टु (Tu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte
Englishटुः [ṭuḥ], 1 Gold.
One who can change his shape at will.
of the god of love.ठ
Monier Williams 1872
EnglishAbhyankara Grammar
Englishटु (1) mute syllable टु prefixed to roots to signify the addition of the affix अथुच् in the sense of ver- bal activity
e. g. वेपथुः, श्वयथु:, cf. P.III. 3.89
(2) the class of lingual consonants ट्, ठ्, ड्, ढ् and ण्
cf चुटू P. I. 3.7.
कृदन्तरूपमाला
Sanskrit1 {@“टु क्षु शब्दे”@} 2 क्षावकः-विका, क्षावकः-विका, 3 चुक्षूषकः-षिका, 4 चोक्षूयकः यिका
5 क्षविता-त्री, क्षावयिता-त्री, चुक्षूषिता-त्री, चोक्षूयिता-त्री
6 क्षुवन्-ती, क्षावयन्-न्ती, चुक्षूषन्-न्ती
-- क्षविष्यन्-न्ती-ती, क्षावयिष्यन्-न्ती-ती, चुक्षूषिष्यन्-न्ती-ती
-- 7 व्यतिक्षुवाणः, क्षावयमाणः, -- चोक्षूयमाणः
व्यतिक्षविष्यमाणः, क्षावयिष्यमाणः, -- चोक्षूयिष्यमाणः
8 क्षुत्-क्षुतौ-क्षुतः
-- -- -- 9 10 क्षुतम्-तः, क्षावितः, चुक्षूषितः, चोक्षूयितः-तवान्
क्षवः, 11 क्षवणः, क्षावः, चुक्षूषुः, चोक्षुवः
क्षवितव्यम्, क्षावयितव्यम्, चुक्षूषितव्यम्, चोक्षूयितव्यम्
क्षवणीयम्, क्षावणीयम्, चुक्षूषणीयम्, चोक्षूयणीयम्
12 क्षव्यम्, 13 अवश्यक्षाव्यम्, क्षाव्यम्, चुक्षूष्यम्, चोक्षूय्यम्
ईषत्क्षवः-दुःक्षवः-सुक्षवः
-- -- -- 14 क्षूयमाणः, क्षाव्यमाणः, चुक्षूष्यमाणः, चोक्षूय्यमाणः
15 क्षवः, 16 विक्षावः, 17 18 क्षवथुः, क्षावः, चुक्षूषः, चोक्षूयः, क्षवितुम्, क्षावयितुम्, चुक्षूषितुम्, चोक्षूयितुम्
क्षुतिः, क्षावणा, चुक्षूषा, चोक्षूया
क्षवणम्, क्षावणम्, चुक्षूषणम्, चोक्षूयणम्
क्षुत्वा, क्षावयित्वा, चुक्षूषित्वा, चोक्षूयित्वा
प्रक्षुत्य, प्रक्षाव्य, प्रचुक्षूष्य, प्रचोक्षूय्य
क्षावम् २, क्षुत्वा २, क्षावम् २, क्षावयित्वा २, चुक्षूषम् २, चुक्षूषित्वा २, चोक्षूयम् २
चोक्षूयित्वा २
19 क्षुरः 20।
21
01 (३१३)
02 (२-अदादिः-१०३६। अक। सेट्। पर।)
03 [[४। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः।]]
04 [[५। ‘गुणो यङ्लुकोः’ (७-४-८२) इति अभ्यासस्य गुणः। ‘अकृत्सार्वधातुक--’ (७-४-२५) इति उकारस्य दीर्घः।]]
05 [[६। धातोरस्योदात्तत्वादिण्णिषेधो न।]]
06 [[७। ‘अदिप्रभृतिभ्यः शपः’ (२-४-७२) इति शपो विकरणप्रत्ययस्य लुक्। उवङ्।]]
07 [[८। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। णत्वम्।]]
08 [[९। ‘ह्रस्वस्य पिति कृति तुक्’ (६-१-७१) इति क्विपि धातोः तुगागमः।]]
09 [पृष्ठम्०३२७+ २४]
10 [[१। ‘श्र्युकः क्किति’ (७-२-११) इति इण्णिषेधः। एवं क्तिनि, क्त्वायां च बोध्यम्।]]
11 [[२। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्।]]
12 [[३। ‘अचो यत्’ (३-१-९७) इति यत्।]]
13 [[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्।]]
14 [[५। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
15 [[६। ‘ॠदोरप्’ (३-३-५७) इत्यप् प्रत्ययः भावे।]]
16 [[७। ‘वौ क्षुश्रुवः’ (३-३-२५) इति घञ्।]]
