| YouTube Channel

डयिता-त्री (DayitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“डीङ्विहायसा गतौ”@} 2 3 ‘विहायसां गतौ’ इति देवसम्मतं पाठमनूद्य, ‘विहायसां = विहगानाम्’ इति पुरुषकारे व्याख्यातम्।
‘आकाशगतौ’ इति, ‘विहायसि गतौ’ इति केचिदर्थं वर्णयन्ति।]] ‘विहायसां गतौ डीङो डयते डीयते पदे।।’ 4 इति देवः।
5 डायकः-यिका, डायकः-यिका, 6 डिडयिषकः-षिका, डेडीयकः-यिका
डयिता-त्री, डाययिता-त्री, डिडयिषिता-त्री, डेडीयिता-त्री
-- डाययन्-न्ती, डाययिष्यन्-न्ती-ती
-- -- 7 डयमानः, डाययमानः, डिडयिषमाणः, डेडीयमानः
डयिष्यमाणः, डाययिष्यमाणः, डिडयिषिष्यमाणः, डेडीयिष्यमाणः
उड्डीः- 8 उड्ड्यौ-उड्ड्यः
-- -- 9 डयितः-डियितः-तम्, डायितः, डिडयिषितः, डेडीयितः-तवान्
डयः, डायः, डिडयिषुः, 10 डेड्यः
डयितव्यम्, डाययितव्यम्, डिडयिषितव्यम्, डेडीयितव्यम्
डयनीयम्, डायनीयम्, डिडयिषणीयम्, डेडीयनीयम्
डेयम्, डाय्यम्, डिडयिष्यम्, डेडीय्यम्
ईषड्डयः-दुर्डयः-सुडयः
-- -- -- डीयमानः, डाय्यमानः, डिडयिष्यमाणः, डेडीय्यमानः
11 डयः, डायः, डिडयिषः, डेडीयः
डयितुम्, डाययितुम्, डिडयिषितुम्, डेडीयितुम्
12 डीतिः 13 सुडीतिः, डायना, डिडयिषा, डेडीया
डयनम्, डायनम्, डिडयिषणम्, डेडीयनम्
डयित्वा, डाययित्वा, डिडयिषित्वा, डेडीयित्वा
उड्डीय, उड्डाय्य, उड्डिडयिष्य, उड्डेडीय्य
डायम् २, डयित्वा २, डायम् २, डाययित्वा २, डिडयिषम् २, डिडयिषित्वा २, डेडीयम्
डेडीयित्वा २। 14
प्रासङ्गिक्यः
01
=>
(६५१)
02
=>
(१-भ्वादिः-९६८-अक। सेट्। आत्म।)
03
=>
[[[आ]
04
=>
(श्लो। २०)
05
=>
[[१। ‘अचो ञ्णिति’ (७-२-११५) इति वृद्धौ, आयादेशः।]]
06
=>
[[२। अस्य धातोरुदात्तत्वात् सन इडागमो भवति। उत्तरखण्डे गुणायादेशौ। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[पृष्ठम्०६०७+ २४]
08
=>
[[१। क्विपि, द्विवचने, ‘एरनेकाचः--’ (६-४-८२) इति यणादेशः।]]
09
=>
[[२। ‘निष्ठा शीङ्--’ (१-२-१९) इत्यत्र ‘निष्ठा’ इति योगविभागमभ्युपगम्य, अन्यत्रापि क्वचित् सेटो निष्ठायाः कित्त्वनिषेधात् गुणायादेशयोः सतोः डयितः- डयितवान् इति रूपं पारायणिकाः साधयन्ति। योगविभागानभ्युपगमे, ‘अचि श्नुधातु--’ (६-४-७७) इतीयाङादेशे डियितः-डियितवान् इति रूपमिति केचिद्वर्णयन्ति।]]
10
=>
[[३। यङन्तात् पचाद्यचि, यङो लुकि, ‘एरनेकाचः--’ (६-४-८२) इति यणादेशः।]]
11
=>
[[४। ‘एरच्’ (३-३-५६) इति भावे घञपवादोऽच्प्रत्ययः।]]
12
=>
[[५। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधः।]]
13
=>
[[आ। ‘पूताखिलं मूतबलिं सुडीतौ तार्क्ष्ये स्थितं प्राप्य तरामि मायाम्।।’ धा। का। २। ३७।]]
14
=>
[पृष्ठम्०६०८+ २८]
1 {@“डीङ् विहायसा गतौ”@} 2 स्वादिः।
“विहायसां गतौ डीङो डयते डीयते पदे।।” 3 इति देवः।
डायकः-यिका, डायकः-यिका, डिडयिषकः-षिका, डेडीयकः-यिका
डयिता-त्री, डाययिता-त्री, डिडयिषिता-त्री, डेडीयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकडीङ् 4 धातुवत् बोध्यानि।
अस्य दिवादौ पाठात् डीयमानः इति शानचि श्यन् भवति।
निष्ठायाम्- 5 डीनः, डीनवान्
इति रूपे भवतः।
अस्य स्वादिषु पाठसामर्थ्यात् ‘स्वादय ओदितः’ 6 इति ओदित्त्वातिदेशात् ‘ओदितश्च’ 7 इति निष्ठानत्वं भवति।
अस्य धातोः उदात्तत्वेऽपि स्वादिषु पाठसामर्थ्यात् निष्ठायाम् इडभावो बोध्यः।
यदि इडागमः स्यात् तेन व्यवधानान्नत्वं भवेत्।
ततश्च स्वादिपाठो विफलः स्यात्।
प्रासङ्गिक्यः
01
=>
(६५२)
02
=>
(४-दिवादिः-११३५। अक। सेट्। आत्म।)
03
=>
(श्लो। २०)
04
=>
(६५१)
05
=>
[[आ। ‘किं सूयसे गिरमदून नितान्तदीना- मुड्डीनकाकसम भूपतिधीनमेतत्।’ धा। का। २। ५८।]]
06
=>
(ग। सू। दिवादिः)
07
=>
(८-२-४५)