| YouTube Channel

ञिइन्धी (JiindhI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
इन्ध्
मूलधातुः:
ञिइन्धी
धात्वर्थः:
दीप्तौ
गणः:
रुधादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
इन्धे
अनुबन्धादिविशेषः:
ईदित्, ञीत्
धातुप्रदीपः
Sanskrit
ञिइन्धीँ ञिइन्धि दीप्तौ
- इन्धे इन्धाते इन्धते इन्धाञ्चक्रे इन्धिता इन्दिधिषते इद्धमस्य इन्धित्वा समित् इन्धानः 11
क्षीरतरङ्गिणी
Sanskrit
ञिइन्धीँ ञिइन्धी दीप्तौ
-उदात्तोऽनुदात्तेत्- इन्द्धे, श्नान्नलोपः (6423) इद्धम् भ्राष्ट्राग्न्योरिन्धेः (6370 वा0) मुम्-भ्राष्ट्रमिन्धः, अग्निमिन्धः अग्निमिन्धे-अग्नीत् अवोदैध (6429) इत्येधः इध्मः एधस्त्वेधेः (12) असुनि (द्र0 उ0 4189) वाविन्धे (उ0 226) रक्-वीध्रं विमलम्, नीध्रं पटलप्रान्तः 11
धातुवृत्तिः
Sanskrit
ञिइन्धीँ ञिइन्धी (अर्थः) दीप्तौ
उदात्तोऽनुदात्तेत् (इन्धे इन्धाते इन्त्से इन्धे ) "श्नान्नलोपः" इति श्नात्परस्य प्रकृतेर्नकारस्य लोपः किङ्तोः "इन्धिभवतिभ्यां च" इति इन्धेः परस्य लिटः कित्त्वविधानसामर्थ्यादामो विकल्पमिच्छन्ति तदिन्धेश्छन्धो विषयत्वाद्भुवो वुको नित्यत्वादित्यादि भाष्यवार्तिकविरोधादुपेक्ष्यम् (इन्धिता इन्धिष्यते इन्धाम् इन्धाताम् इन्धताम् इन्त्स्व इनधै ऐन्ध ऐन्धाताम् ऐन्धत ऐन्धाः ऐन्धि इन्धीत इन्धोयाताम् ) आशिषि (इन्धिषीष्ट इन्धिपीयास्ताम् ऐन्धिष्ट ऐन्धिपा। ताम् इन्धिधिपते) "नन्द्रा"इति नकारवर्जितस्य द्विर्वचनम् (इन्धयति ऐन्दिधत् ) इद्धः ) ञित्वाद्धर्तमाने क्तः ईदित्त्वादनिट्त्वम् (एधः) "अवोदैधौद्म" इति निपात। नाद्धञि नलोपः सान्तस्त्वेधसशब्द औणादिदिकेऽसुनि बाहुलकान्नलोपे अग्निमिन्धे इति (अग्निमिन्धः) "भ्राष्टाग्न्योरिन्धे" इति मुम् (समित् समिद्र समिधौ ) सम्पदादित्वात् क्विप् (सामिधेन्यो मन्त्रः) "समिधामाधाने षेण्यण्" इति षेण्यण् (सा मिधेनी) ऋक् पित्त्वान्ङीष् "हलस्तद्धितस्य" इति यलोपः, अग्निमिन्धे इति (अग्नीत् ऋत्विग्विशेषः, "क्विप् च" इति क्विप् (अग्नीध्रः) "अग्नीधः शरणे रण् भं च" इति रणप्रत्ययः, भं चेति भत्वात्पदत्वाभावाञ्जरत्वं भवति (शरणं गृहम्) ञित्त्वाद् वृद्धिः "आग्नीध्रः साधारणादञ्च" इति स्वार्थेऽञ्यद्यपीदमेव रूपम् प्रयोजनन्तु स्त्रियाम् (अग्नीन्ध्री) शालेति "टिड्ढा" इति ङीप् विविधमिन्धे इति (वीध्रः) अग्निर्विमलश्च "वाविन्धेः" इति वावुपसर्ग उपपदे इन्धेःक्रन् , कित्त्वादनुनासिकलोपः 11