स्वरितत्वं भवति यदि तु उत्तरपदप्रकृतिस्वरत्वेन "यतोऽनावः''इति यदन्तं द्व्यच्कमाद्युदात्तं स्यात् अत्र विषयसप्तमीत्वमिति "इदितो नुम् धातोः'' इत्यतः धातोरित्यनुवृत्त्या भाष्ये प्रतिपादितम् उपलम्भ्या विद्या "उपात् प्रशंसायाम्'' इति लभेर्यकारादौ विषये नुम् अत्र धात्वर्थस्य प्राप्तेः प्रशंसापादनद्वारेण प्राप्यमाणद्वारेण वा प्रशंसा अन्यत्र नुम्भावात् "पोरदुपधात्'' इति यति उपलभ्यमस्मात् वृषलात् ( 1 ) ( 1 ) इति भवतीति 2 पाठः किंचिद् भवति अत्रापि ण्यद्यतोः स्वरे विशेषः ( ईषत्प्रलम्भः सुप्रलम्भः ) "उपसर्गात्खल्घञोः'' इति नुम् "लभेश्च'' इति सिद्धे वचनमिदं नियमार्थं खल्घञोरजाद्योर्यदि भवति उपसर्गात् परस्यैवेति, तेन इषल्लाभो लाभ इत्यत्र नुम् भवति ( सुलभः दुर्लभः सलाभः दुर्लाभः ) अत्यत्र तु उपसर्गात् परत्वेन "सुदुर्भ्यां केवलाभ्याम्'' इति नुम्निषेधः अत्र केवलशब्द उपात्ताभ्यां सदुभ्यांमन्यस्य सजातीयोपसर्गस्याभावमाह, तेन सुदुर्भ्यामन्योपसर्गरहितस्य लभेः खल्घञोर्नुम् भवतीति सूत्रार्थः उपसर्गान्तरयोगे तु अतिप्रसुलम्भइति नुम् भवत्येव (सुदुर्लभमतिदुर्लभं सुलभं, सुदुर्लाभः, अतिदुर्लाभः)इति प्रयोगास्तु "सुः पूजायाम्'' "अतिरतिक्रमेण च'' इति स्वत्योः कर्मप्रवचनीयत्वे द्रष्टव्याः अतिक्रमणं फलप्राप्तावपि क्रियानुपरतिः उक्तेषूदाहरणेषु खलघञोर्न बाधः, विषयभेदात्, कर्मणि खल्, भावे घञ् इति यद्वा सुरत्र क्षेपे यथा सुषिकं किं तवात्रेति, दुर्निन्दायां यथा दुर्ब्राह्मण इति तेन कृच्छ्राकृच्छ्रार्थत्वाभावात् खलभावः ( अलाभि, अलम्भि, लाभंलाभं, लम्भंलम्भं, "विभाषा चिण्णमुलोः''इति लभेर्नुम्विकल्पः, व्यवस्थितविभाषाविज्ञानात् सोपसर्गस्य नित्यं नुम् भवति प्रालम्भि, प्रलम्भि, प्रलम्भंप्रलम्भमिति लाभेन निर्वृत्तं लब्ध्रिमं, "ड्वितः क्त्रिः'' "क्त्रेर्मम्नित्यम्'' इति मप्षित्त्वादङ् लभा लब्धिः "क्तिन्नाबादिभ्य'' इति क्तिन् 956