डुधाञ् (DudhAJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaडुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಇಡು /ಇರಿಸು
प्रयोगाः - > "तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते"
उल्लेखाः - > काव्या २-६४
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಗುರಿಯಿಡು
प्रयोगाः - > "धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते"
उल्लेखाः - > मालती० ३-१२
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಕೊಡು /ಅನುಗ್ರಹಿಸು /ದಯಪಾಲಿಸು
प्रयोगाः - > "धुर्यां लक्ष्मीमिह मयि भृशं धेहि देव प्रसीद"
उल्लेखाः - > मालती० १-५
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹಿಡಿದುಕೊ /ಧರಿಸು
प्रयोगाः - > "नायुधानि दधते मुमुक्षवः"
उल्लेखाः - > किरा० १३-५४
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಉಡು /ಧರಿಸು
प्रयोगाः - > "दधतो मङ्गलक्षौमे वसानस्य च वल्कले"
उल्लेखाः - > रघु० १२-८
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಪೋಷಿಸು /ಸಾಕು /ಸಲಹು
प्रयोगाः - > "सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्"
उल्लेखाः - > रघु० १-२६
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದು /ವಹಿಸು
प्रयोगाः - > "दधत्युरोजद्वयमुर्वशीतलम्"
उल्लेखाः - > माघ० ९-८६
डुधाञ् - धारणपोषणयोः (जुहो० उभ० अक० अनि) दधाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊರು /ಹೊತ್ತುಕೊ
प्रयोगाः - > "गाम धास्यत्कथं नागो मृणालमृदुभिः फणैः"
उल्लेखाः - > कुमा० ६-६८
धातुपाठः (Krishnacharya)
Sanskrit धा
डुधाञ्
धारण-पोषणयोः
जुहोत्यादिः
सकर्मकः
अनिट्
उभयपदी
दधाति-धत्ते
आकारान्तः, ड्वित्
धातुप्रदीपः
Sanskritडुधाञ् धारण, पोषणयोः
- दधाति धत्ते धत्तः दधाते दधति दधते दधासि धत्से धीयते विहितम् संविधानम् हित्वा विधाय हित्रिमम् धान्यम् (4) दानेऽप्येके ''द्विषता विहितम्'' इति 10
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritडुधाञ् दान, धारणयोः
- धत्ते प्रणिदधाति दधत् धीयते धेहि अधित अधात् दधस्तथोश्च (8238) इति भष्-धत्तः, धत्स्व, धत्त्रिमम् पाय्यसान्नाय्य (31129) इति धाय्या सामिधेनी दधः धायः दधातेर्हि (7442)-हितम् वष्टि भागुरिरल्लोपम् इति पिहितम्, पिधानम् स्पृहिगृहि (32158) इत्यालुच्-श्रद्धालुः, श्रदुपसर्गवत् भाषायां धाञ् कृशृ (32171 वा0) इति किकिनौ-दधिः आतोऽनुपसर्गे कः (323)-गोधा आतश्चोपसर्गे (31136) कः विधः, विधा कर्कन्धूर्बदरी (द्र0 उ0 193) वयसि धाञः, पुरसि च (उ0 4228, 230) इत्यसिः-वयोधाः, पुरोधाः विधाञो वेध च (उ0 4225)-वेधाः सितनिगमि (उ0 169) इति तुन्-धातुः दधातेर्यन्नुट् च (उ0 