| YouTube Channel

डुदाञ् (DudAJ)

 
Shabdartha Kaustubha
Kannada
डुदाञ् - दाने (जुहो० उभ० सक० अनि०) ददाति
पदविभागः - > धातुः
कन्नडार्थः - > ಕೊಡು /ದಾನ ಮಾಡು
प्रयोगाः - > "ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥"
उल्लेखाः - > पञ्चतं० २-५१
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दा
मूलधातुः:
डुदाञ्
धात्वर्थः:
दाने
गणः:
जुहोत्यादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
ददाति-दत्ते
धातुप्रदीपः
Sanskrit
डुदाञ् दाने
- ददति दत्ते दीयते ददौ ददे ददतुः ददाते अददात् अदत्त अदत्ताम् अददाताम् अददुः अददत देहि दत्स्व दद्यात् ददीत देयात् दासीष्ट अदात् अदित अदाताम् अदिषाताम् अदुः अदिषत ददत् ददानः दत्रिमम् दत्त्वा प्रदाय दत्तम् प्रत्तम् प्रदत्तम् प्रदः प्रदा 9
क्षीरतरङ्गिणी
Sanskrit
डुदाञ् दाने
- दत्ते नेर्गदनद (8417) इति प्रणिददाति नाभ्यस्ताच्छतुः (7178) नुम्-ददत् घुमास्था (6466) इतीत्वम्-दीयते आङो दोऽनास्यविहरणे (1320)तङ् विद्यामादत्ते घ्वसोरेद्धावभ्यासलोपश्च (64119)-देहि गातिस्थाघु (2477) इति सिज्लुक्-अदात् स्थाध्वोरिच्च (1217) सिच् किच्च-अदित सनिमीमा (7454) इति दित्सति डु (द्र0 3388)-दत्रिमम् ददातिदधात्योर्विभाषा (31139) इति शः, पक्षे श्याद्व्यध (31141) णः-दद दायः प्रे दाज्ञः (326)-विद्याप्रदः दो दद्घोः (7446) दत्तः अच उपसर्गात् तः (7447)-प्रत्तम् दाधेट्सि (32159) इति रुः-दारुर्दानम् उपसर्गे घोः किः (3392) आदिः आतो युच् (33128) सुदानो गौस्त्वया दायादः 9
धातुवृत्तिः
Sanskrit
डुदाञ् (अर्थः) दाने
उभयतोभाषोनुदात्तः प्रणिददाति, दत्तः, ददति, ददासि, दत्थः, दत्थ, ददामि, दद्वः, ) "श्नाभ्यस्तयोः'' इत्याल्लोपः क्ङिति सार्वधातुके "ई हल्यघोः'' इत्यभ्यस्ताकारस्य विधीयमानमीत्वं तत्रैव अघोरिति प्रतिषेधान्न प्रसजति ( 1 ) ( 1 ) प्रणिददातीत्यधिकं पुस्तकान्तरे "नेर्गद'' इति णत्वम् ( ददौ, ददतुः, ददुः, ददाथ, ददिथ, दद, ददौ, ददिव ) क्रादिनियमादिट् थलि भाद्वाजनियमाद्विकल्पः "आत णलः'' "आतो लोप इटि च'' ( दाता दास्यति ददातु, दत्तात्, दत्ता, ददतु, देहि, ददानि, दत्तात् ) इत्यत्र "घ्वसोरेद्धौ'' इत्यस्मात्परत्वात् तातङि पुनर्न तस्य प्रवृत्तिः सकृद्गतपरिभाषया (अददात्, अदत्ताम् अददुः) "सिजभ्यस्त'' इति नित्यं जुस् (अददाः अददाम्, अदद्व दद्यात्, दद्यातां, दद्याः दाद्यम्, दद्याव) आशिषि ( देयात्, देयास्ताम् ) घुत्वाद् "एर्लिङि'' इत्येत्वम् ( अदात् अदाताम्, अदुः ) "आत'' इति झेर्जुसि पररूपम् ( अदाः, अदाम्, अदाव ) "गातिस्था'' इति सिचो लुक् ( दत्ते, ददाते, ददते, दत्से, दध्वे, ददे, दद्वहे ददाते, ददिषे दाता दास्यते दत्तां, ददातां दत्स्व, दध्वम्, ददै, ददावहै अदत्त, अददाताम्, अददत, अदत्थाः, अददि, अदद्वहि ददीत, ददीयातां, ददीथाः, ददीय ) आशिषि ( दासीष्ट ) आर्धधातुकत्वेऽपि अकित्त्वादेत्वं भवति "श्नाभ्यस्तयोः'' इत्याल्लोपस्तु