| YouTube Channel

ञित्वरा (JitvarA)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
त्वर्
मूलधातुः:
ञित्वरा
धात्वर्थः:
सम्भ्रमे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
त्वरते
अनुबन्धादिविशेषः:
आदित्, घटादिः, षित्
धातुप्रदीपः
Sanskrit
ञित्वराँ ञित्वरा सम्भ्रमे
- त्वरते त्वरयति अतत्वरत् त्वरा तर्णः त्वरितः तूर्णमस्य त्वरितमस्य तूः तुरौ तुरः अनुदात्तेत्त्वार्थमकारे वक्यव्ये दीर्घान्तोपादानं वैचित्र्यार्थम् रुष्यमत्वर (7/2/28) इति निष्ठायां प्रतिपदं विकल्पितव्यम् (79) ।। 779 ।।
क्षीरतरङ्गिणी
Sanskrit
ञित्वराँ ञित्वरा सम्भ्रमे
- (अर्थविवरणम्) सम्भ्रमोऽत्राशुकारिता
त्वरते त्वरयति त्वरा अतत्वरत् त्वरित्वा क्विपि-तूः ञीतः क्तः (32187) निष्ठायां रूष्यमत्वरसंघुषास्वनाम् (7228) इति वेट् तूर्णः, त्वरितः इत्थं चादित्त्वं प्रपञ्चार्थम् तूर्तिः वहिश्रियुग्लाहात्वरिभ्यो नित् (दश0 उ0 121) तूर्णिः 754
धातुवृत्तिः
Sanskrit
ञित्वराँ ञित्वरा (अर्थः) सम्भ्रमे
( त्वरते तत्वरे त्वरिता तित्वरिषते तात्वर्यते तातूर्ति तातूर्त्तः तातरीषि तातूर्षि तातूर्थः तात्वरीमि तातूर्मि ) ( सूत्रम्) ज्वरत्वर (इति सूत्रम्) इत्युपधावकारयोः क्कौ ज्ञलादावनुनासिकादौ ज्ञलिक्ङिति ऊठ् लोटि हेरपित्त्वान्ङित्त्वादूठि ( तातूर्हि त्वीरयति अततत्त्वरत् ) "अत् स्मृदृत्वर'' इत्यभ्यासस्यात्वम् इत्वापवादः ( अत्वरि अत्त्वारि त्वरंत्वरम् त्वारंत्वारम् तूर्णः त्वरितः) "रुष्यमत्वरा'' इति निष्ठायामिङ्विकल्पः अस्यादित्त्वमात्मनेपदमात्रुलमिति मैत्रेयहरदत्तादयः अन्ये त्वादित्त्वं यङ्लुक्रीडभावार्थमाहुः नहि तत्र "रुष्यमत्वर'' इतीड्विकल्पः एकाच इति तत्रानुवर्त्तनादिति तेषामयमभिप्रायः "आदितश्च'' इत्यत्राव्यभिचारदेकाज्ग्रहणं सम्बध्यते चावयवे चरितार्थमादित्त्व यङ्लुगन्तार्थमपि स्यात्, तस्य धात्वन्तरतत्वात् त्वरतेरादित्त्वं नावयवे चरितार्थमिति सार्थ्याद्यङ्लुगन्तार्थमिति मैवम् प्रयोजनेकल्पनायामयमेव प्रकार इति नियमाभावात् यदादित्त्वसामर्थादिङ्विकल्पेनैकाजिति सम्बध्यते तेन तत्र त्वरिग्रहणं यङ्लुगर्थं प्रकृतौ त्वादित्त्वात्प्रतिषेध एवेति वक्तुं शक्यते एवं हि आदित्त्वं प्रकृत्यर्थमेव भवति तस्मान्मैत्रेयाद्युक्तमेव ज्यायः ( तूः तूरौ ) "ज्वरत्वर'' इत्यूठ् घटादयः षित उदात्ता अनुदात्तेतः षित्फलमङुदाहृतः 763