डुक्रीञ् (DukrIJ)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaडुक्रीञ् - द्रव्यविनिमये (क्र्या० उभ० सक० अनि०) क्रीणाति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಬೆಲೆ ಕೊಟ್ಟು ಕೊಂಡುಕೊ
धातुपाठः (Krishnacharya)
Sanskrit क्री
डुक्रीञ्
द्रव्यविनिमये
क्र्यादिः
सकर्मकः
अनिट्
उभयपदी
क्रीणाति, क्रीणीते
धातुप्रदीपः
Sanskritडुक्रीञ् द्रव्यविनिमये
- क्रीणाति क्रीणीते परिक्रीणीते विक्रीणीते चिक्राय चिक्रिये क्रेता क्रेष्यति क्रेष्यते अक्रीणात् अक्रीणीत अक्रीणीताम् अक्रीणाताम् अक्रीणात् अक्रीणि अक्रैषीत् अक्रेष्ट चिक्रीषति चिक्रीषते चेक्रीयते क्रापयति अचिक्रपत् क्रयः क्रयम् क्रेयम् क्रेता क्रायकः क्रीणन् क्रीणानः क्रीत्वा क्रीतः क्रीत्रीमम् 1
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritडुक्रीञ् द्रव्यविनिमये
-(अर्थविवरणम्) विनिमयः परिवर्तः
इतः सप्तानिटः क्र्य्यादिभ्यः श्ना (3181)-क्रीणाति, क्रीणीते, ई हल्यघोः (64113) क्रीणन्ति, श्नाभ्यस्तयोरातः (64112) लोपः परिव्यवेभ्यः क्रियः (1318) तङ्-परिक्रीणीते क्रीङ्जीनां णौ (6148) इति आत्वम्-क्रापयति क्रेता क्रय्यस्तदर्थे (6182), क्रयोऽन्यः कर्मणीनिविक्रियः (तु0 3293)-सोमविक्रयी क्रिय इकन् (उ0 244)-क्रयिकः 1
धातुवृत्तिः
Sanskritडुक्रीञ् (अर्थः) द्रव्यविनिमये
( क्रीणाति क्रीणीतः क्रीणन्ति क्रीणासि क्रीणामि क्रीणीवः क्रीणीते क्रीणाते क्रीणतेक्रिणीषे क्रीणे क्रीणीवहे ) इत्यादि "क्र्यादिभ्यः श्ना''इतिशपोऽपवादः श्ना "श्नाभ्यस्तयोरातः'' इति किति सार्वधातुकआलोपः हलादौ तु "ईहल्यघोः'' इतीत्वम् झिझयोः परत्वान्नित्यत्वादन्तरङ्गत्वादीत्वात्पूर्वमन्तादेशात् श्राभ्यस्तयोराल्लोपः (चिक्राय चिक्रियतुः चिक्रयिथ चिक्रेथ चिक्रियथुः चिक्रिय चिक्राय चिक्रय चिक्रियिध्वे चिक्रिये चिक्रियाते चिक्रियिषे चिक्रिये चिक्रियिवहे) क्रादिनियमादिट्, थलि तु भारद्वाजनियमादिड्विकल्पः अगुणवृद्धिविषये इत्यङ् "एरनेकाच'' इति यण् तु संयोगपूर्वत्वान्न भवति ( क्रेता क्रेष्यति क्रेष्यते क्रीणातु क्रीणीतात् क्रीणीताम् क्रीणन्तु क्रीणीहि क्रीणानि क्रीणाव क्रीणीताम् क्रीणाताम् क्रीणताम् क्रीणीष्व क्रीणावहै ) तातङः स्वतो ङित्त्वाद्धेश्चापित्त्वेन ङित्त्वादीत्वम् उत्तमे त्वाटः पित्त्वेन ङित्त्वाभावादीत्वाभावः ( अक्रीणात् अक्रीणीताम् अक्रीणाः अक्रीणीतम् अक्रीणीत अक्रीणाम् अक्रीणीव अक्रीणीत1 अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम् अक्रीणि अक्रीणीवहि क्रीणीयात् क्रीणीयाताम् क्रीणीयाः क्रीणीयाम् क्रीणीयाव ) यासुटो ङित्त्वात्पिद्वचनेष्वपीत्वम् ( क्रीणीत क्रीणीयाताम् क्रीणीथाः क्रीणीय क्रीणीवहि क्रीणीमहि ) सीयुटि ( 1 ) ( 1 ) आतो लोप