| YouTube Channel

टुओँस्फूर्जा (Tuo~sphUrjA)

 
धातुप्रदीपः
Sanskrit
टुओँस्फूर्जाँ टुओस्फूर्जा वज्रनिर्घोषे
- स्फूर्जति स्फूर्जथुः स्फूर्ग्णः स्फूर्ग्णमनेन (44) स्फूर्जितमनेन दीर्घोकारस्योपदेश उपधायाञ्च (8/2/78) इत्यस्यानित्यज्ञापनार्थ इति तेन मुर्च्छति हुर्च्छति स्फुर्च्छतीत्यपि भवतीति केचत् ।। 232 ।।
क्षीरतरङ्गिणी
Sanskrit
टुओँस्फूर्जाँ टुओस्फूर्जा वज्रनिष्पेषे
- (अर्थविवरणम्) वज्रनिष्पेषोऽशनिनिर्घोषः
स्फूर्जति स्फूर्जः दीर्घोच्चारणं दीर्घस्यानित्यत्वार्थम् ओदितश्च (8245) इति निष्ठानत्वम्-स्फूण्णः, चोःकु (8230) आदितश्च (7216) इति नेट् विभाषा भावादिकर्मणोः (7217) स्फूर्जितमनेन स्फूर्ण्णम् प्रस्फूर्जितः प्रस्फूर्ण्णः ट्वितोऽथुच् (3289) स्फूर्जथुः 230
धातुवृत्तिः
Sanskrit
टुओँस्फूर्जाँ टुओस्फूर्जा (अर्थः) वज्रनिर्घोषे
टुशब्दस्य "आदिर्ञिटुडवः'' इतीत्वे लोपः "ट्वितो ऽथुच्'' इत्यथुचि (स्फूर्जथुरिति) ओकार "ओदितश्च'' इति निष्ठानत्वार्थः ( स्फूर्णवान् ) "आदित'' इत्यनिट्त्वम् ननु निष्ठानत्वार्थादोदित्करणसामर्थ्यादेवानिट्त्वं सिद्धम् एवं तर्हि "विभाषा भावादिकर्म्मणोः'' इति इड्विकल्पार्थमादित्वम् ( स्फूर्णमनेन स्फूर्जितमनेनेत्यादि स्फूर्जति पुस्फूर्ज स्फूर्ज्जिता पुस्फूर्जिषति पोस्फूर्ज्यते पोस्फूर्क्ति अपोस्फूर्क् स्फूर्जयति अपुस्फूर्जत् )अस्य दीर्घोपदेशेन "उपधायां '' इति दीर्घस्यानित्यत्वज्ञापनात् ( मुर्छति हुर्छति स्फुर्छति इत्यपि भवतीति केचिदिति मैत्रेयप्रतिपादिते 232