| YouTube Channel

ञितृषा (JitRSA)

 
धातुप्रदीपः
Sanskrit
ञितृषाँ ञितृषा पिपासायाम्
- तृष्यति अतृषत् तृषित्वा तर्षित्वा तृषितमस्य तृष्णक् तर्षः तृष्णा तृट् 122
क्षीरतरङ्गिणी
Sanskrit
ञितृषाँ ञितृष पिपासायाम्
- तृष्यति अतृषत् तृषित्वा तृषिमृषि (1225) इति तर्षित्वा ञीतः क्तः (32187)-तृषितः तर्षः अस्यतितृषोः (3457) इति णमुल्-द्व्यहतर्षं गाः पाययति स्वपितृषोर्नजिङ् (32172)-तृष्णक् क्विपि (द्र0 32178) तृट् तृषिशुषिरसिभ्यः कित् (उ0 312)-तृष्णा 116
धातुवृत्तिः
Sanskrit
ञितृषाँ ञितृष (अर्थः) पिपासायाम्
( तृष्यति ) इत्यादि ( तृषित्वा, तर्षित्वा ) "तृषिमृषि'' इत्यादिना वा कित्वम्, ( तृष्णक् ) "स्वपितृषोर्नजिङ्'' इति नजिङ् द्व्यहतर्षं गाः पाययति द्व्यहतर्षमिति वा अद्य पाययित्वा, द्व्यहमतिक्रम्य पाययतीत्यर्थः "अस्यतितृषोः''इति णमुल् "सिभ्यः कित्'' इति नप्रत्ययः ञित्वं वर्तमाने क्तार्थम् तृषितमस्य सञ्जातं ( तृषितः, ) अर्शआदिः 120