| YouTube Channel

ञिभी (JibhI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
भी
मूलधातुः:
ञिभी
धात्वर्थः:
भये
गणः:
जुहोत्यादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
बिभेति
अनुबन्धादिविशेषः:
ईकारान्तः, ञीत्
धातुप्रदीपः
Sanskrit
ञिभी भये
- बिभेति बिभीतः बिभितः बिभ्यति बिभाय बिभयाञ्चकार अभैषीत् (1) भीषयते मुण्डो भापयते वा, शरैर्भाययति भीतमस्य भयम् भीतिः भीः, भियौ 2
क्षीरतरङ्गिणी
Sanskrit
ञिभी भये
- चौरेभ्यो बिभेति, भीत्रार्थानां भयहेतुः (1425) अपादानम् भियोऽन्यतरस्याम् (64115) इत्त्वम्-बिभितः भीह्री (3139) इति बिभयांकार बिभाय भीस्म्योर्हेतुभये (1368) तङ्-भियो हेतुभये षुक् (7340)-मुण्डो भीषयते बिभतेर्हेतुभये (6156) आत्त्वं वा-मुण्डो भापयते, नेह-कुञ्चिकयैनं भाययति भियः क्रुक्लुकनौ (32174)-भीरुः, भीलुकः क्रुकन् अपि (द्र0 30174 भाष्य0)-भीरुकः भिय षुग् वा (उ0 1148) इति मक्-भीमः, भीष्मः अज्विधौ भयादीनामुपसंख्यानम् (3356 वा0)-भयम्, भीतिः, भीः ऋज्रेन्द्राग्र (उ0 228) इति भेरभेलौ आनकः शीङ्भियः (उ0 382)-भयानकः इण्भीका उ0 334) इति कन्-भेकः 2
धातुवृत्तिः
Sanskrit
ञिभी (अर्थः) भये
(चोराद्बिभेति, बिभितः बिभीतः बिभ्यति बिभेषि, बिभीथः, बिभीथ, बिभिथ, बिभेमि, बिभीवः बिभिवः, ) "भीत्रार्थानां भयहेतुः'' इति भयहेतोः कारकस्य अपादानत्वम् "भियोऽन्यतरस्याम्'' इति हलादौ क्ङिति सार्वधातुके वा इकारः ( व्यतिबिभीत ) इत्यादावात्मनेपदे अप्ययमित्वविकल्प उदाहार्यः ( व्यतिबिभ्यत ) इत्यत्र "आत्मनेपदेष्वनतः'' इत्यद्भावे "परिहूत्यापवादविषयमुत्सर्गोऽभिनिविशते' इति न्यायेन द्विर्वचनोत्तरकालमनेकाच्त्वात् "एरनेकाच'' इत्यपवादस्य यणो भावित्वात् पूर्वमियङ् प्रवर्तते यद्वात्रान्तरङ्गत्वात् "श्लौ'' इति द्विर्वचने पश्चादद्भाव इति नैव इयङः प्रसङ्गः ( बिभाय, बिभ्यतुः बिभयिथ, बिभेथ, बिभ्यिव, ) क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः ( बिभयांचकार "भीह्री'' इत्यादिना पक्षे आम्प्रत्ययः श्लुवद्भावश्च ( भेता भेष्यति बिभेतु, बिभीतात्, बिभीताम्, बिभ्यतु, बिभीहि, बिभिहि, बिभितात्, बिभीतम्, बिभयानि, ) हेरपित्त्वात् ङित्त्वात् पक्षे इत्वम् एवं तातङ्यन्येषु ङित्सु चोक्तम् उत्तमआटि गुणायौ ( अबिभेत्, अबिभीताम्, अबिभयुः, ) यणं बाधित्वा परत्वात्जुसि गुणः ( अबिभेः, अबिभीतम्, अबिभियम्, अबिभयम्, अबिभीव, अबिभिव बिभीयात्, बिभीयाताम्, बिभियाताम्, बिभीयाः, बिभियाः, बिभीयां, ) पिद्वचनेष्वपि यासुटोङित्त्वादित्वे ( बिभियात् ) इत्याद्युदाहार्यम् आशिषि, ( भीयात्, भीयास्ताम् ) इत्यादि आर्धधातुकत्वान्नात्रेत्वपक्षः ( अभैषीत्, अभैष्टाम्, अभैषीः अभैषम्, ) सिचि वृद्धिः ( बिभीषति, ) "इको झल्'' इति सनः कित्त्वात् गुणः (बेभीयते वेभेति, वेभीतः, बेभितः, ) प्रकृतिग्रहणन्योन "भियोऽन्यतरस्याम्'' इति वेत्वम् ( भापयते अबीभपत भीषयते, अभीषयत, अबीभषत ) मुण्डः "बिभेतेर्हेतुभये'' इतिणावात्वे पुक् अन्यदा "भियो हेतुभये षुक्'' अत्र हि इतीकारप्रश्लेषणेन ईकारान्तस्यषुको विधानात् आत्वपक्षे भवति "भीस्म्योर्हेतुभये'' इत्युभयत्र तङ् हेतुभयार्थः स्मयतावुक्तः अहेतुंभये तु कुञ्चिकयैनं भाययति अबीभयद् इति वृद्ध्यायौ ( बिभ्यत् भीषणः )नन्द्यादित्वात् ण्यन्ताल्ल्युः ( भीतः ) "ञितः क्तः'' इति वर्तमाने क्तः (भयम्) [अज्विधौ भयादीनामुपसङ्ख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् ] इति क्तल्युटौ बाधित्वा अजेव भवति पारायणे तु वासरूपेण क्तो दर्शितः तदसत्, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिप्रतिषेधात् ( भीः, भियौ ) सम्पदादित्वात्क्विप् क्तिन्नपीष्यते ( भीतिः ) वृकेभ्यो भयं ( वृकभयम् ) "पञ्चमी भयेन'' इति तत्पुरुषः [भयभीतभीतिभीभिरिति वक्तव्यम् ] इति भीतादिभिरपि समासो नेयः ( भीरुः, भीलुकः ) "भिञः क्रुक्लुकनौ'' इति क्रुक्लुकनौ ( भीरुकः ) [क्रुकन्नपि वक्तव्यम] इति क्रुकन् ( भीमः, भीष्मः ) "भियष्युक्च'' इति मक्प्रत्यये पक्षे षुगागमः "भीमादयोऽयादाने'' इत्यपादाने ऽयं प्रत्ययः ( भयानकः ) आनकन् "शीङ्भिय'' इत्यानकन् अयमपि भीमादिः (भेकः) "इण्भी'' इति कन् 2