टुओँश्वि (Tuo~zvi)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुप्रदीपः
Sanskritटुओश्वि गति, वृद्ध्योः
- श्वयति । शिश्वाया । शुशाव । शिश्वियतुः । शुशुवतुः । श्वयिता । शूयात् । अश्वत् । अशिश्वियत् । अश्वयीत् । शेश्वीयते । शोशूयते । शुशावयिषति। शिश्वाययिषति । अशूशवत् । अशिश्वियत् । श्वयथुः । शूनः । शूनवान् ।। 1018 ।।
क्षीरतरङ्गिणी
Sanskritटुओश्वि गति, वृद्ध्योः
, सेट्- श्वयति श्वयिता श्वयथुः ओदित्त्वात् (द्र0 8245) निष्ठानत्वम्, श्वीदितो निष्ठायाम् (7214) नेट्-शूनः यजादित्वात् (द्र0 6115) शूयते विभाषा श्वेः (6130) लिङ् यङोः सम्प्रसारणम्-शिश्वाय, शुशाव, शिश्वियुः, शुशुवुः, शेश्वीयते, शोशूयते णौ च संश्चङोः (6131) शुशावयिषति, शिश्वाययिषति, अशूशुवत् अशिश्वयत् विभाषा धेट्श्व्योः (3149) चङ्-अशिश्वियत् अश्वयीत्-ह्म्यन्तक्षण (725) इति वृद्धिर्नास्ति जॄस्तन्भु (तु0 3158) इत्यङ्, श्वयतेरः (7418) अश्वत् श्वनुक्षन् (उ0 1149) इति श्वा, मातरिश्वा 980
धातुवृत्तिः
Sanskritटुओश्वि (अर्थः) गति, वृद्ध्योः
अयं वदतिश्च परस्मैभाषावुदात्तेतौ ( श्वयति शुशाव शुशुवतुः शुशुवुः शुशविथ शुशुवथुः शुशुव शुशाव शुशुविव शुशुविम ) "विभाषा श्वेः'' इति लिड्यङोः संप्रसारणविकल्पः अत्र "संप्रसारणं संप्रसारणाश्रयकार्यं च बलीय' इति "लिड्यङोश्च'' इति विषयसप्तमीत्वाद्वा संप्रसारणमुभयेषांग्रहणाद् हलादिशेषं बाधित्वाऽत्र भवति किति "वचिस्वपि'' इत्यादिना संप्रसारणे पररूपत्वे द्विर्वयने ( शुशुवतुः, शुशुवुः ) पिद्वचनेषु गुणवृद्धिभ्यामन्यत्र यणश्च पूर्वं संप्रसारणेऽन्तरङ्गत्वात् पररूपत्वे च यथायोगं वृद्धिगुणयोराववादेशौ कित्सु तूवङादेशः "द्विर्वचनेऽचि''इति स्थानिवत्त्वाच्छुशब्दस्य द्विवंचनं, प्रसारणाभावे ( शिश्वाय शिश्वियतुः शिश्वियुः शिश्वयिथ शिश्वियथुः शिश्वाय शिश्वय शिश्वयिव शिश्वयिम ) यथायोगं वृद्धिगुणयोराययौ कितीयङ् पूर्ववत्, स्थानिवत्त्वाच्छ्विशब्दस्य द्विर्वचनं, पिति "लिट्यभ्यासस्योभयेषाम्'' इत्यभ्यासस्य संप्रसारणं, [ श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः ] इति निषेधान्न भवति ( श्वयिता श्वयिष्यति श्वयतु अश्वयत् श्वयेत् आशिषि शूयात् ) कित्त्वात् "वचिस्वपि'' इत्यादिना प्रसारणे "हलः'' इति दीर्घः (अश्वत् ) "जॄस्तम्भु'' इत्यङ्, वा तत्र परे "श्वयतेरः'' इतीकारस्याकारे अतो लोपः पररूपं च अङोऽभावे "विभाषा धेट्श्व्योः'' इति पक्षे चङि द्विर्वचने इयङि ( अशिश्वियत्, अशिश्वियताम्, अशिश्वियन् अशिश्वियः अशिश्वियम् अशिश्विय अशिश्वियाव ) चङ्ङोरभावे सिचि ( अश्वयीत् अश्वयिष्टामित्यादि ) "ह्म्यन्तक्षण'' इति, वृद्धिनिषेधः ( शिश्वियिषति शेश्वीयते शाशूयते ) "लिड्यङोः'' इति वा संप्रसारणं, ( शेश्वयाति शेश्वेति शेश्वितः शेश्वियति ) लुङि प्रकृतिग्रहणादङ्चङौ अशिश्वियदित्यादि अङि "श्वयतेरः'' इत्यत्वं श्तिपा निर्देशान्न भवति इति तदेव रूपम् यङ्लुकि "लिड्यङोः'' इति संप्रसारणं लुका विषयत्वापहारान्न भवति, सिच्पक्षे ( अशिश्वायीत् श्वापयति अशिश्वपत् अशूशवत् शिश्वापयिषति शुशावयिषति ) अत्र "विभाषा श्वेः'' "णौ च संश्चङोः'' इति सन्परे चङ्परे णौ भाविनिपक्षे संप्रसारणे अन्तरङ्गत्वात्परपूर्वत्वे वृद्व्यावौ तयोः स्थानिवत्त्वात् शुशब्दस्य श्विशब्दस्य वा द्विर्वचनम् (श्वयथुः) "ट्वितोऽथुच्'' ( शूनवान् शूनः ) "श्वीदितो निष्ठायाम्'' इत्यानिट्त्वम् अत्र पदमञ्जर्यादौ "ओदितश्च'' इति ओदितोनन्तरस्य निष्ठातकारस्य नत्वविधानादेवेडभावस्य सिद्धे श्वयतिग्रहणं शक्यमकर्त्तुम् इति उदकेन श्वयतीति उदश्वित् "क्विप् च'' इति क्विप् उदिश्वत इति निर्देशात् प्रसारणाभावः "उदकस्योदः संज्ञायाम्'' इति उदकस्योदभावः उदश्विति संस्कृतमौदश्वित्कम् "उदश्वितोऽन्यतरस्याम्'' इति सप्तम्यन्तात् संस्कृतमित्यर्थे ठक् ठस्य "इसुसुक्तान्तात्कः'' इति कादेशः ठगभावे प्राग्दीव्यतीयेऽणि औदश्वितम् (श्वा) "श्वन्नुक्षन्''इति निपात्यते शुनः पश्चेत्यादौ "श्वयुवमघोनामतद्धिते" इति तद्धितवर्जिते भसंज्ञानिमित्ते प्रत्यये प्रसारणे परपूर्वत्वम् अतद्धित इति वचनात् "प्राणिरजतादिभ्योऽञ्'' इति विकारावयवयोः प्राणिलक्षणेऽणि "नस्तद्धिते'' इति टिलोपे "द्वारादीनां च'' इत्यैजागमे शौवं मांसमिति भवति (शौवः सङ्कोचः) अत्र प्राग्दीव्यतीयेऽणि [शुनः सूङ्कोचे उपसंख्यानम्] इति "अन्''इति प्रकृतिभावं बाधित्वा टिलोपः सङ्कोचादन्यत्र शौवनम् शुने हितं शून्यम् "शुनः सम्प्रसारणं वा च दीर्घत्वम्'इति गवादिपाठाद्यति प्रसारणे वा दीर्घः अत्र "नस्तद्धिते'' इति टिलोपः कस्मान्न भवति न च प्रसारणस्य सामर्थ्यादिति वाच्यम् यतः कृतेपरपूर्वत्वे टिलोपार्थमेव तत् स्याद्, अन्यथा "ये चाभावकर्म्मणोः'' इति प्रकृतिभावः स्यात् दीर्घविधानसामर्थ्यान्न भवति अस्तु चैवम्, अदीर्घपक्षे कस्मान्न भवति तदुच्यते, द्वौ चकारौ क्रियेते वा च दीर्घत्वं चेति, तत्रान्त्यः संनियोगार्थः, आद्यो भिन्नक्रमः सम्प्रसारणमित्यनेन