548)-धान्यम् सुसूधाञ् गृधिभ्यः क्रन् (उ0 224) धीरः कॄपॄवृजिमन्दि (उ0 281) इति क्युन्-निधनम् आनको लूशीङ्घिधाञ्भ्यः (तु0 उ0 3 83)-धानकः अन्दूदृन्भू (तु0 उ0 193) इति दिधिषूर्ज्येष्ठानूढा धापॄवस्यज्यतिभ्यो नः (उ0 36)-धानाः अघ्न्यादौ (द्र0 उ0 4112) सन्ध्या उपसर्गे घोः किः (3392)-सन्धिः, विधिः कर्मण्यधिकरणे च (3393)-ओषधिः वालधिः भिदादौ (गण0 33104) श्रद्धा आतो युच् (32128) सुधानस्त्वया भारः दिवादौ धीङ् आधारे (426)-धीयते 10
धातुवृत्तिः
Sanskritडुधाञ् (अर्थः) धारण, पोषणयोः
अनुदात्त उभयपदी दानेऽप्येके ( दधाति, धत्तः दधति, दधासि, धत्थः, दधामि, दध्वः ) "श्नाभ्यस्तयोः'' इत्याल्लोपे "दधस्तथोश्च'' इति तकारथकारसकारेषु ध्वे च परेषु बशस्स्थाने भष्विधानाद् दकारस्य धकारः अत एव भष्भाववचनसामर्थ्याद् आल्लोपस्य न स्थानिवत्त्वम् परस्य "खरि च'' इति चर्त्वम् अत्रापि "पूर्वत्रासिद्धीयमद्विर्वचने'' इति वा "चर्त्वविधिं प्रति' इति वाल्लोपस्य न स्थानिवत्त्वम् "सम्पद्विनिमयेनोभौ दधतुर्भुवनद्वयम्' इत्यत्र "प्रतिषेधे हसादीनाम्' इति कर्मव्यतीहारनिमित्तः तङ्नेति केचित् तदयुक्तम् तत्रादिशब्देन शब्दनक्रियाणामेव ग्रहणात् इह तु सम्पदो विनिमयो न धात्वर्थस्येति तस्य व्यतीहाराभावात्तङौ नैव प्रसङ्गः ( दधातु, धत्तात्, धत्तां, धेहि, दधानि अदधात्, अधत्ताम्, अदधु, अदधाः, अदधाम्, अदध्व दध्यात्, दध्याः, दध्याम्, ) आशिषि ( धेयात्, धेयास्ताम् ) "एर्लिङि'' इत्येत्वम् ( अधात्, अधाः, अधां, ) "गातिस्था'' इति, सिचो लुक् ( धत्ते, दधाते, दधते, धत्से धध्वे, दधे, दध्वहे, दधे दधाते, दधिषे, दधे धाता धास्यते धत्तां, धत्स्व, दध्वम्) एकदेशविकृतत्वादयमपि ध्वेशब्दः ( दधै, दधावहै, अधत्त, अधत्थाः, अदधि, अदध्वहि दधीत ) आशिषि ( धसीष्ट, अधित, अधिषाताम्, अधिषत, अधिथाः, अधिषि, ) "स्थाघ्वोरिच्च'' इति सिचः कित्त्वमित्वं च ( धित्सति, धित्सते देधीयते दाधेति, दाधाति, धात्तः, ) ददातिवत्प्रक्रिया ( धापयते, धापयति ) ( प्रणिदधाति, ) "नेर्गद'' इति णत्वम् धीय्यतइति ( धाय्या ) "पाय्यसान्नाय्य'' इत्यादिना ण्यति सामिधेन्यां निपात्यते अन्यत्र यतीत्वे ( धेयम् ) ( प्रधः ) "आतश्चोपसर्गे'' इति कः दधातीति ( दधः ) "ददातिदधात्योर्विभाषा'' इति शे शप् अन्यदा "श्याद्वयध'' इति णः, (धायः हित्वा, हितः, हितवान्, हित्रिमम्, ) ड्वितः क्त्रिः'' "क्त्रेर्मम्नित्यम्'' "दधातेर्हिः'' इति तकारादौ किति ह्यादेशः प्रधायेत्यत्र "अन्तरङ्गानपि विधीन् बहिरङ्गो ल्यब्बाधते' इति पूर्वमेव ल्यपिपश्चात्तादिकितोऽभावाद् न हिरादेशः "न ल्यपि'' इतीत्वं निषिध्यते दधातेरिति तिपानिर्देशाद् दाधीत्वेत्यत्र ह्यादेशो न भवति यद्वा