| YouTube Channel

डुभृञ् (DubhRJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भृ
मूलधातुः:
डुभृञ्
धात्वर्थः:
धारण-पोषणयोः
गणः:
जुहोत्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
बिभर्ति-बिभृते
अनुबन्धादिविशेषः:
ञित्-ड्वित्
धातुप्रदीपः
Sanskrit
डुभृञ् धारण, पोषणयोः
- बिभर्त्ति बिभृते बिभृतः बिभ्राते बिभ्रति बिभ्रते बभार बिभराम्बभूव बिभरामास बिभराञ्चकार बभ्रे बिभराञ्चक्रे बिभ्रत्, बिभ्रतौ अबिभः अबिभृत अबिभृताम् अबिभ्राताम् अबिभरुः अभिभ्रत भर्त्ता भरिष्यति भृत्यः भार्य्या भौरः भरणम् भृत्या भृतिः भृत्रिमम् भरथुरित्यन्ये (2) इति उभयतोभाष इत्युभयपदी भृञामित् (7476) इति कार्य्यानुरोधेनायमन्येषूभयपदिषु पठ्यते 5
क्षीरतरङ्गिणी
Sanskrit
डुभृञ् धारण, पोषणयोः
- भृञामित् (7476)-बिभर्ति भर्ता भारः क्त्रिः (द्र0 3388), क्त्रेर्मम् नित्यम् (4420)-भृत्रिमम् टुभृञ् इति द्रमिडाः-भरथुः (द्र0 3389) भीह्री (3139) इति वाम् श्लुवच्च-बिभरांचकार बिभार भृतः क्र्य्यादौ भॄ भरणे (920)-भृणाति, भरः, भरिता, भरीता फलेग्रहिरात्मंभरिश्च (3226) चात् कुक्षिंभरः (द्र0 3226 काशिका) संज्ञायां भृतॄ (3246) इति विश्वंभरा संज्ञायां समज (3399) इति भृत्या भृञोऽसंज्ञायाम् (31112)-भृत्यः संज्ञायां पुंसि दृष्टत्वान्न ते भार्या प्रसिध्यति (31112 भाष्य0) श्रृङ्गारभृङ्गारौ (तु0 उ0 3136) इति भृङ्गारः साधु पचादौ (द्र0 31134) जारभरा भ्वादौ (1638) भरति 5
धातुवृत्तिः
Sanskrit
डुभृञ् (अर्थः) धारण, पोषणयोः
अनुदात्त उभयतोभाषः ( बिभर्ति, बिभृतः, बिभ्रति, बिभषिं, बिभर्मि, ) "भृञामित्'' इति श्लावभ्यासस्येत्त्वम् ( बभार, बभ्रतुः, बभ्रुः, बभर्थ, ) क्रादिनियमादनिट्त्वम् ( बिभृव बिभराञ्चकार, "भीह्रीभृहुवाम्'' इत्याम्प्रत्ययः, श्लुवद्भावाद् द्विर्वचनमित्त्वं ( भर्ता, भरिष्यति, बिभर्तु, बिभृतात्, बिभृतां, बिभ्रतु, बिभृहि, बिभराणि अबिभः, अबिभृताम्, अबिभरुः ) "जुसि च'' इति गुणः ( अबिभः, अबिभृतम्, अबिभरम् बिभृयात्, बिभृयाताम् ) आशिषि ( भ्रियात्, भ्रियास्तां, भ्रियासुः अभार्षीत्, अभार्ष्टाम्, अभार्षीः, अभार्षम्, अभार्ष्व, बिभृते, बिभ्राते, बिभ्रते बिभृषे, बिभृध्वे, बिभ्रे, बिभृवहे बिभृवहे बिभरांचक्रे भर्ता भरिष्यते बिभृतां, बिभृष्व, बिभरै अबिभृत, अबिभ्राताम्, अबिभ्रत अबिभृथाः, अबिभ्रि, अबिभृवहि बिभ्रीत, बिभ्रीयाताम्, बिभ्रीथाः, बिभ्रीय बिभ्रिवहि ) बिभ्रिवहि ) आशिषि ( भृषीष्ट, भृषीयास्ताम् ) "उश्च'' इत्यात्मनेपदे लिङ्सिचोर्झलाद्योः कित्त्वादगुणत्वम् ( अभृत, अभृषाताम्, अभृथाः, अभृढ्वम्, अभृषि, ) "ह्रस्वादङ्गात्'' इति झलिसिचो लोपः ( बिभ्रत् बिभ्राणः बुभूर्षति, बुभूर्षते, ) "इको झल्'' इति सनः कित्त्वात् "अज्झन'' इति दीर्घः, "उदोष्ठ्य'' इत्युत्वम् "सनीवन्त'' इतीड्विकल्पोऽस्य भवति, तत्र भरेति शपा निर्देशाद् ( भूत्रिमम्, ) "ड्वितः क्त्रिः, '' "क्त्रेर्मम्न्नित्यम्'' द्रविडास्तु ट्वितं पठित्वा "टितोऽथुच्'' इति अथुचमुदाहरन्ति ( भरथुः ) इति शेषं भरतिवत् 5