| YouTube Channel

ञि (Ji)

 
Abhyankara Grammar
English
ञि a mute syllable prefixed to a root in the Dhatuptha of Panini' signifying the addition of the affix (क्त) to the root, in the sense of the present time
e.g. क्ष्विण्णः, धृष्ट: etc.
cf. Kas. on P. III. 2.187.
कृदन्तरूपमाला
Sanskrit
1 {@“ञि इन्धी दीप्तौ”@} 2 दीपनायामपि प्रयुज्यते।
इन्धकः-न्धिका, इन्धकः-न्धिका, इन्दिधिषकः-षिका
इन्धिता-त्री, इन्धयिता-त्री, इन्दिधिषिता-त्री
-- इन्धयन्-न्ती, इन्धयिष्यन्-न्ती-ती
3 इन्धानः, 4 समिन्धानः, इन्धयमानः, इन्दिधिषमाणः
इन्धिष्यमाणः, इन्धयिष्यमाणः, इन्दिधिषिष्यमाणः
5 समिध्-समिधौ-समिधः
-- -- अग्नीध् 6, भ्राष्ट्रमिन्धः 7, अग्निमिन्धः, इन्धः, इन्धनम् 8 इन्दिधिषुः, इन्दिधयिषुः
समिद्धम्, इद्ध 9
10 इद्धवान्, इन्धितम्-तः-तवान्, इन्दिधिषितः-तवान्
इन्धितव्यम्, इन्धयितव्यम्, इन्दिधिषितव्यम्
इन्धनीयम्, इन्धनीयम्, इन्दिधिषणीयम्
इन्ध्यम्, इन्ध्यम्, इन्दिधिष्यम्
ईषदिन्धः, दुरिन्धः, स्विन्धः
11 इद्ध्यमानः, इन्ध्यमानः, इन्दिधिष्यमाणः
एधः 12, इन्धः, इन्दिधिषः
इन्धितुम्, इन्धयितुम्, इन्दिधिषितुम्
इन्धा, समित् 13, इन्धना, इन्दिधिषा, इन्दिधयिषा
इन्धनम्, इन्धनम्, इन्दिधिषणम्
इन्धित्वा, इन्धयित्वा, इन्दिधिषित्वा
समिध्य, समिन्ध्य, समिन्दिधिष्य
इन्धम् २, इन्धित्वा २, इन्धम् २, इन्धयित्वा २, इन्दिधिषम्
इन्दिधिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७०)
02
=>
(७-रुधादिः-१५४८-अक। से। आ।)
03
=>
[[१। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नमि ‘श्नान्नलोपः’ (६-४-२३) इति नलोपे ‘श्नसोरल्लोपः’ (६-४-१११) इति अकारलोपः।]]
04
=>
[[आ। ‘यमं युनज्मि कातेन समिन्धानो- ऽस्त्रकौशलम्।’ भ। का। ६-३७।]]
05
=>
[[२। ‘अनिदितां-’ (६-४-२४) इति नलोपः।]]
06
=>
[[३। ‘क्विप् च’ (३-२-७६) इति कर्मणि उवपदे क्विप्।]]
07
=>
[[४। ‘कर्मण्यण्’ (३-२-१) इत्यण्, ‘भ्रा- ष्ट्राग्न्योः--’ (वा। ६-३-७०) इति मुम्।]]
08
=>
[[B। ‘अपां पतिर्नित्यमबिन्धनेन ज्वा- लावता नूनमशोषितोऽभूत्।’ याद वाभ्युदये-१८-४५।]]
09
=>
[[५। ‘ञीतः क्तः’ (३-२-१८७) इति वर्त- माने क्तः। ‘श्वीदितो निष्ठायां’]]
10
=>
[[C। “समिद्धशरणा दीप्ता देहे लङ्का मते- श्वरा। समिद्धशरणाऽऽदीप्ता देहेऽलंकामतेश्वरा।।” भ। का। १०-७।]]
11
=>
[पृष्ठम्००७३+ २६]
12
=>
[[१। ‘अवोदैधौद्म--’ (६-४-२९) इति घञन्तो निपातितः। इध्म इत्यर्थः।]]
13
=>
[[२। ‘संपदादिभ्यः--’ (वा। ३-३-९४) इति क्विप् स्त्रियां भावादौ। युद्ध इत्यर्थः।]]
1 {@“ञि क्ष्विदा अव्यक्ते शब्दे”@} 2 3 अयमेव धातुर्द्युतादावपि क्षीरस्वामिना क्षीरतरङ्गिण्यां पठितः।
तस्य प्रयोजनं तु लुङि ‘अक्ष्विदत्--अक्ष्वेदिष्ट--’ इति रूपद्वयसिद्धिः।]] ‘ञि क्ष्विडा--’ इत्यार्हतः।
क्ष्वेडो = विषम्।
क्ष्वेडो = रवः।
‘ञि ष्विदा--’ इति नन्दी--इति क्षीरतरङ्गिण्यां क्षीरस्वामी।
4 ‘क्ष्वेदत्यव्यक्तशब्दार्थे, क्ष्विद्यति स्नेहमोक्षयोः।।’ 5 इति देवः।
‘मोहनयोः--’ इत्यपि--इति पुरुषकारः।
क्ष्वेदकः-दिका, क्ष्वेदकः-दिका, 6 चिक्ष्विदिषकः-चिक्ष्वेदिषकः-षिका, चेक्ष्विदकः-दिका
क्ष्वेदिता-त्री, क्ष्वेदयिता-त्री, चिक्ष्विदिषिता-चिक्ष्वेदिषिता-त्री, चेक्ष्विदिता-त्री
क्ष्वेदन्-न्ती, क्ष्वेदयन्-न्ती, चिक्ष्विदिषन्-चिक्ष्वेदिषन्-न्ती
-- क्ष्वेदिष्यन्-न्ती-ती, क्ष्वेदयिष्यन्-न्ती-ती, चिक्ष्विदिषिष्यन्-चिक्ष्वेदिषिष्यन्-न्ती-ती
-- क्ष्वेदयमानः, क्ष्वेदयिष्यमाणः, चेक्ष्विद्यमानः, चेक्ष्विदिष्यमाणः
क्ष्वित्-क्ष्विद्-क्ष्विदौ-क्ष्विदः
-- -- 7 क्ष्विण्णः-क्ष्विण्णवान्, 8 प्रक्ष्विण्णम्- 9 प्रक्ष्वेदितं 10, क्ष्वेदितः, चिक्ष्विदिषितः-चिक्ष्वेदिषितः, चेक्ष्विदितः-तवान्
क्ष्विदः, क्ष्वेदः, चिक्ष्विदिषुः-चिक्ष्वेदिषुः, चेक्ष्विदः
क्ष्वेदितव्यम्, क्ष्वेदयितव्यम्, चिक्ष्विदिषितव्यम्-चिक्ष्वेदिषितव्यम्, चेक्ष्विदितव्यम्
क्ष्वेदनीयम्, क्ष्वेदनीयम्, चिक्ष्विदिषणीयम्-चिक्ष्वेदिषणीयम्, चेक्ष्विदनीयम्
क्ष्वेद्यम्, क्ष्वेद्यम्, चिक्ष्विदिष्यम् चिक्ष्वेदिष्यम्, चेक्ष्विद्यम्