इत्यधिकं पुस्तकान्तरे आलोपः आशिषि ( क्रीयात् क्रीयास्ताम् क्रेषीष्ट क्रेषीयास्ताम् ) इत्यादि ( अक्रैषीत् अक्रैष्टाम् अक्रैषम् ) सिचि वृद्धिः ( अक्रेष्ट अक्रेषाताम् अक्रेष्ठाः अक्रेषि चिक्रीषति चिक्रीषते चेक्रीयते चेक्रेति क्रापयति अचिक्रपत् ) "क्रीङ्जीनां णौ'' इत्यात्वे पुक् ( शतेन शताय वा परिक्रीणीते ) "परिव्यवेभ्य'' इत्यकर्त्रभिप्रायेऽपि तङ् एवं व्यवाभ्यामपि इह पर्यादय उपसर्गा गृह्यन्ते इति बहु विक्रीणाति वनमित्यादौ न भवति "परिक्रयणे सम्प्रदानमन्यतरस्याम्'' इति परिपूर्वस्य क्रीणातेः साधकतमस्य पक्षे सम्प्रदानत्वम् परिक्रयणं वेतनादिना नियतकालं स्वीकरणम् ( क्रीत्रिमम् ) "ड्वितः क्त्रिः'' "क्त्रेर्मम् नित्यम्'' ( क्रीतः क्रीतवान् ) अश्वेन क्रीता ( अश्वक्रीती ) धनेन क्रीता ( धनक्रीति ) "6karwqkaraNe कृता बहुलम्'' इति तृतीयासमासः स च "गतिकारकीपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः'' इति क्रीतशब्देनेति "क्रीतात्करण पूर्वात्'' इत्यदन्तात् क्रीतान्तात्प्रातिपदिकाद्विधीयमानो ङीष् भवति "सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी' इत्यत्र तु बहुलप्रहणादाबन्तेन समास इति अनदन्तत्वान्ङीषभावो वाच्यः अन्तवद्भावेन टाबन्तोऽपि कृदन्त एवेति कृदन्तलक्षणसमासलाभः ( क्रयः ) "एरच्'' अवक्रियते व्यवह्रियतेऽनेनेति (अवक्रयः) आयस्थानेषु वणिजादिभिर्दीयमानःस्वामिग्राह्यो भागः, यस्य पिण्डक इति प्रसिद्धिः "पुंसि संज्ञायाम्'' इति घः क्रयार्थं प्रसारितं ( कय्यम् ) "अचो यत्'' "क्रय्यस्तदर्थे'' इत्ययादेशः अत्र तच्छब्देन क्रयः परामृश्यते अन्यत्र गुणे क्रेयः (क्रायकः, ) ण्वुल्, (क्रयिकः) "क्रिय इकन्'' इति इकन् 1
कृदन्तरूपमाला
Sanskrit1 {@“डुक्रीञ् द्रव्यविनिमये”@} 2 क्रायकः-यिका, 3 क्रापकः-पिका, चिक्रीषकः-षिका, चेक्रीयकः-यिका
4 क्रेता-त्री, क्रापयिता-त्री, चिक्रीषिता-त्री, चेक्रीयिता-त्री
5 कीणन् 6 ती, क्रापयन्-न्ती, चिक्रीषन्-न्ती
-- क्रेष्यन्-न्ती-ती, क्रापयिष्यन्-न्ती-ती, चिक्रीषिष्यन्-न्ती-ती
-- क्रीणानः, 7 परिक्रीणानः 8 -विक्रीणानः-अवक्रीणानः
क्रापयमाणः, चिक्रीषमाणः, चेक्रीयमाणः
केष्यमाणः, क्रापयिष्यमाणः, चिक्रीषिष्यमाणः, चेक्रीयिष्यमाणः
9 यवक्रीः-यवक्रियौ-यवक्रियः
-- -- क्रीतम्-तः, 10 क्रापितः, चिक्रीषितः, चेक्रीयितः-तवान्, कयः, 11 मांसविक्रयी, 12 सोमविक्रयी, अन्नविक्रयी, 13 धान्यविक्रायः, क्रापः, चिक्रीषुः, चेक्रियः
क्रेतव्यम्, कापयितव्यम्, चिक्रीषितव्यम्, चेक्रीयितव्यम्
क्रयणीयम्, क्रापणीयम्, चिक्रीषणीयम्, चेक्रीयणीयम्
14 क्रय्यम्-क्रेयम्, क्राप्यम्, चिक्रीष्यम्, चेक्रीय्यम्
ईषत्कयः-दुष्क्रयः-सुक्रयः
-- -- क्रीयमाणः, क्राप्यमाणः, चिक्रीष्यमाणः, चेक्रीय्यमाणः
