डीनं (DInaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritडीनं, (डी नभोगतौ + भावे क्तः ।) पक्षि-गतिः । इति जटाधरः ॥
तद्भेदा यथा, --“क्षणात् संपत्य निष्क्रम्य पक्षसम्पातमुच्यते ।ऊर्द्ध्वाधोगतिसम्बन्धः समुदीर्णं प्रचक्षते ॥
संकल्प्य पक्षगमनमुच्यते व्यतिरिक्तकम् ।षड्विंशतिरमी भेदाः पातानामिह दर्शिताः ॥
महाडीनं विहायैषां पातानां त्रिविधा गतिः ।गतं तत्र यथोद्दिष्टं आगतं पुनरागमः ॥
प्रत्यावृत्तिः प्रतिगतिरिति षट् सप्तभिः स्मृताः ।तेषां निपाताः कथ्यन्ते प्रत्येकं पञ्चविंशतिः ॥
”तद्यथा । उड्डीनं ऊर्द्ध्वगमनम् १ अवडीनं अधः-पतनम् २ प्रडीनं पतनवेगवत्ता ३ डीनं पतन-मात्रम् ४ निडीनं नीचैःपतनम् ५ संडीनंसम्यक्पतनम् ६ तिर्य्यग्डीनं तिर्य्यक्पतनम् ७विडीनं विचित्रं पतनम् ८ परिडीनं सर्व्वतःपतनम् ९ पराडीनं परावृत्य गमनम् १०सुडीनं सुकुमारपातः ११ अभिडीनं आभि-मुख्येन पुनः पुनः पतनम् १२ महाडीनं क्षुद्र-पतनेन प्रत्यावृत्तिः १३ निडीनं भक्ष्यमाश्रयं वापश्यतः पतनम् १४ अतिडीनं दीर्घपतनम् १५अवडीनं अधःपतनम् १६ प्रडीनं अधःपतनेवेगवत्ता १७ अवसंडीनं अधःपतने शोभन-वत्ता १८ डीनडीनकं पतनं निर्व्विशेषणं कुत्-सितञ्च १९ संडीनोड्डीनं शोभनमूर्द्ध्वगमनम् २०संडीनडीनं शोभनगगनमात्रम् २१ पुनर्डीनंतदेव सामान्यगमनम् २२ डीनावडीनकं तदे-वाधः कुत्सितञ्च २३ सम्पातं बहुभिः सहगमनम् २४ समुदीर्णं परस्परस्पर्द्धया गम-नम् २५ ततोऽन्यत् व्यतिरिक्तकं तस्मात् स्पर्द्धा-कृतादेत्यस्नेहकृतं पतनम् २६ । एतेषु षड्-विंशतिसंख्येषु पतनं एकं डीननामकं निर्व्वि-शेषणं पतनमात्रं सविशेषणानि पतनानि पञ्च-विंशतिसंख्यानि तत्र तानि सविशेषानि वक्ष्य-माणचतुर्भिर्विशेषणैर्विशिष्टानि इति शतं निर्व्वि-शेषञ्चैकमिति एकोत्तरं शतम् । तानि चत्वारिविशेषणानि यथा । गतं गमनमात्रम् । आमतंआगमनम् । प्रतिगतं गत्वैव पुनरागमनं आग-त्यैव पुनर्गमनञ्च । इति महाभारते । ८ । ४१ अः ॥
* ॥
आगमशास्त्रविशेषः । यथा, मुण्डमालातन्त्रे ।“डामरं डमरं डीनं श्रुतं कालीविलासकम् ।सप्तकोटिमहाग्रन्था मम वक्त्राद्बिनिर्गताः ॥
”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