17 [[आ। ‘यात यूयं यमश्रायं दिशं नायेन दक्षिणाम्। विक्षावैस्तोयविश्रावं तर्जयन्तो महोदधेः।।’ भ। का। ७-३६।]]
18 [[८। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावे अथुच् प्रत्ययो भवति।]]
19 [[९। ‘क्षौति = वपनकाले ‘कॄद्’-इति स्वनति इति क्षुरः ‘ऋज्रेन्द्र--’ इत्यादिन औणादिकः रन्।’ इति धातुकाव्यव्याख्याने २-८६।]]
20 [[B। ‘केऽण्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्राः। सोऽनूर्णुतोऽद्यौत् जनसुत् कुवत्या काञ्च्येव कामं स्तुवतां ब्रुवाणः।।’ धा। का। २-४७।]]
21 [पृष्ठम्०३२८+ २६]
1 {@“टु दु उपतापे”@} 2 ‘दुनोति दूयते तापे, दवतीति गतौ पदम्।।’ 3 इति देवः।
दावकः-विका, दावकः-विका, दुदूषकः-षिका, दोदूयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि पूर्वलिखितभौवादिकदवतिवत् 4 ज्ञेयानि।
5 दावः, 6 प्रदवः, 7 दुतः 8 -दुतम्-दुतवान्, 9 दवथुः, 10, 11 सन्दवः, 12 दुन्वन्-ती, इति रूपाण्यस्य यथायथं तत्तत्प्रत्ययेषु भवन्तीति विशेषः।
13
01 (८४८)
02 (५-स्वादिः-१२५६। अक। अनि। पर।)
03 (श्लो। २२)
04 (८४७)
05 [[५। ‘दुन्योरनुपसर्गे’ (३-१-१४२) इति कर्तरि णप्रत्ययः। दावः = वनानलः। अत्र, ‘अनुपसर्गे इत्युक्तत्वात्, सोपसर्गात् तु सन्दवः प्रदयः इत्यादिषु पचाद्यजेव भवति।’]]
06 [[आ। ‘दह्येऽहं मधुनो लेहैर्दावैरुग्रैर्यथा गिरिः।’ भ। का। ६। ८३।]]
07 [[६। ‘दुग्वोर्दीर्घश्च’ (वा। ८-२-४४) इत्यत्र सानुबन्धकत्वादस्य धातोर्न ग्रहणम्। तेन क्तप्रत्यये दुतः इत्येवास्य रूपम्।]]
08 [[B। ‘स्फुटमिवातरणं हिममारुतैर्मृदुतया दुतयाऽधरलेखया।।’ शि। व। ६। ५९।]]
09 [[७। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच् प्रत्ययः।]]
10 [[C। ‘केचिद् वेपथुमासेदुरन्ये दवथुमुत्तमम्।’ भ। का। ४। ४३।]]
11 [[८। समि युद्रुदुवः’ (३-३-२३) इत्यत्र द्रुसाहचर्यात् भौवादिकस्यैव ग्रहणादस्य भावे, ‘ॠदोरप्’ (३-३-५७) इत्यबेव सम्पूर्वकादपि भवति।]]
12 [[९। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुप्रत्यये, तस्य ङिद्वद्भावेनाङ्गस्य गुण- प्रतिषेधे, ‘हुश्नुवोः सार्वधातुके’ (६-४-८७) इति श्नुप्रत्ययघटकोकारस्य शतृप्रत्यये परतो यणादेशे च रूपम्।]]
13 [पृष्ठम्०७५६+ २८]
1 {@“टु नदि समृद्धौ”@} 2 नन्दकः-न्दिका, नन्दकः-न्दिका, निनन्दिषकः-षिका, नानन्दकः-न्दिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककन्दतिवत् 3 ज्ञेयानि।
4 नन्दः, 5 6 नन्दनः, 7 नन्दकः, 8 9 रघुनन्दनः, 10 11 हरिनन्दी, परिनन्दनम्, 12 नन्दथुः, 13 14 इत्नुच्प्रत्ययो ण्यन्तात् भवति।
नन्दयतीति नन्दयित्नुः आनन्दः, प्रमुदितश्च।
‘अयामन्ताल्वाय्येत्न्विष्णिषु’ 15 इति णेरयादेशः।]] नन्दयित्नुः, 16 17 इति ऋन्प्रत्ययः वृद्धिश्च।
न नन्दतीति ननान्दा = पत्युर्भगिनी।]] ननान्दा, 18 इत्यादिना आशिषि झच्प्रत्ययः षिच्च।
नन्द्यात् इत्याशीरर्थे नन्दयन्तः इति रूपम् आनन्द इत्यर्थः।]] नन्दयन्तः इत्यादीन्यस्य धातोरधिकतया विशेषरूपाणि सम्भवन्तीति ज्ञेयम्।
01 (९४८)
02 (१-भ्वादिः-६७। अक। सेट्। पर।)
03 (१६३)
04 [[१। पचाद्यचि (३-१-१३४) रूपमेवम्। नन्दतीति नन्दः। नन्द एव नान्दः प्रज्ञादि त्वात् (५-४-३८) स्वार्थेऽण्। अणन्तात् ङीपि नान्दी = मङ्गलध्वनिः।]]