ईषत्क्ष्वेदः-दुःक्ष्वेदः-सुक्ष्वेदः
-- -- क्ष्विद्यमानः, क्ष्वेद्यमानः, चिक्ष्विदिष्यमाणः-चिक्ष्वेदिष्यमाणः, चेक्ष्विद्यमानः
क्ष्वेदः, क्ष्वेदः, चिक्ष्विदिषः-चिक्ष्वेदिषः, चेक्ष्विदः
11 क्ष्वेदितुम्, क्ष्वेदयितुम्, चिक्ष्विदिषितुम्-चिक्ष्वेदिषितुम्, चेक्ष्विदितुम्
क्ष्वित्तिः, क्ष्वेदना, चिक्ष्विदिषा-चिक्ष्वेदिषा, चेक्ष्विदा
क्ष्वेदनम्, क्ष्वेदनम्, चिक्ष्विदिषणम्-चिक्ष्वेदिषणम्, चेक्ष्विदनम्
क्ष्विदित्वा-क्ष्वेदित्वा, क्ष्वेदयित्वा, चिक्ष्विदिषित्वा-चिक्ष्वेदिषित्वा, चेक्ष्विदित्वा
प्रक्ष्विद्य, प्रक्ष्वेद्य, सञ्चिक्ष्विदिष्य-सञ्चिक्ष्वेदिष्य, सञ्चेक्ष्विद्य
क्ष्वेदम् २, क्ष्विदित्वा -क्ष्वेदित्वा २, क्ष्वेदम् २, क्ष्वेदयित्वा २, चिक्ष्विदिषम् -चिक्ष्वेदिषम् २, चिक्ष्विदिषित्वा -चिक्ष्वेदिषित्वा २, चेक्ष्विदम्
चेक्ष्विदित्वा २।
प्रासङ्गिक्यः
01
=>
(३२६)
02
=>
(१-भ्वादिः-७४४। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[पृष्ठम्०३४०+ २४]
05
=>
(श्लो। १०७)
06
=>
[[१। ‘रलो व्युपधाद्धलादेः संश्च’ (१-२-२६) इति क्त्वासनोः कित्त्वविकल्पाद्रूपद्वयम्।]]
07
=>
[[२। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने कर्तरि क्तः। ‘आदितश्च’ (७-२-१६) इति निष्ठायामिण्णिषेधः। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठानत्वम्। ‘अट्कुप्वाङ्नुम्व्यवायेऽपि’ (८-४-२) इति णत्वम्। ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वम्।]]
08
=>
[[३। ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इतीड्विकल्पः। इट्पक्षे, ‘निष्ठा शीङ्- स्विदिमिदिक्ष्विदिधृषः’ (१-२-१९) इति कित्त्वनिषेधः। तेन गुणः।]]
09
=>
[[आ। ‘निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम्। मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम्।।’ भ। का। ७-१०३।]]
10
=>
[वा अनेन]
11
=>
[पृष्ठम्०३४१+ २४]
1 {@“ञि क्ष्विदा स्नेहनमोचनयोः”@} 2 ‘क्ष्वेदत्यव्यक्तशब्दार्थे, क्ष्विद्यति स्नेहमोक्षयोः।।’ 3 इति देवः।
अस्य धातोर्दैवादिकत्वात् क्ष्विद्यन्-न्ती, इति शतरि रूपमिति विशेषः।
अन्यानि सर्वाण्यपि रूपाणि भौवादिकक्ष्विद 4 धातुवत् ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(३२७)
02
=>
(४-दिवादिः-१२४४। सक। सेट्। पर।)
03
=>
(श्लो। १०७)
04
=>
(३२६)
1 {@“ञि तृष पिपासायाम्”@} 2 तर्षकः-र्षिका, तर्षकः-र्षिका, तितर्षिषकः-षिका, तरीतृषकः-षिका
तर्षिता-त्री, तर्षयिता-त्री, तितर्षिषिता-त्री, तरीतृषिता-त्री
3 तृष्यन्-न्ती, तर्षयन्-न्ती, तितर्षिषन्-न्ती
-- तर्षिष्यन्-न्ती-ती, तर्षयिष्यन्-न्ती-ती, तितर्षिषिष्यन्-न्ती-ती
-- -- तर्षयमाणः, -- तरीतृष्यमाणः
-- तर्षयिष्यमाणः, -- तरीतृषिष्यमाणः
4 तृट्-तृड्-तृषौ-तृषः
-- -- -- 5 तृषितम्- 6 तृषितः-तृषितवान्, तर्षितः, तितर्षिषितः, तरीतृषितः-तवान्
तृषः, 7 तृष्णक् 8, प्रतर्षी, तर्षः, तितर्षिषुः, 9 तरीतर्षः
तर्षितव्यम्, तर्षयितव्यम्, तितर्षिषितव्यम्, तरीतृषितव्यम्
तर्षणीयम्, तर्षणीयम्, तितर्षिषणीयम्, तरीतृषणीयम्
10 तृष्यम्, तर्ष्यम्, तितर्षिष्यम्, तरीतृष्यम्
ईषत्तर्षः-दुस्तर्षः-सुतर्षः
-- -- -- 11 तृष्यमाणः, तर्ष्यमाणः, तितर्षिष्यमाणः, तरीतृष्यमाणः
तर्षः, तर्षः, तितर्षिषः, तरीतृषः
तर्षितुम्, तर्षयितुम्, तितर्षिषितुम्, तरीतृषितुम्
12 तृष्टिः, 13 तृट्, तर्षणा, तितर्षिषा, तरीतृषा
तर्षणम्, तर्षणम्, तितर्षिषणम्, तरीतृषणम्
14 तर्षित्वा-तृषित्वा, तर्षयित्वा, तितर्षिषित्वा, तरीतृषित्वा
प्रतृष्य, प्रतर्ष्य, प्रतितर्षिष्य, प्रतरीतृष्य
15 द्व्यहतर्षं द्व्यहं तर्षं द्व्यहेन तर्षं वा गाः पाययति।
तर्षम् २, तर्षित्वा २-तृषित्वा २, तर्षम् २, तर्षयित्वा २, तितर्षिषम् २, तितर्षिषित्वा २, तरीतृषम्
तरीतृषित्वा
16 इति नप्रत्ययो भवति किच्च।
तृष्णा = पिपासा।]] तृष्णा।
प्रासङ्गिक्यः
01
=>
(७७५)
02
=>
(४-दिवादिः-१२२८। अक। सेट्। पर।)
03
=>
[[१। ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। ‘शपूश्यनोर्नित्यम्’ (७-१-८१) इति नित्यं नुमागमः।]]
