| YouTube Channel

ञिष्वप (JiSvapa)

 
धातुप्रदीपः
Sanskrit
ञिष्वपँ ञिष्वप् शये
- स्वपिति सुष्वाप सुषुपतुः स्वप्ता सुस्वप्ता सुप्तमस्य सुषुप्सति सोषुप्यते असूषुपत् सुष्वापयिषति स्वप्नः स्वप्नक् अनुदात्तोऽप्ययं रुदादिकार्य्यानुरोधेन चात्र पठ्यते ।। 59 ।।
क्षीरतरङ्गिणी
Sanskrit
ञिष्वपँ ञिष्वप् शये
-अनुदात्त उदात्तेत्- स्वपिति सुष्वाप सुविनिर्दुभ्यः (8388) इति षः सुषुप्यते वचिस्वपि (6115) इति सम्प्रसारणम् सुषुपुः लङि (द्र0 7398, 99) अस्वपीत् अस्वपत् लुङि अस्वाप्सीत् रुदविद (128) किति सुषुप्सति, सुप्त्वा स्वापेश्चङि (6118) सम्प्रसारणम्-असूषुपत् स्वपो नन् (3391)-स्वप्नः ञीतः क्तः (32187)-सुप्तः स्वपितृषोर्नजिङ् (32152)-स्वप्नक् 56
धातुवृत्तिः
Sanskrit
ञिष्वपँ ञिष्वप् (अर्थः) शये
उदात्तेदनुदात्तः ( स्वपिति, स्वपन्ति, स्वपितः, स्वपिषि, स्वपिमि, स्वपिवः ) "रुदादिभ्य'' इतीट् ( सुप्यते ) भावे यकि "वचिस्वपि'' इति संप्रसारणम् ( सुषुप्यते ) "सुविनिर्दुर्भ्यस्सुपिसूसमा'' इति कृतसम्प्रसारणस्य सुपेष्षत्वम् एवं व्यादेरप्युदाहार्यम् (सुष्वाप, सुषुपतुः, सुषुपुः, सुष्वप्थ, सुष्वपिथ, सुषुपथुः, सुष्वाप, सुषुपिव, ) किति "वचिस्वपि'' इति सम्प्रसारणे द्विर्वचनम् अन्यत्र द्विर्वचने लिटि "लिट्यभ्यासस्योभयेषाम्'' इत्याभ्यासस्य सम्प्रसारणम् अत्र ह्युभयेषां ग्रहणस्य प्रयोजनं हलादिशेषात्पूर्वं सम्प्रसारणमित्युक्तम् सर्वत्र क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः अभ्यासात्परस्य आदेशसकारत्वात् षत्वम् विसुष्वापत्यादावकिद्वचनेऽभ्यासस्य सम्प्रसारणे "पूर्वत्रासिद्धम्'' इति षत्वस्यासिद्धत्वात् पूर्वं हलादिशेषे पश्चात्सुपिरूपस्याभावात् "सुविनिर्दुर्भ्यः'' इति षत्वम् क्विपि तु परत्वात्सम्प्रसारणे षत्वे पश्चाद् द्विर्वचनमिति ( विषुषुपतुः ) इत्यादि भवति द्विर्वचने षत्वस्यासिद्धत्वम्, ( पूर्वत्रासिद्धीयमद्विर्वचने ) इति तन्निषेधात् ( स्वप्ता स्वप्स्यति स्वपितु, स्वपिहि, स्वपानि अस्वपीत्, अस्वपत्, अस्वपिताम्, अस्वपीः, अस्वपः अस्वपम्, अस्वपिव, ) रुदादित्वात् पूर्ववदिडटौ ( स्वप्यात्, स्वप्याताम् ) आशिषि ( सुप्यात्, सुप्यास्तां, ) "किदाशिषि'' इति कित्वात्सम्प्रसारणम् ( अस्वाप्सीत्, अस्वाप्ताम्, अस्वाप्सुः, अस्वाप्सीः, अस्वाप्सम्, ) "वदव्रज'' इति वृद्धिः ( सुषुप्सति ) "रुदविद'' इत्यादिना कित्वे सम्प्रसारणे द्विर्वचनम् ( सोषुप्यते ) "स्वपिस्यमिव्येञां यङि'' इति प्रसारणे द्विर्वचनम् ( विषुषुप्सति, विषोषुप्यते ) इत्यादौ लिटीव सम्प्रसारणषत्वयोः द्विर्वचने हलादिश्शेष इति "सुविनिर्दुर्भ्यः'' इति षत्वं भवति ( सास्वपीति, सास्वप्ता ) इत्यादौ यङ्लुकि इडाद्यभावो रुदिवत् "स्वपिस्यमि'' इति सम्प्रसारणं यङो लुका लुप्तत्वाद् भवति ( स्वापयति असूषुपत्, ) अत्र "स्वापेश्चङि'' इति सम्प्रसारणे परपूर्वत्वे लघूपधगुणे णौ चङ्युपधाया ह्रस्वत्वे द्विर्वचने "दीर्घो लघोः'' इति दीर्घः स्वापशब्दाद् घञन्ताण्णौ चङ्यपि स्वापशब्दस्याविशिष्टत्वात्"स्वापेः'' इति सम्प्रसारणे असूषुपत् इति भवति' इत्यात्रेयः णावलोपेन अग्लोपित्वात् "दीर्घो लघोः'' इति दीर्घो भवति (सुष्वापयिषति ) णौ सनि "द्युतिस्वाप्योस्सम्प्रसारणम्'' इत्यभ्यासस्य प्रसारणम् "स्तौतिण्योरेव'' इत्युत्तरस्य षत्वम् ( सुषुष्वापयिषति ) इत्यत्राकिल्लिड्वत् हलादिशेषेणाभ्यासस्य सुपिरूपत्वाभावात् "सुविनिर्दुर्भ्यः'' इति षत्वम् ( सुस्वापकीषति ) इत्यत्र स्वापेर्ण्वुल् स्वापकः, तमिच्छतीति "सुप आत्मनः क्यच्'' इति क्यचि "क्यचि च'' इतीत्वे स्वापकीयशब्दात्सनि द्विर्वचने स्वापेरभ्यासस्यापि "द्युतिस्वाप्योः'' इति प्रसारणं भवति तस्याभ्यासनिमित्तप्रत्ययेनानन्तर्य एवेष्टत्वात्, ( स्वप्नक्, स्वप्नजौ ) ''स्वपितृषोर्नजिङ्'' इति ताच्छीलिकः कर्तरि नजिङ् ( सुप्तोदेवदत्तः, सुप्तं देवदत्तस्य ) "ञितः क्त'' इति कर्तृभावयोर्वर्तमाने क्तः "क्तस्य वर्तमाने'' इत्यनभिहिते कर्तरि षष्ठी यत्तु वृत्तौ "मतिबुद्धि'' इत्यत्र "चकारस्यानुक्तसमुच्चयार्थत्वात् सुप्त इत्युक्तं तत् ताच्छीलिकेन नजिङा बाधो मा विज्ञायीति ( स्वप्नः ) "स्वपो नन्'' इति भावे नन् अनुदात्तोऽप्ययं रुदादिकार्यानुरोधादुदात्तमध्ये पठितः 58