| YouTube Channel

टुयाचृ (TuyAcR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
याच्
मूलधातुः:
टुयाचृ
धात्वर्थः:
याच्ञायाम्
गणः:
भ्वादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
याचति-याचते
धातुप्रदीपः
Sanskrit
टुयाचृँ टुयाचृ याच्ञायाम्
- याचति याचते अययाचत् याचथुः याच्ञा डुयाचृ इत्यप्येके याचित्रिमम् ।। 866 ।।
धातुवृत्तिः
Sanskrit
टुयाचृँ टुयाचृ (अर्थः) याच्ञायाम्
( यावति ययाच याचिता चायते ययाचे यियाचिषते यायाच्यते यायाक्ति याचयते अययाचत् ) "नाग्लोपि'' इति ह्रस्वनिषेधः याचत इति (अयाची) ग्रहादिषु याचृव्यवहृप्रजवदसां प्रतिषिद्धानामिति पाठादिनिः प्रतिषि द्धानां नञ्पूर्वाणामित्यर्थः ( याचथुः ) "टिवतोऽथुच्'' के चित् ड्वितं पठन्ति तदपि प्रमाणं तेन याचित्रमित्यापि भवति याचितेन निर्वृत्तं (याचितकम्) "अपमित्ययाचिताभ्यां कक्कनौ'' इति तृतीयान्तात् निर्वृत्तमित्यर्थे यिथासंख्यात् कन्, अपमित्यशब्दस्य अव्ययत्वात् तृतीयास्तीति (याञ्चा) "यजयाच'' इतृयादिना नङ्, श्चुत्वम् ( याच्यम् ) "यजयाचरुचप्रवचर्चश्च'' इति ण्यति कुतृवनिषेधः निष्ठायामनिट्त्वे कुत्ववचनमितिवार्त्तिकमते कुत्वस्य नैव प्रसङ्गः 848