| YouTube Channel

टुवम (Tuvama)

 
धातुप्रदीपः
Sanskrit
टुवमँ टुवम उद्गिरणे
- वमति ववाम ववमतुः ववमुः वमथुः वान्तम् (87) वामः वमः मवित्वा ।। 852 ।।
क्षीरतरङ्गिणी
Sanskrit
टुवमँ टुवम उद्गिरणे
- (अर्थविवरणम्) उद्गिरणं भुक्तस्योर्ध्वगतिः
वमति वामः, वमः वमथुः वमितः उदित्येके - वान्त्वा वमित्वा अघृणः खलु वान्ताशी शसदद (64126) इति ववमुः ग्लास्नावनुवमाञ्च (1556) इति वा मित्त्वम् वामयति, वमयति जिदृक्षि (32157) इतीनिः वामि नोदात्तोपदेशस्य (7334) इति निषेधे प्राप्ते वमिकमिचमीनाम् (7234) इति वृद्धिः, ण्वुल्-वामकः वामयतेर्ल्युट्-योग-वामनम् वमतीत्यवमः घञि-वामःअस्त्यर्थे (द्र0 52100) वामनः वामी अश्वा 819
धातुवृत्तिः
Sanskrit
टुवमँ टुवम (अर्थः) उद्गिरणे
(अर्थविवरणम्) उद्गिरणमन्तर्गतस्य मुखान्निसारणम्
अत्र सुधाकर उद्गिरण इति पठन्निपानात् तत्र इद्धातोरित्याह (वमति ववाम ववमतुः) वादित्वान्नेत्वाभ्यासलोपौ भागवृत्तौ त्वनयोर्विकल्पेन वेमतुरित्युदाहृतं, तद्भाष्यादिषु चिरन्तनेषु कुत्रापि दृष्टन् ( वमिता अवमीत् ) "ह्म्यन्त'' इति वृद्धिः ( विवमिषति वंवम्यते वंवन्ति वंवान्तः ) हेरपित्त्वात् ङित्त्वात् "अनुनासिकस्य'' इति दीर्घेऽनुस्वारे ( वंवांहि अवंवन् वमयति वामयति ) "ग्लास्त्रावनुवमामनुपसर्गाद्वा'' इति मित्वनिषेधः ( वामः ) "नोदात्तोपदेशस्य'' इति वृद्धिनिषेधस्य [ आचकिममिवमीनाम ] इति निषेधः (वान्तः वान्तवान् ) "आदितश्च'' इति चकारस्यानुक्तसमुच्चयार्थतया निष्ठायामनिट्त्वमिति वृतौ भाष्यवार्त्तिकयोरनुक्तमपीदं प्रयोगबाहुल्यादुक्तमिति हरदत्तः, तदेवं काशयादीनामुदित्पाठः प्रत्युक्तः ( वमथुः ) टित्त्वादथुच् 834