04
=>
[[२। कर्तरि क्विपि, षकारस्य जश्त्वचर्त्वयो रूपमेवम्।]]
05
=>
[[३। ‘ञि तृषा पिपासायाम्’ इति सिद्धान्तकौमुद्यां मुद्रितः पाठो दृश्यते। तदानीं धातोरादित्त्वेन, ‘आदितश्च’ (७-२-१६) इति निष्ठायां नित्यमिण्णिषेधे, ष्टुत्वे तृष्टम्-तृष्टवान् इति रूपं स्यात्। एवम्, भावे आदिकर्मणि ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति सूत्रेण निष्ठाया इड्विकल्पोऽपि स्यात्। परं तु क्षीरतरङ्गिणी-माधवधातुवृत्ति-धातुकाव्यव्याख्यानादिपरामर्शनेन तृष इति पाठ एव साधुरिति प्रतिभाति। अस्यःधातोरादित्त्वफलं चिन्त्यमेव।]]
06
=>
[[४। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने क्तप्रत्ययः।]]
07
=>
[[५। ‘स्वपितृषोर्नजिङ्’ (३-२-१७२) इति तच्छीलादिषु कर्तृषु नजिङ् प्रत्ययः। ‘चोः कुः’ (८-२-३०) इति कुत्वम्। ‘रषाभ्यां नो णः समानपदे’ (८-४-१) इति णत्वम्। प्रत्ययस्य ङित्त्वाद् गुणनिषेधः।]]
08
=>
[[आ। ‘जिह्मं नुनुद्रेऽवतं तया दिशा सिञ्चन्नुत्सं गोतमाय तृष्णजे।’ ऋग्वेदे १। ८५-११।]]
09
=>
[[६। ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि गुणः।]]
10
=>
[[७। ‘ऋदुपधात्--’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
11
=>
[पृष्ठम्०६९४+ २६]
12
=>
[[१। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वे रूपम्]]
13
=>
[[२। स्त्रियाम्, ‘सम्पदादिभ्यः--’ (वा। ३-३-९४) इति भावे क्विपि रूपम्।]]
14
=>
[[३। ‘तृषिमृषिकृशेः काश्यपस्य’ (१-२-२५) इति क्त्वायां कित्त्वविकल्पः। कित्त्व- पक्षे गुणनिषेधः।]]
15
=>
[[४। ‘अस्यतितृषोः क्रियान्तरे कालेषु’ (३-४-५७) इति णमुल्। ‘तृतीयाप्र- भृतीनि--’ (२-२-२१) इति समासविकल्पः। अद्य गाः पाययित्वा, द्व्यहमति- क्रम्य पाययति, इत्यर्थः।]]
16
=>
[[५। ‘तृषिशुषिरसिभ्यः कित्’ [द। उ। ५। ४४]
1 {@“ञि त्वरा सम्भ्रमे”@} 2 घटादिः, षिच्च।
‘सम्भ्रमः = आशुकारिता’ इति क्षीरस्वामी।
त्वारकः-रिका 3 त्वरकः-रिका, तित्वरिषकः-षिका, तात्वरकः-रिका
त्वरिता-त्री, त्वरयिता-त्री, तित्वरिषिता-त्री, तात्वरिता-त्री
-- 4 त्वरयन्-न्ती, त्वरयिष्यन्-न्ती-ती
-- त्वरमाणः, -- तित्वरिषमाणः
तात्वर्यमाणः
त्वरिष्यमाणः, -- तित्वरिषिष्यमाणः, तात्वरिष्यमाणः
5 तूः-तूरौ-तूरः
-- -- -- 6 7 तूर्णम् 8 9 10 11 आदित्त्वम्, अस्य सूत्रस्य 12 भावादिकर्मणोरप्रवृत्तिज्ञापनार्थम्।
तथा विकल्पप्रवृत्त्या तच्चरितार्थम्।
तेनान्येषां तयोर्विकल्पो न।” इति बृहच्छब्देन्दुशेखरे व्याख्यातम्।]] तूर्णः-तूर्णवान्-त्वरितम् 13-तः-तवान्, त्वरितः, तित्वरिषितः, तात्वरितः-तवान्
त्वरः, त्वरः, तित्वरिषुः, तात्वरः
त्वरितव्यम्, त्वरयितव्यम्, तित्वरिषितव्यम्, तात्वरितव्यम्
त्वरणीयम्, त्वरणीयम्, तित्वरिषणीयम्, तात्वरणीयम्
त्वार्यम्, त्वर्यम्, तित्वरिष्यम्, तात्वर्यम्
ईषत्त्वरः-दुस्त्वरः-सुत्वरः
-- -- त्वर्यमाणः, त्वर्यमाणः, तित्वरिष्यमाणः, तात्वर्यमाणः
त्वारः, त्वरः, तित्वरिषः, तात्वरः
त्वरितुम्, त्वरयितुम्, तित्वरिषितुम्, तात्वरितुम्
14 त्वरा, तूर्तिः, त्वरणा, तित्वरिषा, तात्वरा
त्वरणम्, त्वरणम्, तित्वरिषणम्, तात्वरणम्
त्वरित्वा, त्वरयित्वा, तित्वरिषित्वा, तात्वरित्वा
सन्त्वर्य, 15 प्रत्वरय्य, प्रतित्वरिष्य, प्रतात्वर्य
16 त्वरम् २, त्वरित्वा २, 17 त्वरम् २-त्वारम् २, त्वरयित्वा २, तित्वरिषम् २, तित्वरिषित्वा २, तात्वरम्
तात्वरित्वा २।
प्रासङ्गिक्यः
01
=>
(८०५)
02
=>
(१-भ्वादिः-७७५। अक। सेट्। आत्म।)
03
=>
[[१। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति वचनात् मित्त्वम्। तेन ण्यन्ते, ‘मितां ह्रस्वः’ (६-४-९२) इति उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव।]]
05
=>
[[३। क्विपि, ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च’ (६-४-२०) इति उपधावकारयोरूठ्। सवर्णदीर्घः, विसर्गश्च।]]
06
=>
[पृष्ठम्०७११+ २९]
07
=>