05 [[आ। ‘मनोज्ञगण्डं तमनिन्दिताननं नन्दात्मजं शारदचन्द्रशीतलम्।’ धा। का। १। १०]]
06 [[२। ण्यन्तात् नन्दयतीति नन्दनः। ‘नन्दिग्रहि--’ (३-१-१३४) इति कर्तरि ल्युप्रत्ययः। कर्मण्यणोऽपवादः।]]
07 [[३। नन्दतात् इति नन्दकः ‘आशिषि च’ (३-१-१५०) इति वुन्। ‘आशिषि च’ (वा। ७-३-४५) इति निषेधात् स्त्रियाम् इत्वं न, तेन नन्दका इत्येव।]]
08 [[B। ‘अत्यर्थमुद्वेजयिता परेषां नाम्नाऽपि तस्यैव स नन्दकोऽभूत्।।’ शि। पा। ३। १९]]
09 [[४। रघूणां नन्दयिता रघुनन्दनः। क्ष्नुभ्नादित्वात् (८-४-३९) णत्वं न।]]
10 [[C। ‘तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्थत्।।’ भ। का। २। ३६।]]
11 [[५। हरिं नन्दतीति हरिन्दन्दी, ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः। अत्र, परिनन्दनम् इत्यत्र च क्ष्नुभ्नादित्वादेव (८-४-३९) णत्वं न।]]
12 [[६। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावादावथुच्प्रत्ययः।]]
13 [[ड्। ‘सारोऽसाविन्द्रियार्थानां यस्यासौ तस्य नन्दथुः।’ भ। का। ५। २०।]]
14 [[७। औणादिकः [द। उ। १-१४०]
15 (६-४-५५)
16 [पृष्ठम्०८२८+ २५]
17 [[१। ‘नञि च नन्देः’ [द। उ। २। ६।]
18 [[२। ‘तॄभूवहि--’ [द। उ। ६। १९]
1 {@“टु भ्राजृ दीप्तौ”@} 2 3 भ्वादौ प्रथमतः, ‘भ्राजृ दीप्तौ’ इति पठित्वा, पुनर्घटादौ ‘टु भ्राजृ दीप्तौ’ इति पठ्यते।
इमौ उभावपि दीप्त्यर्थकौ ऋदितौ चेति ज्ञायते।
न्यासकारस्तु ‘भ्राज दीप्तौ’ इत्येव ‘भ्राजभासधुर्वि--’ 4 इत्यत्र पपाठ।
पदमञ्जर्यामपि 5 ‘भ्राज दीप्तौ’ इत्येव पाठो लक्ष्यते।
‘भ्राजधातोः ऋदित्करणमपाणिनीयम्।’ इति काशिका 6 अत्र ज्ञेया।
‘… ऋदित्त्वमनुदात्तेत्त्वमात्रफलम्।’ इति मा।
धा।
वृत्तिः।
ऋदित्त्वस्य तिङन्त एवोपयोगादस्माभिरुभावपि धातू समुच्चित्योपात्तौ।
घटादिष्वेव फणादयः सप्त धातवोऽन्ते पठिताः।
तत्र ‘टु भ्राजृ--’ इत्येव पाठः त्त्यासकार-मैत्रैय- रक्षित-पुरुषकार-सायण-सिद्धान्तकौमुद्यादिसम्मतः।
क्षीरस्वामी तु ‘भ्राजृ, टु भ्राशृ--’ इत्यादि पठित्वा, ‘टुरुभयस्य--इत्येके।
‘ट्वितोऽ- थुच्’ 7 भ्राजथुः।” इत्याह।
चान्द्राणां काशकृत्स्नीयानां च धातुपाठे भ्राज इत्येव घटादौ पठितः न तु ‘टु भ्राजृ’ इति क्षी।
टीकायां प्रतिपादितम्।
एतत् सर्वमत्रानुसन्धेयम्।
‘अवश्यपठितव्येन फ8णादिकेन भ्राजते इत्यादीनां सिद्धेः इह 9 पाठोऽनार्ष इव।’ इति न्यासकारवचनं मा।
धा।
वृत्तौ उपात्तमप्यत्रावधेयम्।]] भ्राजकः-जिका, भ्राजकः-जिका, बिभ्राजिषकः-षिका, बाभ्राजकः-जिका
10 इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना, भौवादिककाशतिवत् 11 ज्ञेयानि।
क्विपि-- 12 विभ्राक् 13 -विभ्राग्-विभ्राजौ-विभ्राजः, 14 भ्राजिष्णुः 15, 16 विभ्राट्-विभ्राड्-विभ्राजौ-विभ्राजः, 17 भ्राजथुः, 18 बभ्राजिवान्, बभ्राजिवान्- भ्रेजिवान्, 19 भ्राता, 20 नभ्राट्, भ्राष्टिः, इति रूपाण्यस्य सम्भवन्तीति विशेषः।
21
01 (११८७)
02 (१-भ्वादिः-१८१। ८२३ अक। सेट्। आत्म।)
03 [[[अ]
04 (३-२-१७७)
05 (७-४-३)
06 (७-४-३)
07 (३-३-८९)
08 [फा?]