सम्बध्यते प्रसारणं चेति तत्रान्यस्य समुच्चयितव्यस्याभावात् पुनरपि प्रसारणं समुच्चीयते तच्चावस्थापनार्थं सट्टिलोपं बाधिष्यते (शुनी) गौरादिपाठान् ङीष् शुन इव शेपमस्य शुनःशेपः एवं (शुनःपुच्छः शुनोलाङ्गुलः ) [शेपपुच्छालाङ्गूलेषु शुन उपसंख्यानम् ]इति अलुक् अकारान्तोऽप्यस्ति शेपशब्दो न केवलं सकारान्त इति कैयटपदमञ्जर्यादिषु (शुनोदन्तः श्वादन्तः) "शुनो दन्तदंष्ट्राकर्णवराहपुच्छपदेषु इति पूर्वपदस्य दीर्घः एवं दंष्ट्रादिषूदाहार्यम् श्वादंष्ट्रस्यापत्यं श्वादंष्ट्रिः श्वभस्त्रस्यापत्यं श्वाभस्त्रिः अत्र "श्वादेरिञि'' इति द्वारादिलक्षण ऐजागमो वृद्धिप्रतिषेधाश्च निषिध्यते अयमेव निषेधो द्वारादौ तदादिविधिज्ञापकः श्वन्शब्दोऽपि तत्र पठ्यते"श्वादे रिञि''इत्यत्र वार्त्तिके इकारादिग्रहणं चगणिकाद्यर्थमितिश्वगणेन चरति (श्वागणिकः) "श्वगणाट्ठञ् च'' इति चरत्यर्थे तृतीयान्ताट्ठक्ठञौ आदिशब्देन श्वायूथिकादिर्गृह्यते अत्र च" प्राग्वतेः'' इति ठकिञाद्यन्ताद्यदान्यस्तद्धित उत्पद्यते तदापि "'श्वादेरिञि''इति प्रतिषेधो भवत्येव तथाच तत्र वृत्तिः तदन्तस्य चान्यत्रापि तद्धिते प्रतिषेध इष्यतइति तेन श्वाभस्रेरिदमिति विगृह्य "इञश्च'' इत्यणि कृते ऐजागमवृद्धिनिषेधयोरभावात् श्वाभस्त्रमिति भवति यदा पुनरिकारादेरन्यस्तद्धितो भवति तदा श्वदंष्ट्रायां भवो मणिःशौवादंष्ट्र इति वृद्धिप्रतिषेध ऐजागमश्च भवति श्वापदे भवः (शौवापदः श्वापदः)"पदान्तस्यान्यतरस्याम्''इति श्वादेः पदशब्दान्तस्य द्वारादिलक्षण एजागमो वृद्धिप्रतिषेधश्च पक्षे निषिध्यते शुनः समीपमुपशुनम् "अव्ययं विभक्तिसमीप'' इत्यव्ययीभावेऽचतुरादिषु निपातनादच् टिलोपाभावश्च संप्रसारणं च, गोष्ठे श्वेव गोष्ठश्वः, अयमप्यचतुरादिषु निपातितः श्वानमतिक्रान्तोतिश्वः "अतेःशुनः'' इति टच् अतेरितिचनान्निश्वा लोष्ट इत्यादौ न भवति श्वेव पाषाणः पाषाणश्वः "उपमितं व्याघ्रादिभिः'' इति समासः "उपमानादप्राणिषु"वउपमानवाची यः श्वन् शब्दोऽप्राणिषु वर्तते तदन्ताटजिति टचि "नस्तद्धिते'' इति टिलोपः अत्र श्वशब्दः सादृश्यात्पाषाणवृत्तिरित्यप्राणिवचनः, अप्राणिष्विति वचनात् श्वेव वानरः वानरश्वेत्यादौ टज् न भवति मातरि सर्वस्य परिच्छेत्तर्याकाशे वर्द्धतइति मातरिश्वा वायुः "श्वन्नुक्षन्'' इत्यादिना मातरि पूर्वपदे श्वयतेःकनिति इकारलोपी लुक्च निपात्ये, "तत्पुरुषे कृति बहुलम्'' इति चालुक्सिद्धिः 990
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
