| YouTube Channel

टुमस्जो (Tumasjo)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मस्ज्
मूलधातुः:
टुमस्जो
धात्वर्थः:
शुद्धौ
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
मज्जति
अनुबन्धादिविशेषः:
ओदित्, ट्वित्
धातुप्रदीपः
Sanskrit
टुमस्जोँ टुमस्जो शुद्धौ
- मज्जति ममज्ज मङ्क्ता मङ्क्ष्यति अमाङ्क्षीत् आमाङ्क्ताम् मिमङ्क्षति मामज्ज्यते मग्नः मज्जनम् साधुमक् मज्जथुः मङ्क्त्वा मक्त्वा मद्गुः मद्गुरः 141
क्षीरतरङ्गिणी
Sanskrit
टुमस्जोँ टुमस्जो शुद्धौ
- (अर्थविवरणम्) शुद्ध्या स्नानं व्रुडनं लक्ष्यते
मज्जति मस्जिनशोर्झलि (7160) इति नुम्-मङ्क्ता जान्तनशां विभाषा (6432) क्त्वायां नुम्-मङ्क्त्वा मक्त्वा ओदितश्च (8245) इति नत्वम्-मग्नः मज्जथुः (द्र0 3389) गुरोश्च हलः (33103)-मज्जा मज्जनम् श्वनुक्षन् (उ0 1159) इति मज्जाऽस्थिसारः भृमृशीतॄ (तु0 17) इत्युः-मद्गुः, न्यङ्क्वादित्वात् (गण0 7353) कुत्वम् मस्जेर्नम् (उ0 1477) इत्युषन्-मञ्जूषा पेटा 134
धातुवृत्तिः
Sanskrit
टुमस्जोँ टुमस्जो (अर्थः) शुद्धौ
( मज्जति ) "झलां जश्'' इति सकारस्य दकारः, तस्य चुत्वं जकारः, ( ममज्ज ममज्जतुः ममज्जिथ ममङ्क्थ ममज्जिव ) क्रादिनियमादिट् थलि "उपदेशेऽत्वत'' इति निषेधाद्भारद्वाजनियमाच्च विकल्पः अनिट्पक्षे "मस्जिनशोर्झलि'' इति नुम् "मस्जेरन्त्यात्पूर्वं नुममिच्छन्त्यनुषङ्गसंयोगादिलोपार्थम्' इत्यन्त्यात्पूर्वइति"स्कोः संयोगाद्योः'' इति सलोपः जकारस्य "चोः कुः'' इति कुत्वे "खरि च'' इति चर्त्वम् नकारस्य "नश्चापदान्तस्य'' इत्यनुस्वारे परसवर्णः ( मङ्क्ता मङ्क्षयति मज्जतु अमज्जत् मज्जेत् मज्ज्यात् लिङौ अमाङ्क्षीत् अमाङ्क्ताम् अमाङ्क्षुः ) "वदव्रज'' इति वृद्धिः झलि सिचो लोपः ( मिमङ्क्षति मामज्ज्यते मामङ्क्ति मज्जयति अममज्जत् मज्जथुः ) "ट्वितोऽथुच्'' ( मङ्क्त्वा मक्त्वा ) "जान्तनशां विभाषा'' इति क्त्वायां वाऽनुनासिकलोपः ( मग्नः मग्नवान् ) "अनिदिताम्'' इति नस्य लोपः, सलोपकुत्वे "ओदितश्च'' इति नत्वं, ( मद्ग्यः, मद्गः, ) ण्यति घञि "चजोः कुघिण्ण्यतोः'' इति कुत्वे "झलां जश् झशि'' इति सकारस्य दकारः ( मद्गुः ) "भृमृशि'' इत्यादिनोप्रत्ययः न्यङ्क्वादित्वात्वात्कुत्वं, पूर्ववत्सकारस्य दकारः ( मुद्गरः ) बाहुलकादुरच् कुत्वञ्च ( मज्जा मज्जानौ ) "श्वन्नुक्षन्'' इति कनिनन्तो निपात्यते 131