| YouTube Channel

डीङ् (DIG)

 
Shabdartha Kaustubha
Kannada
डीङ् - विहायासा गतौ (दिवा० आत्म० अक० से०) डयते
पदविभागः - > धातुः
कन्नडार्थः - > ಹಾರಾಡು /ಆಕಾಶ ಮಾರ್ಗದಿಂದ ಸಂಚರಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
डी
मूलधातुः:
डीङ्
धात्वर्थः:
विहायसा गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
डयते
धातुः:
डी
मूलधातुः:
डीङ्
धात्वर्थः:
विहायसा गतौ
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
डीयते
अनुबन्धादिविशेषः:
ओदित्
धातुप्रदीपः
Sanskrit
डीङ् विहायसा_गतौ
- डयते डिड्ये डयिता डयिष्यते चिण्वद्भावपक्षे-डायिष्यते डिडयिषते डयितः डयितवान् डयतेः परस्य निष्ठाप्रत्ययस्य सेटः कित्त्वप्रतिषेधो धातुपारायणे उपसंख्यातः ।। 976 ।।
डीङ् विहायसा_गतौ
- डीयते डिड्ये उड्डीनः डयतेः परस्य निष्ठाप्रत्ययस्य कित्त्वप्रितषेध इडागमश्चेष्यत इति डयितो डयितवानिति भ्वादौ व्याहृतम् 29
क्षीरतरङ्गिणी
Sanskrit
डीङ् विहायसा_ गतौ
- डयते इण् निष्ठायाम्-डयितः, कित्त्वं नेष्टम् दिवादौ डीङ् गतौ (425) डीयते, डीनः 939
डीङ् गतौ
- डीयते डीनः भ्वादौ (1693) डयते डयितः डयेतेरेवेह श्यनर्थ ओदित्त्वार्थश्च पाठ इत्येके-डीनः व्याघ्रभूतिस्तु-इवर्णेष्वथशीङ्श्रिञावपि (7210 काशिकायामुद्धृतः) इति डीङः सेट्त्वं विशेषेणाह 27
धातुवृत्तिः
Sanskrit
डीङ् (अर्थः) विहायसा_गतौ
विहायसां गताविति क्वचित्पठ्यते तदाकाशगमनइतिपठद्भ्यांचन्द्रधनपालाभ्यां प्रत्युक्तम् व्योमोरोभ्यां गमने डयते अंहते इति पठन् केशवस्वाम्यत्रैवानुकूलः अयमेव पाठो मैत्रेयादीनामपि ( डयते डिड्ये डिड्यिषे ) "एरनेकाचः'' इति यण् ( डयिता डयिष्यते डयताम् अडयत डयेत डयिषीष्ट अडयिष्ट डिडयिषते डेडीयते डेडेति डाययति अडीडयत् डयित्वा ) "निष्ठा शीङ्'' इत्यत्रनिष्ठेति योगविभागात् डयितमित्यपि भवतीति पारायणे डीङ् शब्दे दैवादिकस्य पूङादयस्त्रय एते उदात्ता आत्मनेपदिनः 949
डीङ् (अर्थः) विहायसा_गतौ
( डीयते डिड्ये, डिड्यिषे ) "एरनेकाच'' इति यण् (डयिता डयिष्यते डीयताम् अडीयत डीयेत, डयिषीष्ट ) लिङौ ( अडयिष्ट डिडयिषते डेड्यते डेडेति डाययति अडीड्यत् डयित्वा, डीनः, डीनवान् ) स्वादिषु पाठसामर्थ्यादनिट्त्म्, निष्ठायाम् इटि हि व्यवधानम् "ओदितश्च'' इति नत्वस्याप्रसङ्गःडयितशब्दस्तु भौवादिकस्य तत्र "निष्ठाशीङ्'' इत्यत्र "निष्ठा'' इति योगविभागाद्कित्वमिति सीरदेवादयः 27
कृदन्तरूपमाला
Sanskrit
1 {@“डीङ् विहायसा गतौ”@} 2 स्वादिः।
“विहायसां गतौ डीङो डयते डीयते पदे।।” 3 इति देवः।
डायकः-यिका, डायकः-यिका, डिडयिषकः-षिका, डेडीयकः-यिका
डयिता-त्री, डाययिता-त्री, डिडयिषिता-त्री, डेडीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकडीङ् 4 धातुवत् बोध्यानि।
अस्य दिवादौ पाठात् डीयमानः इति शानचि श्यन् भवति।
निष्ठायाम्- 5 डीनः, डीनवान्
इति रूपे भवतः।
अस्य स्वादिषु पाठसामर्थ्यात् ‘स्वादय ओदितः’ 6 इति ओदित्त्वातिदेशात् ‘ओदितश्च’ 7 इति निष्ठानत्वं भवति।
अस्य धातोः उदात्तत्वेऽपि स्वादिषु पाठसामर्थ्यात् निष्ठायाम् इडभावो बोध्यः।
यदि इडागमः स्यात् तेन व्यवधानान्नत्वं भवेत्।
ततश्च स्वादिपाठो विफलः स्यात्।
प्रासङ्गिक्यः
01
=>
(६५२)
02
=>
(४-दिवादिः-११३५। अक। सेट्। आत्म।)
03
=>
(श्लो। २०)
04
=>
(६५१)
05
=>
[[आ। ‘किं सूयसे गिरमदून नितान्तदीना- मुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
06
=>
(ग। सू। दिवादिः)
07
=>
(८-२-४५)