15 16 क्रयः, 17 निष्क्रयः, 18 अवक्रयः, विक्रयः, क्रापः, 19 क्रीत्रिमम्, क्रापः, चिक्रीषः, चेक्रीयः
क्रेतुम्, क्रापयितुम्, चिक्रीषितुम्, चेक्रीयितुम्
विक्रीतिः, क्रापणा, चिक्रीषा, चेक्रीया
परिक्रयणम्, क्रापणम्, चिक्रीषणम्, चेक्रीयणम्
क्रीत्वा, क्रापयित्वा, चिक्रीषित्वा, चेक्रीयित्वा
विक्रीय, विक्राप्य, विचिक्रीष्य, विचेक्रीय्य
क्रायम् २, क्रीत्वा २, क्रापम् २, क्रापयित्वा २, चिक्रीषम् २, चिक्रीषित्वा २, चेक्रीयम् २
चेक्रीयित्वा २
20 इकन् प्रत्यये क्रयिकः इति रूपम्।
पण्यसङ्ग्रहीता = क्रयिकः।]] क्रयिकः।
01 (२७४)
02 (९-क्र्यादिः-१४७३। सक। अनि। उभ।)
03 [[७। ‘कीङ्जीनां णौ’ (६-१-४८) इत्यात्वे, ‘अर्तिह्रीव्ली--’ (७-३-३६) इति णौ पुगागमः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04 [पृष्ठम्०२८४+ २५]
05 [[१। ‘क्र्यादिभ्यः श्ना’ (३-१-८१) इति श्ना विकरणप्रत्ययः। ‘श्नाभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। णत्वम्।]]
06 [[आ। ‘क्रीणन् गुणैर्जनमतिं प्रियरूप ईशः मांसश्रियां प्रमयकृत् सितपीतचेलः।’ धा। का। ३-५।]]
07 [[२। ‘परिव्यघेभ्यः क्रियः’ (१-३-१८) इत्यात्मनेपदमेव, न तु शता।]]
08 [[B। ‘कृतेनोपकृतं वायोः परिक्रीणानमुत्थितम्। पित्रा संरक्षितं शक्रात् स मैनाकाद्रिमैक्षत।।’ भ। का। ८-८।]]
09 [[३। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्।]]
10 [[C। ‘सम्भोगाय परिक्रीतः कर्ताऽस्मि तव नाप्रियम्।।’ भ। का। ८-७८।]]
11 [[४। ‘कर्मणीनिर्विक्रियः’ (३-२-९३) इत्यत्र ‘कुत्सितग्रहणं कर्तव्यम्’ (वा। ३-२-९३) इति वचनात् कुत्मायामिनिः।]]
12 [[ड्। ‘मांसविक्रयिणः कर्म व्याधस्यापि विगर्हितम्।’ भ। का। ६-१२९।]]
13 [[५। कुत्साया अभावे ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
14 [[६। ‘क्रय्यस्तदर्थे’ (६-१-८२) इति निपातनात् यति अयादेशः। ‘क्रेतारः क्रीणीयु- रिति बुद्ध्या आपणे प्रसारितं द्रव्यम् = क्रय्यम्। क्रेयम् अन्यत्।’ इति सिद्धान्तकौमुदी।]]
15 [पृष्ठम्०२८५+ २६]
16 [[१। ‘एरच्’ (३-३-५६) इति भावे अच्।]]
17 [[आ। ‘स्वामिनो निष्क्रयं गन्तुमाविष्कृतबलः कपिः। रराज समरे शत्रून् घ्नन् दुष्कृतबहिष्कृतः।।’ भ। का। ९-६१।]]
18 [[२। ‘आयस्थानेषु वणिगादिभिर्दीयमानः स्वामिग्राह्यो भागः = अवक्रयः। यस्य ‘पिण्डक’ इति प्रसिद्धिः।’ इति माधवधातुवृत्तौ। ‘पुंसि संज्ञायां घः प्रायेण’ (३-३-११८) इति घः।]]
19 [[३। ‘ड्वितः क्त्रिः’ (३-३-८८) इति भावे क्त्रिः। ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति तेन निर्वृत्तम्-- (४-४-१९) इत्यर्थे मप्। मप्प्रत्ययान्त एव प्रयोज्यः।]]
20 [[४। औणादिके [द। उ। ३-१६]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