09 (= घटादिभिन्नस्थले भ्वादिषु)
10 [पृष्ठम्०९८४+ ३०]
11 (१८६)
12 [[१। ‘भ्राजभासधुर्वि--’ (३-२-१७७) इत्यादिना तच्छीलादिषु कर्तृषु क्विप्प्रत्ययः। ‘चोः कुः’ (८-२-३०) इति पदान्ते कुत्वम्। एतच्च घटादिष्वर्पांठतस्य ‘भ्राजृ दीप्तौ, इति भौवादिकस्य भ्राजतेः क्विपि रूपमिति ज्ञेयम्।]]
13 [[आ। ‘अभ्रेजि विभ्राग्भिरनीजितैश्च यत् कदाऽप्यशोचद्भिरशेषजन्तुभिः।’ धा। का। १। २५।]]
14 [[२। ‘भुवश्च’ (३-२-१३८) इत्यत्र चकारेणास्मादपि धातोः इण्णुच्प्रत्यय इति काशिका- दिषूच्यते। अत्रपि भ्राजिष्णुरिति द्विविधस्यापि भ्राजतेः सम्पद्यते इति बहवः। ‘भ्राजिष्णुना लोहितचन्दनेन--’ इति काशिकामुपादाय पदमञ्जर्याम्-- ‘नैतद् भाष्ये समाश्रितम्।’ इत्युक्तम्। इदानीं भाष्यकोशेषु ‘भुवश्च’ (३-२-१३८) इति सूत्रस्य भाष्यमेव नोपलभामहे। धातुकाव्यव्याख्याने तु (२-२०) घाटादिकस्य ‘टु भ्राजृ--’ इति धातोः इष्णुच्प्रत्यय इति प्रतिपादितम्।]]
15 [[B। ‘कृष्णोऽपि रेजे पथि गोपबालैः भ्राजिष्णुभिः भ्राशितपार्श्वदेशः।’ धा। का। २। २०।]]
16 [[३। ‘टु भ्राजृ--’ इत्यस्य ताच्छीलिके क्विपि, ‘व्रश्चभ्रस्जसृजमृजयजराजभ्राज--’ (८-२-३६) इत्यनेन षत्वे, जश्त्वचर्त्वयोश्च रूपमेवम्। क्विब्विधायके सूत्रे काशिकायाम् (३-२-१७७) विभ्राट् इत्युदाहृतत्वेऽपि, सूत्रे घटादिपठितयोः तदितरयोरुभयोरपि भ्राजधात्वोर्ग्रहणमेव
\n\n षत्वं तु ‘व्रश्चभ्रस्ज--’ (८-२-३६) इत्यत्र राजधातुसाहचर्यात् फणादि (घटादि) भ्राजतेरेव इत्यादिकं प्रकृतस्थले मा। धा। वृत्तौ स्फुटम्।]]
17 [[४। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्यये रूपमेवम्।]]
18 [[५। कर्तरि लिटः क्वसौ घटादेरन्यत्र पठितस्य भ्राजते रूपमेवम्। घाटादिकस्य क्वसौ तु, ‘फणां च सप्तानाम्’ (६-४-१२५) इत्येत्वाभ्यासलोपविकल्पः। तेन रूपद्वयमिति ज्ञेयम्।]]
19 [[६। ‘भ्राजते इति भ्राता’ इति रूपं क्षीरतरङ्गिण्यां, दशपाद्युणादिवृत्तौ च (द। उ। २। ३) भ्राजतेस्तृनि, तृचि वा, पृषोदरादित्वात् (६-३-१०९) जकारलोपे च साधितम्। भाष्ये (१-२-६८) तु ‘यदि तावद् बिभर्तीति भ्राता’ इत्युक्तत्वात् बिभर्तेर्धातोरेव भ्रातृशब्दनिष्पादनं न्याय्यमिति प्रतिभाति।]]
20 [[७। ‘न भ्राजते इति नभ्राट्। नञ्समासे, ‘न भ्राण्नपात्--’ (६-३-७५) इत्यादिना नञः प्रकृतिभावः।]]
21 [पृष्ठम्०९८५+ २७]
1 {@“टु भ्राशृ दीप्तौ”@} 2 ‘भ्राशते भ्लाशते दीप्तौ भ्राश्यते भ्लाश्यते तथा।।’ 3 इति देवः।
भ्राशकः-शिका, भ्राशकः-शिका, बिभ्राशिषकः-षिका, बाभ्राशकः-शिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककाशतिवत् 4 ज्ञेयानि।
5 भ्राश्यमानः-भ्राशमानः, इति शानचि रूपमिति विशेषः।
6 भ्राशथुः, 7 भ्राशितः।
01 (११८८)
02 (१-भ्वादिः-८२४। अक। सेट्। आत्म।)
03 (श्लो। १६७)
04 (१८६)
05 [[१। शानचि, ‘वा भ्राश--’ (३-१-७०) इत्यादिना श्यन् विकल्पेन भवति।]]
06 [[२। धातोरस्य ट्वित्त्वात्, भावादौ ‘ट्वितोऽथुच्’ (३-३-८९) इति अथुच्प्रत्ययः।]]
07 [[आ। ‘कृष्णोऽपि रेजे पथि गोपबालैर्भ्राजिष्णुभिर्भ्राशितपार्श्वदेशः।’ धा। का। २। २०।]]
1 {@“टु भ्लाशृ दीप्तौ”@} 2 ‘भ्राशते भ्लाशते दीप्तौ भ्राश्यते भ्लाश्यते तथा।।’ 3 इति देवः।
भ्लाशकः-शिका, भ्लाशकः-शिका, बिभ्लाशिषकः-षिका, बाभ्लाशकः-शिका
4 भ्लाशमानः-भ्लाश्यमानः, क्वसुप्रत्यये 5 बभ्लाशिवान्-भ्लेशिवान्, 6 भ्लाशथुः