तकारादिकित्परत्वाभावान्नैव हेः प्रसङ्गः किंकिं दधातीति (किष्किन्धा) "आतोऽनुपसर्गे क'' इति कः, पारस्करादित्वात्सुट् किमोमलोपष्षत्वं च धीयते धार्यते शिरसीति (धीत्री) आमलकी "धः कर्मणि ष्ट्रन्'' षित्त्वान्ङीष् ( भूतधात्री ) इत्यत्र भूतानि धत्तइत्यौणादिकः कर्तरि ष्ट्रन् ( उपधिः, अन्तर्धिः, ) "उपसर्गे घोः किः'' इति किःअन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञोक्ता उपधिरेव औपधेयम्, ) "छदिरुपधिबलेर्ढञ् ( सुषन्धिः, दुष्षन्धिः, ) सुषामादित्वात् षत्वमिति धयतावेवावोचाम ( विधिः ) बाहुलकात्कर्तरि किः उदकं धीयतेऽस्मिन्निति ( उदधिः ) "कर्मण्यधिकरणे च'' इति कर्मण्युपपदेऽधिकरणार्थो किः "पेषंवासवाहनाधिषु च'' इत्युदकस्योदभावः असंज्ञार्थमिदं वचनम् संज्ञायां तु "उदकस्योदस्संज्ञायाम्'' इत्येव सिद्धम् शिरो धत्तइति ( शिरोधिः ) ग्रीवा बाहुलकात्कर्तरि किः एवं"विधाता विश्वसृङ्विधिः' इत्यादावपि यद्वा शिरोधिशब्दे शिरो धीरयतेऽस्यामिति "कर्मण्यधिकरणे च'' इति किप्रत्येऽस्तु व्युत्पत्तिः ( अन्तर्धा, श्रद्धा ) अन्तश्शब्दस्याङ्किविधिणत्वेषूपसर्गसंज्ञोक्ता श्रच्छब्दस्यापि [ श्रच्छब्दस्योपसङ्यानम् ] इति ( श्रद्धालुः ) "स्पृहिगृही'' इत्यादिना आलुच् (दधि) "भाषायां धाञ्कृसृगमिजनिनमिभ्य''इति किकिनोरन्यतरस्मिन् लिङ्वद्भावाद् द्विर्वचनम् ( धीवा ) "अन्येभ्योऽपि दृश्यते'' इति क्वनिपि "घुमास्था'' इतीत्वम् ( धीवरी ) "वनो र च'' इति ङीब्रेफौ बहवो धीवानोऽस्यां ( बहुधीवरी, बहुधीवा बहुधीवे, बहुधीवानौ ) "डाबुभाभ्यामन्यतरस्याम्'' इति पक्षेङीब्रेफौ डाप्च, "अनो बहुव्रीहेः'' इति निषेधाद् ङीपोऽभावश्च ( धीवरः ) "छित्वरचत्वर'' इत्यादिना ष्वरचि निपात्यते ( धातुः ) "सितनिगमी'' इत्यादिना तुन् ( धानाः ) "धापॄवस्यज्यतिभ्यो न '' इति नः ( धामा, ) मनिन् ( कर्कन्धूः ) "अन्धूदृन्भूकर्कन्धूदिधिषूः'' इति निपातनात् कर्कशब्दे उपपदे कूप्रत्ययः, अल्लोप उपपदस्य मुमागमश्च ( दिधिषूः ) पूर्वेण सूत्रेणैव निपातनात्कृप्रत्यय आकारस्येकारो द्विर्वचनं षुगागमश्च ( निधानम् ) "कॄवॄवृजिमन्दिनिधाञ्भ्य'' इति क्युन्, अयं बाहुलकात्केवलादपीति (धनम्) इत्यपि भवति ( धनायति ) धनं गृध्यतीत्यर्थंः "अशनायोदन्यधनाया बुभुक्षापिपासगर्धेषु'' इति क्यचि धनशब्दस्य यथासङ्खयाद्गर्धे आकारः सर्वधनमस्यास्तीति ( सर्वधनी )"कर्मधारयान्मत्वर्थीयस्सर्वधनाद्यर्थ'' इतीनिः "न कर्मधारयान्मत्वर्थीय' इत्यस्यापवादः ( अपिदधाति, पिदधाति ) "वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इति पक्षे ऽल्लोपः धयतीति पाने शपि अत्रानुक्तं साधारणं तत्र द्रष्टव्यम् 10
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
