| YouTube Channel

डिप (Dipa)

 
शब्दसागरः
English
डिप r. 4th cl. (इर) डिपिर (डिप्यति) r. 6th cl. (डिपति) and r. 10th cl. (डेप-
यति-ते) To throw, to cast, to send or order, to direct प्रेरणे वा चुरा-उभ-
पक्षे तुदा कुटा० पर-सक-सेट् see टिप r. 10th cl. (डेपयति-ते) also (इ) डिपि
r. 1st and 10th cls. (डिम्पति) and (डिम्पय-ति-ते) To collect, to heap
to gether. संहतौ वा चुरा उभ, पक्षे भ्वा-आत्म-अक-सेट्
Wilson
English
डिप r. 4th cl. (इर) डिपिर (डिप्यति) r. 6th cl. (डिपति)
and r. 10th cl. (डेपयति) To throw, to cast, to send or order, to direct:
see टिप. r. 10th cl. (डेपयति-ते) also (इ) डिपि r. 1st and
10th cls. (डिम्पति) and (डिम्पयति-ते) To collect, to heap together.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
डिप्
मूलधातुः:
डिप
धात्वर्थः:
क्षेपे
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
डिप्यति
धातुः:
डिप्
मूलधातुः:
डिप
धात्वर्थः:
क्षेपे
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
डिपति
अनुबन्धादिविशेषः:
कुटादिः
धातुः:
डिप्
मूलधातुः:
डिप
धात्वर्थः:
क्षेपे सङ्घाते
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
डेपयते
अनुबन्धादिविशेषः:
आकुस्मीयः
धातुप्रदीपः
Sanskrit
डिपँ डिप क्षेपे
- डिप्यति अडिपत् डिडेप डेपः डिपतीति तुदादिपाठात् 125
डिपँ डिप क्षेपे
- डिपति डिपिता डेप्यम् डिप्यतीति दिवादिपाठात् 90
डिपँ डिप क्षेपे
- डेपयति 134
शब्दकल्पद्रुमः
Sanskrit
डिप, संहतौ इति कविकल्पद्रुमः
(चुरां-आत्मं-उभं च-सकं-सेट् ।) मूर्द्धन्यवर्ग-तृतीयादिः ङ, डिम्पयते ञ, डिम्प-यति डिम्पयते अयमात्मनेपदीत्यन्ये संहतीराशीकरणम् इति दुर्गादासः
डिप, संहतौ इति कविकल्पद्रुमः
(चुरां-आत्मं-उभं-च सकं-सेट् ।) मूर्द्धन्यवर्ग-तृतीयादिः ङ, डेपयते ञ, डेपयति डेप-यते पुनःपाठान्नेदनुबन्धः अयमात्मनेपदी-त्यन्ये संहती राशीकरणम् इति दुर्गादासः
डिप, शि इर् नुदि इति कविकल्पद्रुमः
(तुदां-चुरां-दिवां च-सकं-सेट् ।) शि, डिपतिअडिपीत् क, डेपयति य, डिप्यति इर्अडिपत् अडेपीत् तुदाद्यन्तर्गणस्यैव कुटादि-त्वमिति दिवादिपक्षे गुणः दिवादिपक्षे पुषा-दित्वान्नित्यं इत्यन्ये नुदि प्रेरणे इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
डिप संहतौ बा चुरा०
उभ०
पक्षे
भ्वा०
आत्म० अक० सेट् ।डेपयति--ते डेपते ऋदित् आडिडेपत्
डिप प्रेरणे वा
चु०
उभ०
पक्षे तुदा०
पर०
सक०
सेट् ।डेपयति--ते अडीडिपत्--त कुटा० डिपति अडिपीत् ।दिवादित्वमपीच्छन्ति डिप्यतिं इरित् अडिपत् अडेपीत्
डिप संहतौ वा चुरा०
उभ०
पक्षे
भ्वा०
आत्म० अक० सेट् इदित् ।डिम्पयति--ते डिम्पते अडिडिम्पत्--त अडिम्पष्ट
क्षीरतरङ्गिणी
Sanskrit
डिपँ डिप क्षेपे
- डिप्यति अडिपत् तुदादौ (676) डिपति चुरादौ डिप स्तिप क्षेपे (10121)-डेपयति 119
डिपँ डिप क्षेपे
- डिपति, डिपिता दिवादौ (4124) डिप्यति, डेपिता चुरादौ (10121) डेपयति 91
धातुवृत्तिः
Sanskrit
डिपँ डिप (अर्थः) क्षेपे
( डिप्यति डिडेप, डिडेपिथ, डिडिपिव डेपिता डेपिष्यति डिप्यतु अडिप्यत् डप्येत् डिप्यात् अडिपत् डिडेषिषति डिडिपिषति डिपित्वा, डेपित्वा अडिपत् डेपयति अडीडिपत्) अयं तुदादौ चुरादौ तु सङ्घाते इह क्वचित् "ष्टू समुच्छ्राये' इति पठ्यते, तदनार्षम् "स्त्यः प्रसारणमुच्च'' इति स्त्यायतेः पप्रत्यये पकारस्य उकारे समप्रसारणे दीर्घे स्तूषशब्दव्युत्पादनत् अत एवात्रेयमैत्रेयादयो पठन्ति 123
