डुपचँष् (Dupaca~S)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritडुपचष् पाके
- पचति । पचते । पक्ता । पक्त्रिमम् । पचा । पचः । मितम्पचः । पक्त्रिः । पक्वम् । पाकः । उत्पचिष्णुः । पाकिमा लता ।।1004 ।।
क्षीरतरङ्गिणी
Sanskritडुपचँष् पाके
- सानुनासिकोऽकारः सर्वेषामुपलक्षणार्थः उपदेशेऽजनुनासिक इत् (118 इतीत् संज्ञा यथा स्यात् पचते, पचति पक्त्रिमम् षित्त्वात् (द्र0 33104) अङ्-पचा स्थागापापचो भावे (3395) क्तिन्- पक्तिः पचो वः (8255) पक्वम् पचादौ (गण0 31134) श्वपचः अणपीष्यते-श्वपाकः मांसपाकः न्यङ् क्वादिः (गण0 7353), तत्रैव निपातनात् कर्मकर्तरि उण्- दूरेपाकुः फलेपाकुः परिमाणे पचः (3233) खश् द्रोणम्पचः मितनखे च (3234) मितम्पचः, नखम्पचः राजसूयसूर्य (31114) इति कृष्टपच्यः अलङ्कृञ् (32126) इत्युत्पचिष्णुः पचेलिमाः कर्मकर्तरि (द्र0 काशिका 3196) पचेलिमा माषाः मांसस्य पचि युड्घञोः (द्र0 का0 61144) लोपो वा- मांस्पाकः मांसपाकः , मांस्पचनम् मांसपचनम् 967
धातुवृत्तिः
Sanskritडुपचष् (अर्थः) पाके
इतो वहत्यन्ता अनुदात्ताः स्वरितेतः ( पचति पपाच पेचतुः पपक्थ पेचिथ पक्ता, पक्ष्यति पचतु अपचत् पचेत् पच्यात् अपाक्षीत् पचते पेचे पक्ता पक्ष्यते पचताम् अपचत पचेत पक्षीष्ट अपक्त अपक्षाताम्, ) झलि सिज्लोपः स्वामिदासौ पचत इत्यत्र दासधर्मस्य स्वामिन्यारोपात् परस्मैपदम् पचेते इत्यत्र स्वामिधर्मस्य दासे समारोपात्तङिति कैयटादौ ( पिपक्षति पिपक्षते पापच्यते पापक्ति पापक्तः ) कृष्टे स्वयमेव पच्यन्त इति कृष्टपच्याः राजसूयादौ क्यपि निपात्यते, कर्मकर्त्तरि निपातनमिति वृत्तिः ( पचः ) अच् शवानं पचतीति श्वपचः पचादिपाठसामर्थ्यात्कर्मोपपदादप्यच् उक्तं च---
अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः अण्बाधनार्थमेव स्यात् सिध्यन्ति श्वपचदयः
इति (श्वपाकः मांसपाकः पिण्डपाकः कपोतपाकः) अत्र न्यङ्क्वादिपाठात्कर्मण्यणि कुत्वम् ( दूरेपाकः फलेषाकः ) न्यङक्वादिपाठादचि वृद्धिकुत्वे "तत्पुरुषे कृति'' इत्यलुक् न्यङ्क्वादिपाठादेव चेमौ कर्मकर्त्तरीति वृत्तौ क्षणेपाक इति केचित्पठन्ति, दूरेणाका फलेपाकेति टाबन्तावन्ये उकारान्तावपरे ( दूरेपाकुः ) फले पाकुरिति उप्रत्यये निपातनादिति वृत्तौम(प्रस्थंपचः मितंपचः नखंपचः)"परिमाणे पचः'' इति "मितनखे च'' इति परिमाणवाचिनि कर्मण्युपपदे मितनखयोश्च खच् उत्पचिष्णुः "अलंकृञ्'' इत्यादिनेष्णुच् ( पचेलिमाः शालयः ) [ केलिमर उपसंख्यानम् ] इति केलिमर् अयं कर्मकर्त्तरीति वृत्तिः रेफ "उपोत्तमं रिति'' इति स्वरे विशेषणार्थः पक्त्रिमम् "ड्वितः क्त्रिः'' इति क्त्रिप्रत्यये "क्त्रेर्मम्नित्यम्'' इति मप् ( पाकेन निर्वृत्तं पाकिमम् ) [ "भावप्रत्ययान्तादिमप् वक्तव्यः'] इति इमप् ( पक्तिः ) " स्थागापापचः'' इति क्तिन् षित्वादङि पचा ( पक्वः पक्ववान् ) इति "पचो वः'' इति निष्ठातकारस्य वकारः तस्य पूर्वत्रासिद्धत्वाज् झल्परत्वात्'' चोः कुः'' इति कुत्वम् प्रपक्वानि फलानीत्यत्र "कुमति च'' इति कवर्गवत्युत्तरपदे पूर्वपदस्थान्निमित्तात्परस्य प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य प्राप्तं णत्वं [ युवादीनां प्रतिषेधः] इति न भवति ( पाकः पचनम् ) मांसस्य पाको मांस्पाकः मांसपाकः एवं मांसस्य पचनं (मांस्पचनम् मांसपचनम्) मांसस्य पचि युड्घञोरिति पक्षेऽन्तलोपः (पचनः) "भृशी''त्यादिना युच् अयं द्विकमर्म्मक इति नाथतावुक्तं, तेन तण्डुलानोदनं पचतीति भवति अत्र कैयटकारः अत्र विक्लेदनोपसर्जननिवर्तनार्थो धातुरिति तण्डुलानां विक्लेदनापेक्षं कर्मत्वम् ओदनस्य तु प्रधानभूतनिवर्त्तनापेक्षमिति तण्डुलनोदनं पचतीतिप्रयोगः प्रकृतिविकाराभावविवक्षायां तण्डुलैरोदनं पचतीति साधकतमत्वविवक्षायाम् उदुम्बरः फलं पच्यते [दुहिपच्योर्बहुलं सकर्म्मकयोः] इति कर्त्तुः कर्मवद्भावः अत्र कैयटो वृक्षस्य कर्तृत्वविवक्षायामन्यतमप्राप्ते वचनम् अन्ये त्वाहुः पचिरत्र विषये द्विकर्म्मकः वृक्षस्य पाकमन्तरेण फलपाकासम्भवात् वृक्षोऽकथितं कर्म्म तस्यैव च यदा कर्तृत्वविवक्षा तदाऽयं कर्म्मवद्भावः एवंविधे विषये कर्म्मवद्भाव इष्यते न पुनरोदनं पचतीत्यादाविति व्यक्तीकरणे पञ्चत इत्यादि गतम् 976
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