[[१। ‘आदितश्च’ (७-२-१६) इति सूत्रेण निष्ठायामिण्णिषेधे प्राप्ते, ‘रुष्यमत्वरसंघुषा- ऽऽस्वनाम्’ (७-२-२८) इति निषेधविकल्पः। तेन इड्विकल्पः। इडभावपक्षे ‘ज्वरत्वर--’ (६-४-२०) इत्युपधावकारयोरूठि दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वे, णत्वे तूर्णम् इत्यादिरूपम्। इट्पक्षे त्वरितम् इत्यादि भवति। एतच्च निष्ठायाः भावार्थे बोध्यम्।]]
08
=>
[[आ। ‘जघान रुषितो रुष्टांस्त्वरितस्तूर्णमागतान्।।’ भ। का। ९। २०।]]
09
=>
[[२। भावकर्मार्थयोस्तु, ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इतीण्णिषेधविकल्पः। तूर्णमनेन, त्वरितमनेन इति प्रयोगो भवति।]]
10
=>
[अनेन]
11
=>
[[३। ‘ञीतः क्तः’ (३-२-१८७) इति कर्तरि क्तप्रत्ययः। कर्त्रर्थेऽपि रुष्यमत्वर--’ (७-२-२८) इति इण्णिषेधविकल्पः। “अस्य [धातोः]
12
=>
(७-२-२८)
13
=>
[अनेन]
14
=>
[[४। धातोरस्य षित्त्वात्, ‘त्वरत्यन्ता घटादयस्त्रयोदश षितः’ (सि। कौ। भ्वादिः) इति वचनात्, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इति स्त्रियां भावादावङ्। प्रयोगबाहुल्यात् क्तिनि, ऊठि तूर्तिरित्यपि भवति। प्रक्रियाकौमुद्यां तु स्त्रियां भावादौ निप्रत्यये तूर्णिः इति रूपमित्युक्तम्। ‘बाहुलकात् ऊठ्’ इति तद्व्या- ख्याने।]]
15
=>
[[५। ण्यन्ताल्ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
16
=>
[पृष्ठम्०७१२+ २७]
17
=>
[[१। णमुल्परे णौ, ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
1 {@“ञि धृषा प्रागल्भ्ये”@} 2 ‘प्रागल्भ्यार्थे तु धृष्णोति परस्मैपदिनावुभौ।।’ 3 इति देवः।
धर्षकः-र्षिका, धर्षकः-र्षिका, 4 दिधर्षिषकः-षिका, 5 दरीधृषकः-षिका
धर्षिता-त्री, धर्षयिता-त्री, दिधर्षिषिता-त्री, दरीधृषिता-त्री
6 धृष्णुवन्-ती, धर्षयन्-न्ती, दिधर्षिषन्-न्ती
-- धर्षिष्यन्-न्ती-ती, धर्षयिष्यन्-न्ती-ती, दिधर्षिषिष्यन्-न्ती-ती
-- -- धर्षयमाणः, धर्षयिष्यमाणः, -- दरीधृष्यमाणः, दरीधृषिष्यमाणः
7 दधृक् 8 -दधृषौ-दधृषः
-- -- -- 9 प्रधृष्टम्-प्रधृष्टः-प्रधृष्टवान्, प्रधर्षितः-तवान्, धर्षितः, दिधर्षिषितः, दरीधृषितः-तवान्
10 धृषः, 11 धृष्णक्-धृष्णजौ-धृष्णजः, 12 धृष्णुः, 13 14 धर्षणः, प्रधर्षी, धर्षः, दिधर्षिषुः, दरीधर्षः
15 धर्षितव्यम्, धर्षयितव्यम्, दिधर्षिषितव्यम्, दरीधृषितव्यम्
धर्षणीयम्, धर्षणीयम्, दिधर्षिषणीयम्, दरीधृषणीयम्
16 धृष्यम्, धर्ष्यम्, दिधर्षिष्यम्, दरीधृष्यम्
17 ईषद्धर्षणः-दुर्धर्षणः-सुधर्षणः
-- -- इत्यादीनि सर्वाण्यपि रूपाणि तर्षतिवत् 18 ज्ञेयानि।
क्त्वायाम्-- 19 धर्षित्वा इति।
प्रासङ्गिक्यः
01
=>
(९१९)
02
=>
(५-स्वादिः-१२६९। अक। सेट्। पर।)
03
=>
(श्लो। १८२)
04
=>
[[१। सन्नन्ताण्ण्वुलि रूपम्। सेट्त्वात् गुणः। एवं सर्वत्र सन्नन्ते ज्ञेयम्।]]
05
=>
[[२। ‘रीग् ऋत्वत इति वक्तव्यम्’ (वा। ७-४-४०) इति रीगागमो यङन्ते सर्वत्र।]]
06
=>
[[३। शतरि, ‘स्वादिभ्यः--’ (३-१-७३) इति श्नुः विकरणप्रत्ययः। ‘अचि श्नु--’ (६-४-७७) इति उवङादेशः।]]
07
=>
[[४। ‘ऋत्विग्दधृक्--’ (३-२-५९) इत्यादिना क्विन्प्रत्ययसन्नियोगेन धातोः द्विर्वचनं निपात्यते। धृष्णोतीति दधृक्। ‘क्विन्प्रत्ययस्य कुः’ (८-२-६२) इति कुत्वम्।]]
08
=>
[[आ। ‘तामातिक्य पदे पदेन चिबुके चातिग्नुवन् पाणिना चक्रे सध्नुवतां वधे दधृगसौ ऋज्वीं मनोज्ञाकृतिम्।’ धा। का। २। ७०।]]
09
=>
[[५। ‘आदितश्च’ (७-२-१६) इति, ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति अस्य धातोः नित्यम्, अर्थविशेषे विभाषया यथाक्रममिड्विकल्पयोः प्राप्तयोः सत्योः, ‘धृषिशसी वैयात्ये’ (७-२-१९) इति नित्यमिडभावो वैयात्ये गम्यमाने निपात्यते। वैयात्यम् = वियातस्य भावः-धृष्टता। प्रागल्भ्यार्थे तु इट् भवत्येव। तदानीं ‘निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः’ (१-२-१९) इति निष्ठायाः कित्त्वनिषेधाद् गुणः। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमानेऽप्यस्य धातोः क्तप्रत्ययो भवति।]]
10
=>
[[६। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
11
=>
[[७। ‘धृषेश्चेति वक्तव्यम्’ (वा। ३-२-१७२) इति ताच्छीलिके नजिङ्प्रत्यये रूपम्। ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधः। धृष्णक् = निर्लज्जः।]]