अनभ्यस्तत्वादि भवति (अदित, अदिषाताम्, अदिथाः, अदिषि ) "स्थाघ्वोरिच्च'' इत्यात्मनेपदपरस्य सिचः कित्त्वं धातोश्चेत्वम् झलि "ह्रस्वादङ्गात्'' इति सिज्लोपः सन्निपातपरिभाषाभावः प्रागेवोक्तः ( आदत्ते ) "आङो दोनास्यविहरणे'' इत्यकर्त्रभिप्रायेऽपि तङ् "आङ'' इति निर्देशाद् अङित्तोवाक्यस्मरणविस्मयात्परस्य तङिति के चित् "अनास्यविहरणे'' इति पर्युदासः "स्वाङ्गकर्मकाच्च'' इति वक्तव्यात्स्वाङ्गकर्मकविषय इति ( व्याददते पिपीलिका पतङ्गस्य मुखम् ) इत्यत्रापि तङेव स्वाङ्गकर्मकत्वे तु स्वमुखं व्याददाति व्यादत्ते इत्युभयमपि यथायोगं भवति सुधाकरस्तु "आङो दो'' इति योगविभागादनास्यविहरणइत्यनेन व्यवहितापि प्राप्तिपरानुद्यते एवमेव चन्द्राः प्रतिपेदिरइति ङित्त्वनिमित्तमपि तङमत्र नेच्छति आत्रेयस्तु कर्त्रभिप्राये तङेवेति अयं योगविभागो भाष्ये दृश्यते किञ्च "आङो दोऽनास्य'' इत्येवास्ये धातोर्वृत्सम्भवात् तत्समवायिन्यां विहरणक्रियायां वर्तमानत्तङ्निषेधे सिद्धे पुनर्विहरणग्रहणं विपादिकां( 2 ) ( 2 ) कुलं व्याददातीत्यधिकं बहुषु पुस्तकेषु व्याददातीत्यादावास्यविहरणसमानक्रियादपि प्रतिषेधार्थ इति भाष्ये उक्तम् तत्रैव कैय्यटपदमञ्जर्योरास्यइत्युच्यमाने तत्समवायिक्रियामात्रं लभ्यते विहरणमेबेति स्वं मुखमादत्तइत्यत्रापि ग्रहणस्य मुखसमवायित्वात् प्रतिषेधस्स्यादिति दोषमुद्भाव्य "अनास्य'' इत्यास्यपर्युदासत्वाद्ग्रहणस्य ग्राह्यग्रहीतृविषयत्वादनास्यक्रियत्वान्न दोष इति परिहृतम् प्रसज्यप्रतिषेधे ह्यास्यसमवायित्वाश्रयेण प्रतिषेधेन भाव्यत्वाद् दोष एव स्यादिति भाष्यकृतोऽप्ययमनभिमतः प्रतीयते किञ्च स्वं मुखमादत्तइति तङ्नस्यादिति दोषा( 3 ) ( 3 ) अनिष्टापादनमिति क्वचित् पादानमप्युक्तं स्यात् (दित्सति, दित्सते, ) "सनि मीमा'' इतीस्भावे "अत्र लोप'' इत्यभ्यासलोपः "सस्यार्धधातुके'' इति तत्वम् ( देदीयते, ) ईत्वे द्विर्वचनम् दादेति, दादाति, दत्तः, ) क्ङिति "श्नाभ्यस्तयोः'' इत्याल्लोपः ( दापयति अदीदपत् ददः ) "ददातिदधात्योर्विभाषा'' इति कर्तरि शे शपः श्लुः शाभावे "श्याद्व्यध'' इति णे युकि (दायः)"तदर्हम्'' इति निर्देशात् क्कचित्कृद्योगे द्वितीया भवतीति "दायै रामोदमुत्तमम्' इति भट्टिप्रयोगं निर्वहन्ति दीयतइति ( दायः, ) घञ्, तमादत्तइति ( दायादः ) मूलविभुजादित्वात् कः ( गवां दायादः गोषु दायादः ) "स्वामीश्वर'' इति षष्ठीसप्तम्यौ दायादेर्नादीयमानं ( दायाद्यम् ) ब्राह्मणादित्वात् ष्यञ् तत्र हि कर्मग्रहणेन साधनकर्मापिगृह्यते ( आदिः ) "उपसर्गे घोः किः'' इति किः आदौ भवम् ( आदिमम् ) [ आदेश्च ] इत्युपसङ्ख्यानाद् मप्रत्ययः ( आद्यः ) दिगादित्वाद्यत् ( आदितः ) [ आद्यादिभ्य उपसङ्ख्यानम् ] इति सार्वविभक्तिकस्तसिः ( दत्रिमम् ) "ड्वितः कित्रः'' "क्त्रेर्मम्न्नित्यम्'' अन्येषु साधारणेषु कृत्सु दाण इव रूपं नेयम् तथा घुसंज्ञाकार्यमपि दाण् दाने, देङ् रक्षणे, दैप् शोधने, त्रयं भूवादौ, दाप् लवने इत्यदादौ 9