| YouTube Channel

टिका (TikA)

 
Monier Williams 1872
English
टिका टिका in स्वर्ग-ग्राम-टिका-विलुण्ठन,
the spoils of the poor villages of heaven (?).
टिका, in स्वर्ग-ग्राम-टिका-विलुण्ठन, to be
erased, (see ग्रामटिका, p. 1183.)
कृदन्तरूपमाला
Sanskrit
1 {@“बिट आक्रोशे”@} 2 ‘विट--’ इति क्षीरस्वामी पपाठ।
‘बिड--’ इति नन्दी।
‘पिट--’ इति मल्लः।
3 बेटकः-टिका, बेटकः-टिका, बिबेटिषकः-बिबिटिषकः-षिका, बेबिटकः- टिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककिटतिवत् 4 ज्ञेयानि।
5 इत्यादिना कालच्प्रत्यये पृषोदरादित्वात् टकारस्य डकारे रूपमेवम्।
दशपाद्युणादिवृत्तावत्र ‘विड--’ इति सौत्रो धातुर्ण्यन्तः।’ इति प्रोक्तम्।
तच्चिन्त्यम्।
तादृशस्य धातोः सूत्रेष्वनुपलम्भात्।
दन्त्यौष्ठ्यादिं बशन्तं येऽपि पठन्ति, तेषामपि वबयोरभेदोच्चारणमेव निदानमिति ज्ञेयम्।]] बिडालः।
प्रासङ्गिक्यः
01
=>
(१११३)
02
=>
(१-भ्वादिः-३१७। अक। सेट्। पर।)
03
=>
[[आ। ‘चेटैर्विटैश्चानुगतानबेटकैरेटत्पशूत्केटिरजः कटन् मलान्।’ धा। का। १। ४२।]]
04
=>
(१९०)
05
=>
[[१। ‘तमिबिडि--’ [द। उ। ८। ११५।]
1 {@“मुट प्रमर्दने”@} 2 ‘प्रमर्दने चाक्षेपे मुटेद् आद्ये तु मोटति।।’ 3 इति देवः।
दुर्गसंमतः पाठोऽयम् इति क्षीरस्वामी।
“--‘मुड’ इति धनपालः।
‘पुड’ इति…शाकटायनः।
क्षीरस्वामी तु द्वावपि इदितौ पपाठ।
मैत्रेयस्तु अमुं टान्तमेव पठित्वा…” इति मा।
धा।
वृत्तिः।
दैवश्लोकात् 4 मा।
धा।
वृत्तौ ‘मुट सञ्चूर्णने’ 5 इत्यत्र ‘मोटति इति मर्दने शपि’ इत्युक्तत्वाच्च अयं धातुः स्वतन्त्र इति ज्ञायते।
युक्तायुक्तत्वे त्वत्र सूरयः प्रमाणम्।
‘पुड प्रुड’ इति अमुं केचित् पठन्ति।
सि।
कौमुद्यादिषु पठितोऽयम्।
मोटकः-टिका, मोटकः-टिका, मुमोटिषकः-मुमुटिषकः-षिका, मोमुटकः- टिका
इत्यादीनि रूपाणि सर्वाणि भौवादिककोचतिवत् 6 ज्ञेयानि।
प्रमुटितः-प्रमोटितः, आमोटनम्, इतीमानि रूपाण्यधिकान्यत्रेति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१२७८)
02
=>
(१-भ्वादिः-सक। सेट्। पर।)
03
=>
(श्लो। ७१)
04
=>
(श्लो। ७१)
05
=>
(चुरादौ)
06
=>
(२००)