12
=>
[[८। ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (३-२-१४०) इति तच्छीलादिषु कर्तृषु क्नुप्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधः।]]
13
=>
[[B। ‘वसन् माल्यवति ग्लास्नू रामो जिष्णुरधृष्णुवत्।।’ भ। का। ७। ४।]]
14
=>
[[९। नन्द्यादित्वात् (३-१-१३४) ण्यन्तादस्मात् कर्तरि ल्युप्रत्ययः।]]
15
=>
[पृष्ठम्०८११+ २१]
16
=>
[[१। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
17
=>
[[२। ‘भाषायां शासियुधिदृशिधृषिमृषिभ्यः--’ (वा। ३-३-१३०) इति खलपवादो युच्।]]
18
=>
(७७५)
19
=>
[[३। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]
1 {@“ञि फला विशरणे”@} 2 ‘विशरणम् = विकसनम्।’ इति धा।
का।
व्याख्यायाम् 3।
‘फलेर्विशरणे फुल्लम्, फलितम्, फलति त्रयम्।।
आदितो, ऽनादितस्त्वन्त्ये रूपे निष्पत्तिवाचिनः।’ 4 इति देवः।
फालकः-लिका, फालकः-लिका, पिफलिषकः-षिका, 5 पम्फुलकः-पंफुलकः-लिका
फलिता-त्री, फालयिता-त्री, पिफलिषिता-त्री, पम्फुलिता-त्री
फलन्-न्ती, फालयन्-न्ती, पिफलिषन्-न्ती
-- फलिष्यन्-न्ती-ती, फालयिष्यन्-न्ती-ती, पिफलिषिष्यन्-न्ती-ती
-- -- फालयमानः, फालयिष्यमाणः, -- पम्फुल्यमानः, पम्फुलिष्यमाणः
6 फल्-फलौ-फलः
-- -- -- 7 फुल्लः- 8 फुल्लवान्, 9 प्रफुल्तम्-प्रफुल्तः-प्रफुल्तवान्, 10 फलितम्-फलितवान्, 11 उत्फुल्लः- 12 उत्फुल्लवान्, सम्फुल्लः-सम्फुल्लवान्, फालितः, पिफलिषितः, पम्फुलितः-तवान्
फलम्, 13 फेलिवान्, फालः, पिफलिषुः, पम्फुलः
फलितव्यम्, फालयितव्यम्, पिफलिषितव्यम्, पम्फुलितव्यम्
प्रतिफलनीयम्, फालनीयम्, पिफलिषणीयम्, पम्फुलनीयम्
फाल्यम्, फाल्यम्, पिफलिष्यम्, पम्फुल्यम्
ईषत्फलः-दुष्फलः-सुफलः
-- -- फल्यमानः, फाल्यमानः, पिफलिष्यमाणः, 14 पम्फुल्यमानः
फालः, फालः, पिफलिषः, पम्फुलः
फलितुम्, फालयितुम्, पिफलिषितुम्, पम्फुलितुम्
15 फुल्तिः, फालना, पिफलिषा, पम्फुला
फलनम्, फालनम्, पिफलिषणम्, पम्फुलनम्
फलित्वा, फालयित्वा, पिफलिषित्वा, पम्फुलित्वा
प्रफल्य, प्रफाल्य, प्रपिफलिष्य, प्रपम्फुल्य
फालम् २, फलित्वा २, फालम् २, फालयित्वा २, पिफलिषम् २, पिफलिषित्वा २, पम्फुलम्
पम्फुलित्वा
16 फल्गुः।
प्रासङ्गिक्यः
01
=>
(१०९०)
02
=>
(१-भ्वादिः-५१६। अक। सेट्। पर।)
03
=>
(१-६६)
04
=>
(श्लो। १५८-१५९)
05
=>
[[३। यङन्ताण्ण्वुलि द्वित्वादिके कृते, ‘उत् परस्यातः’ (७-४-८८) इति उत्तरखण्डस्थाकार- स्योकारे, परसवर्णविकल्पे रूपद्वयम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[४। ‘न पदान्ताः परेऽणः सन्ति।’ इति वचनं तु भाष्यासम्मतमिति, लकारन्तस्यास्य प्रयोग उपपन्तः।]]
07
=>
[[५। निष्ठायाम्, ‘आदितश्च’ (७-२-१६) इति इण्निषेधे, ‘अनुवसर्गात् फुल्लक्षीब--’ (८-२-५५) इत्यत्र निपातनात् निष्ठातकारस्य लकारः, प्रकृतिघटिताकारस्योत्वं च। यद्वा, लत्वस्यासिद्धत्वेन तकारादिप्रत्ययपरकत्वात्, ‘ति च’ (७-४-८९) इत्युत्वमिति ज्ञेयम्।]]
08
=>
[[६। ‘क्तवतोरप्येतल्लत्वमिष्यते।’ इति वृत्तिः। तन्मते फुल्लवान् इत्यपि साधुः।]]
09
=>
[[७। अनुपसर्गादेव लत्वस्य निपातनात्, सोपसृष्टात् इण्निषेधे, उत्वे रूपमेवम्। प्रफुल्लम् इति तु ‘फुल्ल विकसने’ इत्यस्मात् पचाद्यचि ज्ञेयम्।]]
10
=>
[[८। ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति भावे, आदिकर्मणि या निष्ठा, तत्र विषये इण्निषेधस्य विकल्पनात् फलितम् इत्यपि साधुरिति ज्ञेयम्।]]
11
=>
[[९। ‘उत्फुल्लसम्फुल्लयोरुपसंख्यानम्’ (वा। ८-२-५५) इति वचनादत्रापि निण्ठातकारस्य लत्वमिति ज्ञेयम्। क्तवत्वन्तस्यापीदं लत्वमिति वृत्तिकारेष्टेः तत्रापि लत्वम्।]]
12
=>
[पृष्ठम्०९१४+ २६]
13
=>
[[१। कर्तरि, लिटः क्वसौ, ‘तॄफलभजत्रपश्च’ (६-४-१२२) इत्येत्वाभ्यासलोपे, ‘वस्वे- काजाद्घसाम्’ (७-२-६७) इतीडागमे रूपम्।]]
14
=>
[[२। यङन्तात् यकि, ‘हलो यमां यमि लोपः’ (८-४-६४) इति यङो यकारस्य विकल्पेन लोपः। लोपाभावपक्षे तु ‘फम्फुल्य्यमानः’ इत्यपि साधुः। एवं यङन्तात् ल्यप्यपि ज्ञेयम्।]]
15
=>
[[३। क्तिनि, इण्निषेधे, ‘ति च’ (७-४-८९) इत्युत्वे रूपमेवम्।]]
16
=>