इत्यादीनि सर्वाणि रूपाणि भौवादिककाशतिवत् 7 ज्ञेयानि।
कर्तरि क्तप्रत्यये- 8 भ्लाशितः इति रूपम्।
01 (११९५)
02 (१-भ्वादिः-८२५। अक। सेट्। आत्म।)
03 (श्लो। १६७)
04 [[१। कर्त्रर्थे शानचि, ‘वा भ्राशभ्लाश--’ (३-१-७०) इति श्यन् वा भवति। तेन रूपद्वयं बोध्यम्।]]
05 [[२। क्वसौ ‘फणां च सप्तानाम्’ (६-४-१२५) इत्येकाराभ्यासलोपयोर्विकल्पे रूपद्वयमिति ज्ञेयम्।]]
06 [[३। ‘ट्वितोऽथुच्’ (३-३-८९) इति ट्वित्त्वात् अथुच्प्रत्यये रूपमेवम्।]]
07 (१८६)
08 [[B। ‘विभ्लाशितेऽक्रूररथे सरामः स्यमत्पयोदस्वनभाजि तिष्ठन्।।’ धा। का। २। २०।]]
1 {@“टु मस्जो शुद्धौ”@} 2 ‘शुद्ध्या स्नानम्, व्रुडनं च लक्ष्यते।’ इति क्षीरस्वामी।
व्रुडनम् = संवरणम्।
3 मज्जकः-ज्जिका, मज्जकः-ज्जिका, 4 मिमङ्क्षकः-क्षिका, मामज्जकः-ज्जिका
5 मङ्क्ता-मङूक्त्री, मज्जयिता-त्री, मिमङ्क्षिता-त्री, मामज्जिता-त्री
6 मज्जन्-ती, मज्जयन्-न्ती, मिमङ्क्षन्-न्ती
-- मङ्क्ष्यन्-न्ती-ती, मज्जयिष्यन्-न्ती-ती, मिमङ्क्षिष्यन्-न्ती-ती
-- -- 7 मज्जयमानः, -- मामज्ज्यमानः
-- मज्जयिष्यमाणः, -- मामज्जिष्यमाणः
8 सुमक्-सुमग्-सुमज्जौ-सुमज्जः
-- -- -- 9 मग्नः-मग्नवान्, मज्जितः, मिमङ्क्षितः, मामज्जितः-तवान्
मज्जः, मज्जः, मिमङूक्षुः, मामज्जः
मङ्क्तव्यम्, मज्जयितव्यम्, मिमङ्क्षितव्यम्, मामज्जितव्यम्
मज्जनीयम्, मज्जनीयम्, मिमङ्क्षणीयम्, मामज्जनीयम्
10 11 मद्ग्यम्-मद्ग्यः, मज्ज्यम्, मिमङ्क्ष्यम्, मामज्ज्यम्
ईषन्मज्जः-दुर्मज्जः-सुमज्जः
-- -- -- मज्ज्यमानः, मज्ज्यमानः, मिमङ्क्ष्यमाणः, मामज्ज्यमानः
मद्गः, 12 मज्जथुः 13 मज्जः, मिमङ्क्षः, मामज्जः
मङ्क्तुम्, मज्जयितुम्, मिमङ्क्षितुम्, मामज्जितुम्
14 मज्जा, मज्जना, मिमङ्क्षा, मामज्जा
मज्जनम्, मज्जनम्, मिमङ्क्षणम्, मामज्जनम्
15 मङ्क्त्वा 16 -मक्त्वा, मज्जयित्वा, मिमङ्क्षित्वा, मामज्जित्वा
प्रमज्ज्य, प्रमज्ज्य, प्रमिमङ्क्ष्य, प्रमामज्ज्य
मज्जम् २ मङ्क्त्वा २ मक्त्वा २ मज्जम् २ मज्जयित्वा २ मिमङ्क्षम् २ मिमङ्क्षित्वा २ मामज्जम् २
मामज्जित्वा २
17 मद्गुः, 18 मज्जा-मज्ज नौ-मज्जनः, 19 मञ्जूषा, 20 मद्गुरः।
21
01 (१२३५)
02 (६-तुदादिः-१४१५। अक। अनि। पर।)
03 [[१। ण्वुलि, ‘झलां जश् झशि’ (८-४-५३) इति सकारस्य दकारे, तस्य श्चुत्वेन जकारः। एवमेव ण्यन्तेषु, यङन्तेषु, शुद्धे अजादिप्रत्ययेषु च रूपनिष्पत्तिरिति ज्ञेयम्।]]
04 [[२। सन्नन्तात् ण्वुलि, धातोरनिट्त्वेन झलादिप्रत्ययपरकत्वात्, ‘मस्जिनशोर्झलि’ (७-१-६०) इति नुमागमः। अत्र च ‘मिदचोऽन्त्यात् परः’ (१-१-४७) इति नियमं बाधित्वा, ‘मस्जेरन्त्यात् पूर्वं नुममिच्छन्ति अनुषङ्गादिलोपार्थम्’ (वा। १-१-४७) इति भाष्याद्युक्तप्रकारेण धातुजकारात् पूर्वं नुम्। तेन सकारस्य संयोगादिलोपे, कुत्वे च रूपमेवम्। एवमेव सन्नन्ते सर्वत्र प्रक्रियोह्या।]]
05 [[३। तृचि अन्त्यात् पूर्वं नुमि, ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति संयोगादिलोपे रूपमेवम्। एवमेव तव्यदादिष्वपि ज्ञेयम्।]]
06 [[४। शतरि, तुदादित्वात् शपोऽपवादत्वेन शप्रत्यये जश्त्वश्चुत्वयो रूपमेवम्।]]
07 [[५। शुद्धेश्चेतनकर्तृकत्वे, ण्यन्तात्, ‘अणावकर्मकात्--’ (१-३-८८) इति परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमपीत्यतोऽत्रात्मनेपदम्।]]
