| YouTube Channel

ञिक्ष्विदा (JikSvidA)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
क्ष्विद्
मूलधातुः:
ञिक्ष्विदा
धात्वर्थः:
स्नेहन-मोचनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
क्ष्वेदते
अनुबन्धादिविशेषः:
ञित्, आदित्, द्युतादिः
धातुः:
क्ष्विद्
मूलधातुः:
ञिक्ष्विदा
धात्वर्थः:
स्नेहन-मोचनयोः
गणः:
दिवादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
क्ष्विद्यति
अनुबन्धादिविशेषः:
पुषादिः, आदित्
धातुप्रदीपः
Sanskrit
ञिक्ष्विदाँ ञिक्ष्विदा अव्यक्ते_शब्दे
- क्ष्वेदति चिक्ष्वेद क्ष्वेदिता क्ष्विण्णः क्ष्विण्णमनेन क्ष्वेदितमनेन क्ष्विद्यतीति ञिक्ष्विदा स्नेहनमोचनयोरित्यस्य दैवादिकस्य ।। 986 ।।
ञिक्ष्विदाँ ञिक्ष्विदा स्नेहन, मोचनयोः
- क्ष्विद्यति चिक्ष्वेद क्ष्वेदिता अक्ष्विदत् क्ष्विण्णमस्य क्ष्वेदितमस्य प्रक्ष्विण्णः प्रक्ष्वेदितः क्ष्वेदितुम् क्ष्विदित्वा क्षेदित्वा 137
क्षीरतरङ्गिणी
Sanskrit
ञिक्ष्विदाँ ञिक्ष्विदा स्नेहन, मोहनयोः
- क्ष्वेदते क्ष्विण्णः ञिक्ष्विडा इत्यार्हतः क्ष्वेडो विषम्, क्ष्वेडाः रवः ञिष्विदा इति नन्दी-स्वेदते, अस्विदत्, अस्वेदिष्ट स्विन्नः सः स्विदिस्वदिसहीनाञ्च (8362) इति सः-सिस्वेदयिषति ष्विदा गात्रप्रक्षरणे (479) अस्मात् स्विद्यति 723
ञिक्ष्विदाँ ञिक्ष्विदा अव्यक्ते_शब्दे
, 706, उदात्त उदात्तेत्- क्ष्वेदति क्ष्वेदिता आदितश्च (7216) इति नेट् क्ष्विण्णः विभाषा भावादिकर्मणोः (7217) क्ष्विण्णम्, क्ष्वेदितम् , प्रक्ष्विण्णः, प्रक्ष्वेदितः निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः (1219) इति सेटो निष्ठायां कित्त्वम् ञिक्ष्विदा (4134) क्ष्विद्यति, अक्ष्विदत् 949
ञिक्ष्विदाँ ञिक्ष्विदा स्नेहन, मोहनयोः
- क्ष्विद्यति अक्ष्विदत् क्ष्विण्णः प्रक्ष्विण्णः प्रक्ष्वेदितः क्ष्विण्णम् अनेन, क्ष्वेदितम् (द्र0 7217, 1219) भ्वादौ (1705) अव्यक्तशब्दे क्ष्वेदति 132
धातुवृत्तिः
Sanskrit
ञिक्ष्विदाँ ञिक्ष्विदा (अर्थः) अव्यक्ते_शब्दे
अयमुदात्त उदात्तेत् ( क्ष्वेदति चिक्ष्वेद चिक्ष्वेदिथ चिक्ष्वदिव )तासौ नित्यानिट्त्वाभावान्न भारद्वाजनियम इत्युक्तम् ( क्ष्वेदिता क्ष्वेदिष्यति क्ष्वेदतु अक्ष्वेदत् क्ष्वेदेत् क्षिवद्यात् अक्ष्वेदीत् चिक्ष्विदिषति चिक्ष्वेदिषति ) "रलो व्युपधात्'' इति कित्त्_वविकल्पः ( चेक्ष्वेत्ति क्ष्वेदयति अचिक्ष्विदत् क्ष्विदित्वा क्ष्वेदित्वा क्ष्विण्णः ) "ञीतः क्तः'' इति वर्त्तमाने क्तः "आदितश्च" इति इडभावः, "रदाभ्याम्''इति निष्ठानत्वम् क्ष्विण्णमनेन, क्ष्वेदितमनेन ( प्रक्ष्विण्णः प्रक्ष्वेदितः ) "विभाषा भावादिकर्मणोः'' इतीड्विकल्पः "निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः''इति सेटो निष्ठाया अकित्त्वात् गुणः ञिक्ष्विदा स्नेहनमोहनयोरिति दिवादौ 959
ञिक्ष्विदाँ ञिक्ष्विदा (अर्थः) स्नेहन, मोचनयोः
(क्ष्विदति चिक्ष्वेद क्ष्वेदिता) इत्यादि मिदिवत् क्ष्वेदतीत्यव्यक्तशब्दे135