डिपँ डिप (अर्थः) क्षेपे
( डिपति डिडेप डिपिता ) इत्यादि डिप्यतीति श्यनि 89
डिपँ डिप (अर्थः) क्षेपे
( डेपयति ) डप डिप संघातइत्याकुस्मीयः क्षेपे डेपयति, डिपयतीति गतौ 137
कृदन्तरूपमाला
Sanskrit
1 {@“डिप क्षेपे”@} 2 ‘सङ्घाते डेपयेतेति, क्षेपे डिपति डिप्यति।’ 3 इति देवः।
4 डेपकः-पिका, डेपकः-पिका, डिडेपिषकः-डिडिपिषकः-षिका, डेडिपकः-पिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिककुप्यतिवत् 5 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६४७)
02
=>
(४-दिवादिः-१२३२। सक। सेट्। पर।)
03
=>
(श्लो० १३४)
04
=>
[[C। ‘रुष्यद्रिष्यदरातिडेपक विभो कोपादिगोपो ते किञ्चायोप्यविरोपिलोपक वा लोभादिसंक्षोभिता।’ धा। का। २। ६७।]]
05
=>
(२२४)
1 {@“डिप क्षेपे”@} 2 डेपकः-पिका, डेपकः-पिका, डिडिपिषकः-षिका, डेडिपकः-पिका
3 डिपन्-न्ती-ती, डिपित्वा, इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुटतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६४८)
02
=>
(६-तुदादिः-१३७१। सक। सेट्। पर। कुटादिः।)
03
=>
[[ड्। ‘ततोऽतिकुटिलाशयैः प्रपुटितैः कुचज्जीवितै- र्गुजद्भिरपि सैनिकैः सुगुडितां डिपद्भिर्जनान्।’ धा। का। २-८०।]]
04
=>
(२०४)
1 {@“डिप क्षेपे”@} 2 ‘डेपयेदिति चत्वारि णिचि शे श्यनि णौ डिपेः।।’ 3 इति देवः।
डेपकः-पिका, डिडेपयिषकः-षिका
डेपयिता-त्री, डिडेपयिषिता-त्री
डेपयन्-न्ती, डिडेपयिषन्-न्ती
डेपयिष्यन्-न्ती-ती, डिडेपयिषिष्यन्-न्ती-ती
डेपयमानः, डिडेपयिषमाणः
डेपयिष्यमाणः, डिडेपयिषिष्यमाणः
डेप्- डेपौ-डेपः
डेपितम्-तः, डिडेपयिषितः-तवान्
डेपः, 4 प्रतिमल्लडेपी, 5 6 डिडेपयिषुः
डेपयितव्यम्, डिडेपयिषितव्यम्
डेपनीयम्, डिडेपयिषणीयम्
डेप्यम्, डिडेपयिष्यम्
ईषड्डेपः-दुर्डेपः-सुडेपः
डेप्यमानः, डिडेपयिष्यमाणः
डेपः, डिडेपयिषः
डेपयितुम्, डिडेपयिषितुम्
डेपना, डिडेपयिषा
डेपनम्, डिडेपयिषणम्
डेपयित्वा, डिडेपयिषित्वा
प्रडेप्य, प्रडिडेपयिष्य
डेपम् २, डेपयित्वा २, डिडेपयिषम्
डिडेपयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(६४९)
02
=>
(१०-चुरादिः-१६७२। सक। सेट्। उभ।)
03
=>
(श्लो। १३४)
04
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
05
=>
[[E। ‘इत्थं वदत्यसुरजासिनि पिण्डितायः- स्थेमाऽथ रोषितमतिः प्रतिमल्लडेपी।’ धा। का। ३-३२।]]
06
=>
[पृष्ठम्०६०६+ २७]
1 {@“डिप सङ्घाते”@} 2 आकुस्मीयः।
3 “डबि डिबि’ इति चन्द्रः।
विडम्बयति।
आडम्बरः।
डिम्बयति।
डिम्बम् = शस्त्रकलहः।” इति क्षीरस्वामी।
प्रदर्शितप्रयोगानुसारेण डबि- डिबिधात्वोरपि पाठः समीचीन इति प्रतिभाति।]] ‘सङ्घाते डेपयेतेति, क्षेपे डिपति डिप्यति।
डेपयेदिति चत्वारि णिचि शे श्यनि णौ डिपेः।।’ 4 इति देवः।
डेपकः-पिका, डिडेपयिषकः-षिका, डेपयमानः, डेपितः, 5 इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकडेपयतिवत् 6 ज्ञेयानि।
अस्य धातोरा- कुस्मीयत्वात् ‘आकुस्मादात्मनेपदिनः’ 7 इति आत्मनेपद- मेव।
तेन शत्रादेशषटितानि रूपाण्यस्य धातोर्नेति तस्मादस्य विशेषः।
प्रासङ्गिक्यः
01
=>
(६५०)
02
=>
(१०-चुरादिः-१६७८। अक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(श्लो। १३४)
05
=>
[[आ। ‘संडापितः सदसि डेपितवृष्णिवीरे भोजेन्द्रतन्त्रणविनिन्द्यममन्त्रतैवम्।।’ धा। का। ३-३३।]]
06
=>
(६४९)
07
=>
(ग। सू। चुरादौ)