08 [[६। क्विपि, संयोगादिलोपे, जकारस्य कुत्वे च रूपमेवम्।]]
09 [[७। निष्ठायाम्, ‘मस्जिनशोः--’ (७-१-६०) इति नुमि, सकारस्य संयोगादिलोपे, नुमो नकारस्य ‘अनिदिताम्--’ (६-४-२४) इति लोपे, ‘ओदितश्च’ (८-२-४५) इति निष्ठानत्वे, नत्वस्यासिद्धत्वेन झल्परकत्वात् ‘चोः कुः’ (८-२-३०) इति कुत्वे च रूपमेवम्।]]
10 [पृष्ठम्१०११+ २८]
11 [[१। ण्यति, ‘चजोः कु घिण्णयतोः’ (७-३-५२) इति धातुजकारस्य कुत्वे सकारस्य जश्त्वेन दकारे च रूपमेवम्। घञ्यप्येवमेव रूपनिष्पत्तिरिति ज्ञेयम्।]]
12 [[२। भावे, ‘ट्वितोऽथुच्’ (३-३-८९) इत्यथुच्प्रत्यये रूपमेवम्।]]
13 [[आ। ‘तल्पे कान्तान्तरैः सार्धं मन्येऽहं धिङ् निमज्जथुम्।।’ भ। का। ५। २०।]]
14 [[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्यये रूपमेवम्। केचित्तु क्तिनि, नुमि नलोपे च मक्तिरिति साधयन्ति। ‘प्रसज्य चापवादविषयं तत उत्सर्गोऽभिनिवि- शते’ (परि। ६५) इति न्यायानुसरणे तु मज्जा इत्यकारप्रत्ययान्तं रूपमेव न्याय्य- मिति प्रतिभाति।]]
15 [[४। क्त्वाप्रत्यये, ‘जान्तनशां विभाषा’ (६-४-३२) इत्यनुनासिकलोपनिषेधविकल्पः। निषेधविकल्पे विधिविकल्पपर्यवसानात् अनुनासिकलोपो विभाषा भवतीति ज्ञेयम्। तेन रूपद्वयम्।]]
16 [[B। ‘अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा न यमुत्ततार।’ वा। वि। ३। ३८।]]
17 [[५। ‘भृमृशीतॄचरित्सरितनिमिमस्जिभ्य उः’ (द। उ-१-९२) इत्युप्रत्यये रूपमेवम्। मज्जत्यम्भसीति मद्गुः = जलपक्षिविशेषः। न्यङ्क्वादि (७-३-५३) पाठात् जकारस्य कुत्वेन गकारः।]]
18 [[६। ‘श्वन्नुक्षन्--’ (द। उ। ६-५५) इत्यादिना कनिन्प्रत्यये रूपमेवम्। मज्जत्यस्थिष्विति मज्जा = अस्थ्यन्तसारः। नकारान्तोऽयं शब्दः।]]
19 [[७। ‘मस्जेर्नुम् च’ (द। उ। ९-१८) इत्यूषन्प्रत्यये, नुभागमे च रूपमेवम्। मज्जत्यस्या- मिति मञ्जूषा = पेटिका।]]
20 [[८। बाहुलकादौणादिकेऽरप्रत्यये न्यङ्क्वादित्वात् (७-३-५३) कुत्वे च रूपम्। मद्गुरः = जलपक्षिविशेषः।]]
21 [पृष्ठम्१०१२+ २८]
1 {@“टु याचृ याच्ञायाम्”@} 2 याचकः-चिका, याचकः-चिका, यियाचिषकः-षिका, यायाचकः-चिका
याचिता-त्री, याचयिता-त्री, यियाचिषिता-त्री, यायाचिता-त्री
3 4 5 याचन्-न्ती, 6 याचमानः, इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककासतिवत् 7 ज्ञेयानि।
8 याचथुः, याचित्रिमम्, 9 याच्ञा, 10 अयाची, 11 याच्यम्, 12 याचितम्-याचितकम्, याचा, इतीमानि रूपाणि धातोरस्माद्भवन्तीति विशेषः।
01 (१३४४)
02 (१-भ्वादिः-८६३। द्विक। सेट्। उभ।)
03 [बलिं वसुधां]
04 [पृष्ठम्१०७८+ ३२]
05 [[१। ‘अकथितं च’ (१-४-५१) इत्यत्र भाष्ये ‘दुहियाचिरुधि--’ (व्याघ्नभूतिका- रिका। १-४-५१) परिगणनात् द्विकर्मकत्वम्। धातोरस्य उभयपदित्वात् शता, शान- च्चेति ज्ञेयम्।]]
06 [[आ। ‘सोऽपृच्छत् लक्ष्मणं सीतां याचमानः शिवं सुरान्।’ भ। का। ६-८।]]
07 (१८८)
08 [[२। ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्ययः। क्षीरस्वाम्यादयः धातुममुं ड्वितं पठित्वा ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्यये, ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति मप्प्रत्यये याचित्रिमम् इति रूपं साधयन्ति। “केचित् ड्वितं पठन्ति--तदपि प्रमाणम्।” इति धातुवृत्तिरिहानुसन्धेया।]]