[[४। ‘फलिपाटि--’ (द। उ। १-१०३) इत्युप्रत्यये गुगागमे रूपम्। फल्गुः = असारः।]]
1 {@“ञि भी भये”@} 2 भायकः-यिका, 3 भापकः- 4 भीषकः-षिका, 5 भायकः-यिका, 6 बिभीषकः-षिका, बेभीयकः-यिका
भेता-भेत्री, 7 भापयिता-भीषयिता-भाययिता-त्री, बिभीषिता-त्री, बेभीयिता-त्री
8 9 बिभ्यत्-बिभ्यतौ-बिभ्यतः, 10 11 भाययन्-न्ती, बिभीषन्-न्ती
-- 12 भेष्यन्-न्ती-ती, भाययिष्यन्-न्ती-ती, बिभीषिष्यन्-न्ती-ती
-- -- 13 14 भापयमानः, 15 16 भीषयमाणः, -- बेभीयमानः
-- भापयिष्यमाणः-भीषयिष्यमाणः -- बेभीयिष्यमाणः
भीः-भियौ-भियः
-- -- -- -- भीतः-भीतवान्, भापितः-भीषितः-भायितः, बिभीषितः, बेभीयितः-तवान्
17 भीतः, वृकभीतः, 18 भीरुः 19 -भीलुकः, 20 भीरुकः, 21 विभीषणः, 22 भापः-भीषः-भायः, बिभीषुः, बेभ्यः
भेतव्यम्, भापयितव्यम्-भीषयितव्यम्-भाययितव्यम्, बिभीषितव्यम्, बेभीयितव्यम्
23 प्रनिभयनीयम्-प्रणिभयनीयम्, भापनीयम्-भीषणीयम्-भायनीयम्, बिभीषणीयम्, बेभीयनीयम्
भेयम्, भाप्यम्-भीष्यम्-भाय्यम्, बिभीष्यम्, बेभीय्यम्
भायमानः, भाप्यमानः-भीष्यमाणः-भाय्यमानः, बिभीष्यमाणः, बेभीय्यमानः
ईषद्भयः-दुर्भयः-सुभयः
-- -- -- 24 25 भयम्-वृकभयम्, भापः-भीषः-भायः, बिभीषः, बेभीयः
भेतुम्, भापयितुम्-भीषयितुम्-भाययितुम्, बिभीषितुम्, बेभीयितुम्
भीतिः, वृकभीतिः, 26 भीः, भापना-भीषणा-भायना, 27 भीषा- 28 जातभीषा, बिभीषा, बेभीया
-- भापनम्-भीषणम्-भायनम्, बिभीषणम्, बेभीयनम्
भीत्वा, भापयित्वा-भीषयित्वा-भाययित्वा, बिभीषित्वा, बेभीयित्वा
प्रभीय, प्रभाप्य-प्रभीष्य-प्रभाय्य, प्रबिभीष्य, प्रबेभीय्य
भायम् २, भीत्वा २, भापम् -भीषम् -भायम् २, भापयित्वा -भीषयित्वा -भाययित्वा २, बिभीषम् २, बिभीषित्वा २, बेभीयम्
बेभीयित्वा
29 भेकः, 30 भयानकः, 31 भीमः-भीष्मः।
प्रासङ्गिक्यः
01
=>
(११६१)
02
=>
(३-जुहोत्यादिः-१०८४। अक। अनि। पर।)
03
=>
[[६। ‘बिभेतेर्हेतुभये’ (६-१-५६) इति विकल्पेन णावात्वे, आदन्तलक्षणः पुगागमः।]]
04
=>
[[७। आत्वाभावपक्षे, ‘भियो हेतुभये षुक्’ (७-३-४०) इति षुगागमः।]]
05
=>
[[८। अहेतुभये तु (करणादिजन्ये भये तु) णिज्निमित्तकवृद्धौ, आयादेशे रूपमेवम्। एवमेव ण्यन्ते रूपत्रयस्योपपत्तिर्ज्ञेया।]]
06
=>
[[९। सन्नन्तात् ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवमुत्त- रत्रापि सन्नन्तेषु ज्ञेयम्।]]
07
=>
[[आ। ‘विस्मापयित्री जनमुग्रसेनजं द्राग् भापयित्री भृशमस्य पञ्चताम्।’ वा। वि। १। ३८।]]
08
=>
[[१०। शतरि शपो जुहोत्यादित्वात् श्लौ, द्विर्वचने, अभ्यासह्रस्वे, उत्तरखण्डे यणि ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुमो निषेधः।]]
09
=>
(चोरात्)
10
=>
[कुञ्जिकया एनं]
11
=>
[[११। हेतुभये एवात्मनेपदविधानादत्र अहेतु (करण) भयत्वात् ण्यन्ताच्छतैव।]]
12
=>
[पृष्ठम्०९५५+ २४]
13
=>
(जटिलो)
14
=>
[[१। ‘भीस्म्योर्हेतुभये’ (१-३-६८) इति ण्यन्तादात्मनेपदम्।]]
15
=>
(मुण्डो)
16
=>
[[आ। ‘शत्रून् भीषयमाणं तं रामं विस्मापयेत कः।’ भ। का। ५-५८।]]
17
=>
[[२। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने कर्तरि क्तप्रत्ययः। वृकभीतः इत्यत्र ‘भयभीतभीतिभीभिरिति वक्तव्यम्’ (वा। २-१-३७) इति वचनात् समासो बोध्यः।]]
18
=>
[[३। तच्छीलादिषु कर्तृषु ‘भियः क्रुक्लुकनौ’ (३-२-१७४) इति क्रुः क्लुकन् प्रत्ययौ भवतः। क्रमेण भीरुः, भीलुकः इति रूपे सिद्ध्यतः।]]
19
=>
[[B। ‘अभीरुरवसं स्त्रीभिर्भास्वराभिरिहेश्वरः।।’ भ। का। ७-२५।]]
20
=>
[[४। ‘क्रुकन्नपि वक्तव्यः’ (वा। ३-२-१७४) इति वचनात् क्रुकन्प्रत्यये रूपमेवम्। अयमपि ताच्छीलिकप्रत्ययः।]]
21
=>
[[५। विशेषेण भीषयत इति विभीषणः। ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। षुगागमः।]]
22
=>
[[C। ‘बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः।।’ शि। व। ३-४५।]]
23
=>
[[६। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति उपसर्गस्थान्निमित्तात् परस्य नेः णत्वविकल्पः।]]
24
=>
[पृष्ठम्०९५६+ २३]
25
=>
