| YouTube Channel

ञिष्विदा (JiSvidA)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
स्विद्
मूलधातुः:
ञिष्विदा
धात्वर्थः:
अव्यक्ते शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
स्वेदति
अनुबन्धादिविशेषः:
ञिक्ष्विदा धातो पाठान्तरम्, ञीत्, आदित्
धातुः:
स्विद्
मूलधातुः:
ञिष्विदा
धात्वर्थः:
स्नेहनमोचनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
स्वेदते
अनुबन्धादिविशेषः:
ञीत्, आदित्, द्युतादिः
धातुप्रदीपः
Sanskrit
ञिष्विदाँ ञिष्विदा स्नेहन, मोचनयोः
- स्वेदते सिष्विदे सिस्वेदयिषति स्विन्नः स्विन्नमस्य स्वेदितमस्य स्विद्यतीति ञिष्विदा गात्रप्रक्षरण इत्यस्य दैवादिकस्य ।। 747 ।।
ञिष्विदाँ ञिष्विदा गात्रप्रक्षरणे
- स्विद्यति सिष्वेद स्वेत्ता स्वेत्स्यति अस्विदत् स्विन्नम् स्विन्नवान् स्विन्नमस्य प्रस्वेदितः प्रस्विन्नः स्वेदः स्वेदत इति ञिष्विदा स्नेहनमोचनयोरित्यस्य रूपम् 82
धातुवृत्तिः
Sanskrit
ञिष्विदाँ ञिष्विदा (अर्थः) गात्रप्रस्रवणे
( स्वेदते सिष्वदे स्वेदिता अस्विदत् अस्वेदिष्ट सिस्विदिषते ) "स्तौतिण्योरेव'' इत्यषत्वम् ( सेष्विद्यते सेष्वेयत्ति असिस्विदत् ) ण्यन्तात्सनि "सः स्विदिस्वदिसहीनां च'' इति अभ्यासात्परस्य षत्त्वम् सिस्वेदयिषतीति निष्ठायां मिदिवत् ( स्विन्नः ) इत्यादि अत्र स्वामी ञिक्ष्विदेति क्ष्वकारं पठित्वा ञिष्विदेति नान्दीत्याह तत्र ( क्ष्वेदते चिक्ष्विदे अचिक्ष्विदत् अक्ष्वेदिष्यतेत्यादि ) क्ष्वेदतीत्यव्यक्ते शब्दे भविष्यति 1 स्विद्यतीति स्नेहनसेकयोर्दिवादौ स्विद्यतीति गात्रप्रक्षरणे 731