09 [[३। ‘यजयाच--’ (३-३-९०) इत्यादिना भावे नङ्प्रत्ययः। ‘नेड् वशि’ (७-२-८) इतीण्निषेधः। ‘स्तोः श्चुना--’ (८-४-४०) इति श्चुत्वम्। स्त्रीलिङ्गत्वं स्वभावात्।]]
10 [[४। ‘याचृव्याहृसंव्याहृव्रजवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति णिनि- प्रत्ययः। प्रतिषिद्धानाम् = नञ्पूर्वाणामित्यर्थः। अयाची = यः सर्वात्मना याचनं विनैव देहयात्रां करोति स एवमुच्यते।]]
11 [[५। ण्यति, ‘यजयाचरुचप्रवचर्चश्च’ (७-३-६६) इति कुत्वनिषेधः। ‘निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५२) इति वार्तिकानुसरणे तु निष्ठायामस्य धातोः सेट्- त्वात् कुत्वमेव न प्रवर्तते। यथोत्तरं मुनीनां प्रामाण्यात् वार्तिकानुसरणमेव युक्तम्।]]
12 [[६। निष्ठायामेवं रूपम्। निष्ठान्तात् ‘अपमित्ययाचिताभ्यां कक्कनौ’ (४-४-२१) इति निर्वृत्तार्थे तृतीयान्तात् यथासम्भवं कन्प्रत्यये याचितकम् = याचितेन निर्वृत्तम् इति।]]
1 {@“टु वम उद्गिरणे”@} 2 ‘उद्गिरणे = वमने’ इति काशकृत्स्नः।
ज्वलादिः, मिच्च।
‘उद्गिरणम् = अन्तर्गतस्य मुखेन निःसारणम्’ इति मा।
धा।
वृत्तिः।
‘-- भुक्तस्योर्ध्वगतिः’ इति क्षीरस्वामी।
‘उदित् इति काशकृत्स्नपाठः’ इति तरङ्गिण्याम्।
प्रकृतकाशकृत्स्नधातुपाठे तु ‘डु वम--’ इत्येव दृश्यते।
‘काश्यपादीनामपि उदित्पाठः’ इति मा।
धा।
वृत्तिः।
3 वामकः-मिका, वामकः-मिका, 4 वमकः-मिका, विवमिषकः-षिका, वंवमकः-मिका
5 वमिता-त्री, वामयिता-वमयिता-त्री, विवमिषिता-त्री, वंवमिता-त्री
वमन्-न्ती, वामयन्-वमयन्-न्ती, विवमिषन्-न्ती
-- वमिष्यन्-न्ती-ती, वामयिष्यन्-न्ती-ती, विवमिषिष्यन्-न्ती-ती
-- -- वामयमानः-वमयमानः, -- वंवम्यमानः, वंवमिष्यमाणः
वमितम्-तः-तवान्, 6 वान्तम्-वान्तः-वान्तवान्, वमितः, विवमिषितः, वंवमितः-तवान्
वमः- 7 वामः, 8 वमी, 9 वमथुः 10, वामः-वमः वामी, 11 वामनः, विवमिषुः, वंवमः
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 12 ऊह्यानि।
13 वम्यम्, वान्तिः, 14 वमित्वा-वान्त्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१५५८)
02 (१-भ्वादिः-८४९। सक। सेट्। पर।)
03 [[४। ‘नोदात्तोपदेशस्य मान्तस्य--’ (७-३-३४) इत्यादिना वृद्धिनिषेधे प्राप्ते ‘अनाचमि- कमिवमीनाम्--’ (वा। ७-३-३४) इति वार्त्तिकात् वृद्धिनिषेधो न। तेन ण्वुलि वामकः इति रूपम्।]]
04 [[५। ‘ग्लास्नावनुवमाम्--’ (ग। सू। भ्वादिः) इति अनुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। ततः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः, तेन ण्यन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
05 [पृष्ठम्१२०२+ ३०]
06 [[१। ‘आदितश्च’ (७-२-१६) इति चकारस्यानुक्तसमुच्चयार्थकत्वात् निष्ठायामनिट्त्वम् इति काशिकादौ। “‘धारानिपातैः सह किन्तु वा-तः चन्द्रोऽयमित्यार्ततरं रसासे’ इति पाणिनिः” इति प्रक्रियासर्वस्वटीकायाम् (पु। २६)। ‘वम्जप्- व्याश्वसो निष्ठायाः इड् वा इति केचित्’ इत्युक्त्या वमितः-वान्तः इति’ प्रक्रियाकौमुदी।]]
07 [[२। कर्तरि ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति विकल्पेन णप्रत्ययः। अचो- ऽपवादः। तेन रूपद्वयम्।]]
08 [[३। ‘जिदृक्षिविश्रीण्वम--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।]]
09 [[४। भावादौ दवितो धातोः ‘ट्वितोऽथुच्’ (३-३-८९) इति अथुच्प्रत्यये रूपमेवम्। ‘पुमांस्तु वमथुः समाः’ इत्यमरः।]]