[[१। ‘अज्विधौ-भयादीनामुपसंख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनादत्र ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः। अच्प्रत्ययान्तस्य पुंलिङ्गत्वं तु प्रायिकम्। अतोऽत्र नपुंसकत्वम्। वार्तिकेऽत्र ‘क्तादिनिवृत्त्यर्थम्’ इत्युक्तत्वात् नपुंसके भावे विहितः ल्युट्प्रत्ययोऽप्यस्य धातोर्नेति ज्ञेयम्। वृकभयम् इत्यत्र ‘पञ्चमी भयेन’ (२-१-३७) इति समासः।]]
26
=>
[[२। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-९४) क्विप्।]]
27
=>
[[३। हेतुमण्ण्यन्तात् बाहुलकेन ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः, युजपवादः।]]
28
=>
[[आ। ‘जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत्।।’ या। अ। १३-५७।]]
29
=>
[[४। ‘इण्भीका--’ (द। उ। ३-२१) इति कन्प्रत्यये रूपमेवम्। बिभेतीति भेकः।]]
30
=>
[[५। ‘आनकः शीङ्भियः’ (द। उ। ३-२६) इत्यानकप्रत्ययः। बिभेति तस्मादिति भयानकः = भीषणः। ‘भीमादयोऽपादाने’ (३-४-७४) इति अपादानेऽयं प्रत्ययः।]]
31
=>
[[६। ‘भियः षुग् वा’ (द। उ। ७-३५) इति मक्प्रत्ययः, पक्षे षुगागमश्च। बिभेत्यस्मा- ज्जन इति भीमः, भीष्मो वा। ‘भीमादयोऽपादाने’ (३-४-७४) इत्यपादानेऽयं प्रत्ययो ज्ञेयः।]]
1 {@“ञि मिदा स्नेहने”@} 2 ‘मेदते मेद्यतीत्येते स्नेहने, मिन्दयेण्णिचि।
ऋदितो मेदते मेदेन्मेधाहिंसनयोर्द्वयोः।।’ 3 इति देवः।
हरदत्तस्तु धातोरस्य भ्वादिषु पाठं नानुमेने इति ‘निष्ठा शीङ्--’ 4 इति सूत्रे पदमञ्जर्यां व्यक्तम्।
मेदकः-दिका, मेदकः-दिका, मिमेदिषकः-मिमिदिषकः-षिका, मेमिदकः- दिका
मेदिता-त्री, मेदयिता-त्री, मिमेदिषिता-मिमिदिषिता-त्री
मेमिदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकक्ष्वेदतिवत् 5 ज्ञेयानि।
6 निष्ठायाम्-- 7 मिन्नः, 8 9 प्रमेदितम्-प्रमिन्नम्-10, प्रमिन्नः, 11 प्रमेदितः, 12 मेदुरः, 13 14 मेदः, 15 मेदिनी, 16 मित्रम्-मित्रा, 17 मेदः, इतीमानि घातोरस्माद् विशेषेण भवन्ति।
अस्यात्मनेपदित्वात् शानचि मेदमानः, मेदिष्यमाणः, इत्यादीनि रूपाणि भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१२५५)
02
=>
(१-भ्वादिः-७४३। सक। सेट्। आत्म।)
03
=>
(श्लो। १०४)
04
=>
(१-२-१९)
05
=>
(३२६)
06
=>
[पृष्ठम्१०२४+ ३१]
07
=>
[[१। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने कर्तरि क्तप्रत्यये, ‘आदितश्च’ (७-२१६) इति इण्निषेधे च, ‘रदाभ्यां निष्ठातो नः, पूर्वस्य दः’ (८-२-४२) इति निष्ठा- तकारधातुदकारयोर्नत्वे रूपमेवम्।]]
08
=>
[[आ। ‘उद्वृत्तनयनो मिन्नान् मन्त्रिणः स्वान् व्यसर्जयत्।।’ भ। का। ९। १६।]]
09
=>
[[२। अस्यैव धातोर्निष्ठायाम् भावे आदिकर्मणि च, ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इतीड्विकल्पे, इट्पक्षे, ‘निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः’ (१-२-१९) इति सेटो निष्ठायाः कित्त्वनिषेधाद् गुणे प्रमेदितम्, प्रमेदितः इति भवतः। इडभावपक्षे तु कर्त्रर्थकक्तप्रत्ययान्तवत् प्रक्रिया ज्ञेया।]]
10
=>
[अनेन]
11
=>
[[B। ‘प्रमेदिताः सपुत्रास्ते सुस्वान्ता बाढविक्रमाः।’ भ। का। ९। १७।]]
12
=>
[[३। ‘भञ्जभासमिदो घुरच्’ (३-२-१६१) इति तच्छीलादिषु कर्तृषु घुरच्प्रत्यये गुणे रूपमेवम्। मेदुरः = वसाविशेषवान् पश्वादिः।]]
13
=>
[[C। ‘प्रद्योतनस्योदयमाप्य गोपाः श्वेतांशुकोन्मेदुरचारुवेषाः।’ धा। का। २। १।]]
14
=>
[[४। कर्तरि पचाद्यचि गुणे रूपमेवम्। मेदः = असुरविशेषः।]]
15
=>
[[५। ग्रह्यादित्वात् (३-१-१३४) कर्तरि णिनिप्रत्यये स्त्रियाम्, ‘ऋन्नेभ्यः--’ (४-१-५) इति ङीपि रूपमेवम्। मेदिनी = भूमिः।]]
16
=>
[[६। ‘अमिचिमिदिशसिभ्यः क्त्रः’ (द। उ। ८। ८६) इति क्त्रप्रत्यये रूपमेवम्। मेदतीति मित्रम् = सुहृत्। सुहृदि अभिधेये नपुंसकलिङ्गत्वम्, सूर्ये तु पुंंल्लिङ्गता, गन्धद्रव्ये तु स्त्रीलिङ्गत्वमस्यैव पदस्येति ज्ञेयम्।]]
17
=>
[[७। ‘असुन्’ (द। उ। ९-४९) इत्यस्मादसुन्प्रत्यये गुणे रूपमेवम्। मेदः = वसा।]]
1 {@“ञि मिदा स्नेहने”@} 2 ‘मेदते मेद्यतीत्येते स्नेहने, मिन्दयेण्णिचि।’ 3 इति देवः।
मेदकः-दिका, मेदकः-दिका, मिमेदिषकः-मिमिदिषकः-षिका, मेमिदकः-दिका
