| YouTube Channel

टुनदि (Tunadi)

 
Shabdartha Kaustubha
Kannada
टुनदि - समृद्धौ (भ्वा० पर० अक० से०) नन्दति
पदविभागः - > धातुः
कन्नडार्थः - > ಸಂತೋಷಪಡು /ಹರ್ಷಹೊಂದು
प्रयोगाः - > "ननन्द स्वभटान् दृष्ट्वा नखरश्रितमौक्तिकान्"
उल्लेखाः - > याद० २२-१५६
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नन्द्
मूलधातुः:
टुनदि
धात्वर्थः:
समृद्धौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नन्दति
धातुप्रदीपः
Sanskrit
टुनदिँ टुनदि समृद्धौ
- नन्दति प्रनन्दति नन्दकः नन्दनम् नन्दथुः नन्दयतीति नन्दनः पचाद्यच् नन्दः स्त्रियां नन्दा घञ् आनन्दः। आवश्यके णिनिः नन्दी (24)।। 65 ।।
क्षीरतरङ्गिणी
Sanskrit
टुनदिँ टुनदि समृद्धौ
नन्दति ण्यन्ताल्ल्युः (द्र031134) नन्दनः शुद्धादच् - नन्दः प्रज्ञादौ (द्र05438) नान्दः नान्दी इनि - नन्दी ण्वुल् (द्र031133) नन्दकः ट्वितोऽथुच् (3389) नन्दथुः नञि नन्देः (उ0398) ऋन् - ननान्दा भर्तृभगिनी, ननान्दरौ रुहिनन्दिजीवि (उ03127) इति झच् - नन्दयन्तः अयामन्ताल्वाय्य (6455) इत्यय्, णेरित्नुच् (द्र0उ0329) नन्दयित्नुः नन्दा तिथिः 64
धातुवृत्तिः
Sanskrit
टुनदिँ टुनदि (अर्थः) समृद्धौ
( सूत्रम्) आदिर्ञिटुडव (इति सूत्रम्) इति त्रय एते धात्वादयः समुदाया इतः प्रयोजनं नन्दथुरित्यत्र "द्वितोऽथुच्'' इति भावादावथुच् ( नन्दति ननन्द नन्दितेत्यादि भावे नन्द्यत इत्यादि निनन्दिषति नानन्द्यते नानन्दीति नानन्ति नन्दयति अननन्दत् नन्दयतीति नन्दनः ) "नन्दिग्रहि'' इति ल्यु अयं तनर्गींयोपदेशः, नृतिनन्दीति णोपदेशलक्षणपर्युदासात् ( नन्दतीति ननान्दा ननान्दरौ ) "नञि नन्देः'' इति ऋन्प्रत्ययो वृद्धिश्च, "न षट्स्वस्रादिभ्यः'' इति "ऋन्नेभ्यः'' इति ङीपो निषेधः ( सूत्रम्) ष्णान्ता षट् (इति सूत्रम्) इति षकारनकारान्ता सङ्खया षडित्युच्यते स्वस्रादिपाठादेव नञो नलोपाभावः ननान्दुरपत्यं नानान्द्रः ( सूत्रम्) अनृष्यानन्तर्ये बिदादिभ्योऽञ् (इति सूत्रम्) अनृषीत्यविभक्तिंकं भिन्नं पदं, तेन बिदादिभ्योगोत्रापत्येऽङ् अनृषिभ्यस्त्वनन्तरापत्ये इति सूत्रार्थः 67