| YouTube Channel

टुभ्राजृ (TubhrAjR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भ्राज्
मूलधातुः:
टुभ्राजृ
धात्वर्थः:
दीप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
भ्राजते
अनुबन्धादिविशेषः:
ऋकारान्तः ट्वित्, फणादिः
धातुप्रदीपः
Sanskrit
टुभ्राजृँ टुभ्राजृ
मानकरूपान्तरम् - टुभ्राशृँ
टुभ्राशृ
मानकरूपान्तरम् - टुभ्लाशृँ
टुभ्लाशृ दीप्तौ
- त्रयोऽपि ट्वितः भ्राजते भ्रेजे बभ्राजे अबभ्राजत् अबिभ्रजत् भ्राजथुः आत्मनेपदार्थमकारानुबन्धे कर्तव्ये ऋकारानुबन्धकरणमृदित्प्रकरणानुरोधात् भ्राशते भ्राश्यते भ्रेशे बभ्राशे अबभ्राशत् भ्राशथुः भ्लाशते भ्लाश्यते भ्लाश्यते बभ्लाशे भ्लेशे अबभ्लाशत् भ्लाशथुः ।। 825-827 ।।
क्षीरतरङ्गिणी
Sanskrit
टुभ्राजृँ टुभ्राजृ
मानकरूपान्तरम् - टुभ्राशृँ
टुभ्राश्रृ
मानकरूपान्तरम् - टुभ्लाशृँ
टुभ्लाश्रृ दीप्तौ
, उदात्ता अनुदात्तेतः -भ्राजते, बभ्राजे, भ्रेजे टुरुभस्येत्येके ट्वितोऽथुच् (3389) भ्राजथुः भ्राजिभ्राश्योऋदित्त्वं नेच्छन्ति पक्षे ह्रस्वस्येष्टत्वम् अबभ्राजत् अबिभ्रजत् नप्तृनेष्टृ (उ0 295) इति-भ्राता (?) वा भ्राशभ्लाश (3170) इति श्यन् भ्राशते भ्राश्यते, भ्लाशते भ्लाश्यते भ्राशथुः, भ्लाशथुः 792-794
धातुवृत्तिः
Sanskrit
टुभ्राजृँ टुभ्राजृ
मानकरूपान्तरम् - टुभ्राशृँ
टुभ्राशृ
मानकरूपान्तरम् - टुभ्लाशृँ
टुभ्लाशृ (अर्थः) दीप्तौ
उदाता अनुदात्तेतः अत्र स्वामी आद्यावधिकृत्य दुरुभयसङ्गीत्येके इत्याह त्रयोपि ट्वित इति मैत्रेयः वृत्तिकारोप्यत्रैवानूकूः यदाह "वाभ्राश'' इत्यत्र टुभ्राशृ टुभ्लाशृ इति तथा "फणां सप्तानाम्'' इत्यत्र नासपदमञ्जर्योः त्रयोपि ट्वितः पठ्यन्ते तस्मादयमेव पाठो बहूनां संमतः भ्राजतेः पठितस्यापीह पाठः फणादित्वेन किति लिट्येत्वाभ्यासलोपविकल्पार्थः, ट्वित्त्वं तु फलं भवति तत्रापि टुशब्दस्यासङ्क्तुं शक्यत्वात् अनेनैव सिद्धे तस्य पाठो व्रश्चादिषनिवृत्त्यर्थ इति इति तत्रैवोक्तं, ( भ्राजते बभ्राजे भ्रेजे भ्राजितेत्यादि बाभ्राष्टि अबाभ्रट् ) इत्यादौ व्रश्चादिषत्वम् ( भ्राजथुः) "टितो ऽथुच्'' भ्राजयतइति ( नभ्राट् )"नभ्राण्नपात्'' इति नञः प्रकृतिभावः चङ्परे णौ " भ्राजव'' इत्यादिना उपधाह्रस्वविकल्पनात् (अबिभ्रजत् अबभ्राजत् ) अस्यापि ऋदित्त्वं पूर्ववत् अनुदात्तेत्त्वमात्रुलम् ( भ्राष्ट्रम् ) ष्ट्रन् भ्राष्ट्रमिन्ध इति (भ्राष्ट्रमिन्धः)कर्मण्यम् "भ्राष्ट्राग्न्योरिन्धे'' इति मुम् ( भ्रशते बभ्राशे भ्रेषे भ्राशिता भ्राशिष्यते भ्राशतम् अभ्राशत भ्राशेत अशषि भ्राशिषीष्ट अभ्राशिष्ट ) सार्वधातुके "वा भ्राश'' इत्यादिना पक्षे शपोपवादे श्यनि ( भ्राश्यते भ्राश्यताम् अभ्राश्यत भ्राश्येयेति भवति बिभ्राशिषते बाभ्राष्टि भ्राशयति अअबभ्राशत् ) ऋदित्त्वान्नोपधाह्रस्वः ( भ्लाशति ) सर्वं भ्राशतिवत् ( भ्राशथुः भ्लाशथुः ) द्वित्त्वात् थुच् 810