| YouTube Channel

टुवेपृ (TuvepR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
वेप्
मूलधातुः:
टुवेपृ
धात्वर्थः:
कम्पने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
वेपते
धातुप्रदीपः
Sanskrit
टुवेपृँ टुवेपृ कम्पने
- वेपते विवेपे वेपथुः भाभू (8/4/34) इत्यादिना णत्वप्रतिषेधः। प्रवेपनम् (55) ।। 370 ।।
क्षीरतरङ्गिणी
Sanskrit
टुवेपृँ टुवेपृ कम्पने
- वेपते, वेपिता, अविवेपत् अथुच्-(द्र0 आ0 3389) वेपथुः भाभूपूकमिगमि (8434) इति कृत्यचो णत्वं नास्ति-प्रवेपनम् वेपितुह्योह्रस्वश्च (उ0 252) विपिनम् 359
धातुवृत्तिः
Sanskrit
टुवेपृँ टुवेपृ (अर्थः) कम्पने
( वेपते वेपथुः ) "ट्वितो ऽथुच्'' इत्यथुच् विपिनम् "वेपितुह्योर्ह्रस्वश्च''इतीनचि ह्रस्वः 364