10 [[आ। ‘सरक्तं वमथुं केचिद् भ्राजथुं न च केचन।।’ भ। का। ४-४३।]]
11 [[५। वृद्धिपक्षे ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। वामनः = लघुपरिमाणः विष्णोरवतारः।]]
12 (४९४)
13 [[६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्यये रूपम्। ण्यतोऽपवादः।]]
14 [[७। उदित्पक्षे क्त्वायाम् ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इडभावपक्षे ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे वान्त्वा इति रूपम्। तेन रूपद्वयं बोध्यम्।]]
1 {@“टु वेपृ कम्पने”@} 2 ‘-- चलने’ इति जैन-कातन्त्र-शाकटायन-हेमादयः।
वेपकः-पिका, वेपकः-पिका, विवेपिषकः-षिका, वेवेपकः-पिका
वेपिता-त्री, वेपयिता-त्री, विवेपिषिता-त्री, वेवेपिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिककेपतिवत् 3 ज्ञेयानि।
शानचि 4 5 प्रवेपमानः, 6 वेपथुः 7, 8 प्रवेपनम् 9, 10 विपिनम् इमानि रूपाण्यधिकान्यत्रेति विशेषः।
01 (१६४३)
02 (१-भ्वादिः-३६७। अक। सेट्। आत्म।)
03 (२६१)
04 [पृष्ठम्१२६५+ २६]
05 [[आ। ‘प्रवेपमानो नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच।।’ कु। स। ९। ६।]]
06 [[१। ‘द्वितोऽथुच्’ (३-३-१९) इति अथुच्प्रत्यये रूपमेवम्।]]
07 [[B। ‘विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोर्विभङ्गं स्तनयुग्मवल्गितम्।’ भ। का। ११। ३७।]]
08 [[२। ‘न भाभूपूकमिगमिप्यायीवेपाम्’ (८-४-३४) इति निषेधात् कृत्स्थस्य नकारस्य णकारादेशो न भवति।]]
09 [[C। ‘नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का। ९-१०७।]]
10 [[३। ‘वेपितुह्योः--’ (द। उ। ५-१८) इति इनन्प्रत्ययः, किच्च, प्रकृतेः ह्रस्वश्च भवति। विपिनम् = गहनम् अब्जं वा। ‘अटव्यरण्यं विपिनं गहनं काननं वनम्’ इत्यमरः।]]
1 {@“टु ओ स्फूर्जा वज्रनिर्घोषे”@} 2 3 ‘-- वज्रनिष्पेषे’।
वज्रनिष्पेषोऽशनिनिर्घोषः’ इति स्वामी।
स्फूर्जः, ‘ओदितश्च’ 4 इति निष्ठानत्वे णत्वे च 5 स्फूर्ग्णः।
6 स्फूर्जितमनेन, स्फूर्ग्णम्, प्रस्फूर्जितः, प्रस्फूर्ग्णः इत्यत्र ‘विभाषा भावादि--’ 7 इति विकल्पितेट्।
‘ट्विथोऽथुच्’ 8 इत्यथुचि 9 स्फूर्जथुः इति।
इतराणि सर्वाण्यपि रूपाणि भौवादिककुर्दति 10 वत् ज्ञेयानि।
11 स्फूर्जन्-स्फुर्जन्।
01 (१९६६)
02 (१-भ्वादिः-२३५। अक। सेट् पर।)
03 [पृष्ठम्१३९७+ २८]
04 (८-२-४५)
05 [[१। ‘आदितश्च’ (७-२-१६) इति अनिट्त्वम्। निष्ठानत्वे, ‘चोः कुः’ (८-२-३०) इति धातुजकारस्य कुत्वे णत्वे च रूपमेवम्। माधवीयधातुवृत्तौ ‘स्फूर्णवान् स्फूर्णमनेन’ इति गकाररहितः प्रयोगो लक्ष्यते
\n\n अत्र कवर्गस्य लोपप्रसक्त्य- भावात् नूनं सोऽपपाठ इति बोध्यम्।]]
06 [[२। ओदित्त्वेन निष्ठानत्वप्रसक्तेः धातोर्निष्ठायामनिट्त्वे सिद्धे पुनरादित्करणात् ज्ञापकात् ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति भावे आदिकर्मणि च विकल्पितेट्कत्वं ज्ञाप्यते। तेन रूपद्वयमत्र।]]
07 (७-२-१७)
08 (३-३-८९)
09 [[आ। ‘श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी।’ भ। का। ५-५३।]]
10 (२३०)
11 [[३। शतरि स्फूर्जन् इति रूपम्। अस्य दीर्घोपदेशेन ‘उपधायां च’ (८-२-७८) इति दीर्घस्य अनित्यत्वं ज्ञाप्यते, तेन पक्षे स्फुर्जन् इति दीर्घरहितप्रयोगोऽपि भवतीति केचित्--इति मैत्रेयरक्षितेन प्रतिपादितमिति माधवः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