मेदिता-त्री, मेदयिता-त्री, मिमेदिषिता-मिमिदिषिता-त्री, मेमिदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्ष्विद्यतिवत् 4 ज्ञेयानि।
शतरि- 5 प्रमेद्यन्- 6 न्ती, मेदिष्यन्-न्ती-ती, इति रूपाणि भवन्त्यस्येति विशेषः।
7
प्रासङ्गिक्यः
01
=>
(१२५६)
02
=>
(४-दिवादिः-१२४३। सक। सेट्। पर।)
03
=>
(श्लो। १०४)
04
=>
(३२७)
05
=>
[[८। शतरि, ‘दिवादिभ्यः--’ (३-१-६९) इति विकरणप्रत्यये श्यनि, तस्यापित्सार्व धातुकत्वेन ङिद्वद्भावाद् अङ्गस्य गुणनिषेधे प्राप्ते सति, ‘मिदेर्गुणः’ (७-३-८६)- इति गुणो विधीयते, तेन रूपमेवमिति ज्ञेयम्।]]
06
=>
[[ड्। ‘नभ्यांस्तुभ्य विभो जयेति नुवते क्लिद्यन् प्रमेद्यद्रुजम्--।।’ धा। का। २। ६७।]]
07
=>
[पृष्ठम्१०२५+ ३३]
1 {@“ञि ष्वप शये”@} 2 3 ‘ञि ष्वप शये’ ‘हलन्त्यम्’ 4 इतीत्त्वप्रसङ्गात् ‘ञि ष्वप् शये’ इत्यपपाठः--इति धातुकाव्यव्याख्यानम् 5।
युज्यते चैतत्।
यतः सर्वेष्वपि धातुपाठेषु “ञि ष्वप् शये।
उदात्तेत्, अनुदात्तः।” इति पठ्यते।
‘उदात्तेत्’ इत्यस्य उदात्तोपदेशोऽकार इत्संज्ञकोऽत्र धातौ--इति खल्वर्थः।
अतश्च प्रामादिकः सार्वत्रिकः ‘ष्वप्’ इति हलन्तपाठ इत्येव न्याय्यम्।
अत एवापपाठः शोधितो धातुकाव्यव्याख्यातृमहाशयेन।]] स्वापकः-पिका, स्वापकः-पिका, 6 सुषुप्सकः-प्सिका, 7 सोषुपकः-पिका
स्वप्ता-स्वप्त्री, स्वापयिता-त्री, सुषुप्सिता-त्री, सोषुपिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकवपतिवत् 8 बोध्यानि।
9 सुप्तः, सुप्त्वा-सुप्तिः, 10 स्वप्नः, 11 स्वप्नक्, 12 सुषुप्तः-विषुप्तः-निषुप्तः-दुःषुप्तः, सुषुप्सुः- 13 सुष्वापयिषुः, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१८९२)
02
=>
(२-अदादिः-१०६८। अक। अनि। पर।)
03
=>
[[[अ]
04
=>
(१-३-३)
05
=>
(२-५१)
06
=>
[[१। ‘रुदविदमुषग्रहिस्वपिप्रच्छः संश्च’ (१-२-८) इति सनः कित्त्वम्। तेन ‘वचि- स्वपियजादीनां किति’ (६-१-१५) इति सम्प्रसारणम्। पूर्वरूपादिकम्। ततो द्विर्वचनम्। उत्तरखण्डे ‘आदेशप्रत्यययोः’ (८-३-५९) इति षत्वम्।]]
07
=>
[[२। ‘स्वपिस्यमिव्येञां यङि’ (६-१-१९) इति यङन्ते सम्प्रसारणम्। पूर्ववत् अभ्यासकार्याणि।]]
08
=>
(१५५६)
09
=>
[[३। ‘ञीतः क्तः’ (३-२-१८७) इति कर्तरि भावे वर्तमाने क्तप्रत्ययः। निष्ठायाः कित्त्वात् सम्प्रसारणम्। एवं क्त्वाक्तिन्यक्प्रभृतिष्वपि बोध्यम्।]]
10
=>
[[४। ‘स्वपो नन्’ (३-३-९१) इति भावे नन्प्रत्ययः।]]
11
=>
[[५। ‘स्वपितृषोर्नजिङ्’ (३-२-१७२) इति ताच्छीलिको नजिङ्प्रत्ययः। नजिङि ‘नज्’ इत्येवाबशिष्यते। जकारस्य पदान्त्त्वप्रयुक्तः ककारः।]]
12
=>
[[६। ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८-३-८८) इति षत्वम्। सूत्रे ‘सुपि’ इति कृतसम्प्रसारणनिर्देशः। तेन सम्प्रसारणयोग्यस्थलेषु यत्र ‘सुप्’ इति श्रवणं तत्र सर्वत्रापि षत्वं भवतीति बोध्यम्।]]
13
=>
[[७। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। अभ्यासस्य ‘द्युतिस्वाप्योः--’ (७-४-६७) इति सम्प्रसारणम्। ‘स्तौतिण्योरेव षणि--’ (८-३-६१) इत्युत्तरखण्डे षत्वम्।]]
1 {@“ञि ष्विदा गात्रप्रस्रवणे”@} 2 ‘गात्रप्रक्षरणे स्विद्येत् स्वेदते स्नेहमोकयोः।’ 3 इति देवः।
‘गात्रप्रक्षरणे’ इति माधवादयः।
उभयथाऽपि स्वेदस्य = घर्माम्भसो विवक्षाऽत्र।
‘स्नेहनमोचनयोः’ इति हरदत्तादयः 4।
सामान्यरूपाणि भौवादिकक्ष्वेदतिवत् 5 बोध्यानि।
6 स्निन्नः, 7 प्रस्वेदितः-प्रस्वेदितम्, 8 सिस्वेदयिषुः।
प्रासङ्गिक्यः
01
=>
(१८९४)
02
=>
(१-भ्वादिः-७४४। अक। सेट्। आत्म।)
03
=>
(श्लो। १०७)
04
=>
(पदमञ्जरी १-२-१९)
05
=>
(३२६)
06
=>
[[१। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने क्तः। ‘आदितश्च’ (७-२-१६) इति निष्ठायामिण्निषेधः। ‘रदाभ्यां--’ (८-२-४२) इति निष्ठातकारस्य, धातुदकारस्य नकारः।]]
07
=>
[[२। ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इति इड्विकल्पः। ‘निष्टा शीङ्स्विदि--’ (१-२-१९) इति सेटो निष्ठायाः कित्त्वनिषेधः।]]
08
=>
[[३। ण्यन्तात् सनि उप्रत्यये रूपमेवम्। ‘सः स्विदि--’ (८-३-६२) इति अभ्यासात् परस्य सकारः। ‘स्तौतिण्योरेव षणि--’ (८-३-६१) इत्यस्यापवादः।]]