| YouTube Channel

ञिमिदा (JimidA)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मिद्
मूलधातुः:
ञिमिदा
धात्वर्थः:
स्नेहने
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
मेद्यति
अनुबन्धादिविशेषः:
ञीत्, पुषादिः
धातुप्रदीपः
Sanskrit
ञिमिदाँ ञिमिदा स्नेहने
- मेदते मिमिदे मिन्नः मिन्नमस्य मेदितमस्य मेदिता मेदः मेद्यतीति दिवादिपाठात् ।। 746 ।।
ञिमिदाँ ञिमिदा स्नेहने
- मेद्यति अमिदत् मिन्नम् मिदित्वा मेदित्वा मिन्नमस्य मेदितमस्य प्रमिन्नः प्रमेदितः मित्रम् मेदते अमेदिष्ट इति भ्वादिपाठात् 136
क्षीरतरङ्गिणी
Sanskrit
ञिमिदाँ ञिमिदा स्नेहने
- (अर्थविवरणम्) स्नेहनं स्नेहयोगः
मेदते मिन्नः, मिन्नमनेन, मेदितम् निष्ठा शीङ्स्विदिमिदि (1219) इति कित्त्वं नास्ति प्रमिन्नः प्रमेदितः भञ्जभासमिदो घुरच् (32161) मेदुरः अमिचिमिदिशसिभ्यः क्त्रः(उ04163) मित्रम् असुन् (दश0 उ0946) मेदो वसा अचि-मेदाख्यो म्लेच्छः मेदिनी दिवादौ (4133) मेद्यति चुरादौ मिद स्नेहने (तु0 108) मेदयति 722
ञिमिदाँ ञिमिदा स्नेहने
- मिदेर्गुणः (7382) मेद्यति अमिदत् ञीतः क्तः (32187) आदितश्च (7116) इति नेट्-निन्नः विभाषा भावादिकर्मणोः (7217)-प्रमेदितः प्रमिन्नः, मेदितमनेन, मिन्नम्-निष्ठा शीङ्स्विदि (1219) इति सेण् निष्ठा कित् अच् (द्र0 31134)-मेदाख्यो देशः असुन् (द0 उ0 949)-मेदो वसा मेदिनी भ्वादौ (1492) मेदते, अमेदिष्ट चुरादौ मिद स्नेहने (तु0 107) मेदयति 131
धातुवृत्तिः
Sanskrit
ञिमिदाँ ञिमिदा (अर्थः) स्नेहने
(मेदते मिमिदे मेदिता अमिदत् अमेद्विष्टेत्यादि) ( सूत्रम्) मिर्गुणः (इति सूत्रम्) इत्यत्र शिद्ग्रहणमनुवर्त्तते तच्च कर्मधारय इति यस्मिन्विधिरितीत्संज्ञकशकारादो गुण इति शप्यगुणाभावः (भिन्नः)"ञीतः क्तः''"रदाभ्याम्''इति नत्वम् आदित्त्वादनिट्त्वम् भावादिकर्मणोस्तु "विभाषा भावादिकर्मणोः'' इति चेट्, "निष्ठाशीङ्''इति सेटो निष्ठायामकित्त्वाद्गुणे (मेदितमनेनेत्यादि (मेदुरः) "भज्जभासमिदो घुरच्'' (मित्रम्) "अमिमिदिशसिभ्यः त्रन्'' इति त्रन् अयं दिवादिश्चुरादिश्च भिद मेधार्हिसनयोरिति क्न्यादौ ञिमिदा स्नेहने मोचने स्नेहनमोचनयोरिति क्कचित्पठ्यते 730
ञिमिदाँ ञिमिदा (अर्थः) स्नेहने
( मेद्यति मिमेद, मेदिथ मेदिता मेदिष्यति मेद्यतु अमेद्यत्मेद्येत्, मिद्यात् अमिदत् ) "मिदेर्गुणः'' इति श्यनि गुणः ( मिमिदिषति, मिमेदिषति मिदित्वा, मेदित्वा मिन्नः मिन्नवान् ) "आदितश्च'' इतीण्णिषेधः "ञीतः क्तः'' इति वर्तमाने क्तः मिन्नमस्य, मेदितमस्य, ( प्रमिन्नः, प्रमेदितः ) "विभाषाभावादिकर्मणोः'' इतीड्विकल्पः "निष्ठाशीङ्'' इत्यादिना सेटो निष्टायाः कित्त्वनिषेधः द्युतादिपाठादेव अमिदत् अमेदिष्टेति सिद्धे पुषादिपाठोऽमेदीदिति निवृत्त्यर्थः एवं तर्हि द्युतादौ पाठे प्रयोजनं चिन्त्यम् अनेनामिदिदिति भविष्यति द्युतादेरन्यत्रात्मनेपदिषु पाठादमेदिष्टेति च'' निष्ठाशीङ्'' इत्यत्र हरदत्तः "ञिष्विदा स्नेहनमोचनयोः'' इति दैवादिकस्य ग्रहणम्, तु "ञिष्विदा अव्यक्ते शब्दे' इति भौवादिकस्य, मिदिना सहचर्यात्'' इति एवं वदतोऽस्य मिदेर्भूवादौ पाठो नास्तीति प्रतीयते धातुपाठव्याख्यानेषुभयत्रविगीतं पठन्ति 134