| YouTube Channel

टङ्कारी (TaGkArI)

 
Wordnet
Sanskrit
Synonyms:
टङ्कारी
noun
एकः गुल्मः
"टङ्कार्याः उल्लेखः भावप्रकाशे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
टङ्कारी,
स्त्री,
(टङ्कं ऋच्छतीति + “कर्म्म-ण्यण् ।” इत्यण् ततो गौरादि-त्वात् ङीष् ।) क्षुपविशेषः टेकारी इतिभाषा अस्य गुणाः वातश्लेष्मशोफोदर-व्यथानाशित्वम् तिक्तत्वम् दीपनत्वम् लघु-त्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
टङ्कारी दु० स्त्री टङ्कमृच्छति ऋ--अण् गौरा० (टेकारी)वृक्षभेदे “टङ्कारी वातश्लेष्मध्नी शोफोदररुजापहा तिक्ताच दीपनी लघ्वी भिषग्भिः परिकीर्त्तिता” राजनि०