| YouTube Channel

झषोदरी (jhaSodarI)

 
शब्दसागरः
English
झषोदरी
f.
(-री) An epithet of Satyabati the mother of the poet VYASA.
E.
झष a fish, and उदर the belly: born from the belly of a fish.
Yates
English
झषो_दरी (री) 3.
f.
A proper name,
the mother of the poet
Vyāsa.
Wilson
English
झषोदरी
f.
(-री) A proper name, the mother of the poet VYĀSA.
E.
झष a fish, and उदर the belly: born from the belly of a fish.
Monier Williams Cologne
English
झषोदरी
f.
N.
of Vyāsa's mother Satyavatī,
L.
Apte Hindi
Hindi
झषोदरी
स्त्री*
झषः-उदरी -
व्यास की माता सत्यवती का विशेषण
Shabdartha Kaustubha
Kannada
झषोदरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸತ್ಯವತಿ /ಮತ್ಸ್ಯಗಂಧೆ /ವ್ಯಾಸಮಹರ್ಷಿಯ ತಾಯಿ
निष्पत्तिः - > "अच्" (३-१-१३४)
व्युत्पत्तिः - > झषस्य उदरं जन्मस्थानतयास्त्यस्य
L R Vaidya
English
Jaza-udarI {% f. %} an epithet of Satyavatī, mother of Vyāsa.
शब्दकल्पद्रुमः
Sanskrit
झषोदरी, स्त्रो, (झषो मत्स्य एव उदरं उत्-पत्तिस्थानमस्याः झषस्य उदरं उत्पत्तिस्थान-तयास्त्यस्याः इति अर्शआदिभ्योऽजित्येके ।)व्यासमाता इति त्रिकाण्डशेषः
वाचस्पत्यम्
Sanskrit
झषोदरी स्त्री झषस्योदरं जन्मस्थानतयास्त्यस्था अच् गौरा०ङीष् मत्स्यगन्धायां व्यासमातरि सत्यवत्याम् त्रि-काण्डशेषः सा उपरिचरनृपस्य शुक्रेण ब्रह्मणःशापेन मत्स्ययोनिमाप्तायामद्रिकायाष्सरोभेदस्य गर्भा-ज्जाता तत्कथा भा० आ० ६३ अ० ।“मत्प्रियार्थमिदं सौम्य! शुक्रं मष गृहं नय गिरि-कायाः प्रयच्छाशु तस्या ह्यार्त्तवमद्य वै” “गृहीत्वा तुतदा श्येनस्तूर्णमुत्पत्य वेगवान् जवं परममास्थायंप्रदद्राव विहङ्कमः तमपश्यदथायान्तं श्येनं श्येनस्त-थापरः अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया तुण्ड-थुद्धमथाकाशे तावुभौ संप्रचक्रतुः युध्यतोरपतद्रेतस्तच्चापि यमुनाम्भसि तत्राद्रिकेति विख्याता ब्रह्मशापा-द्वराप्सराः मीनभावमनुप्राप्ता बभूब यमुनाचरी ।श्येनपादपरिभ्वष्टं तद्वीर्य्यमथ वासवम् जग्राह तर-सोत्पत्य साद्रिका मत्स्यरूपिणी कदाचिदथ मत्सीं तांबबन्धुर्म्मत्स्यजीविनः मासे दशमे प्राप्ते तदाभरतसत्तम! उज्जह्रुरुदरात्तस्याः स्त्रीं पुमांसञ्च मा-नुषौ आश्चर्य्यभूतं तज्ज्ञात्वा राज्ञेऽथ प्रत्यवेदयन् ।काये मत्स्या इमौ राजन्! संभूतौ मानुषाविति तयोःपुमांसं जग्राह राजोपरिचरस्तदा मत्स्यो नामराजासीद्धार्म्मिकः सत्यसङ्गरः साष्सरा मुक्तशापा चक्षणेन समपद्यत पुरोक्ता सा भगवता तिर्यग्योनिगताशुभे! मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ।ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना सन्त्यज्यमत्स्यरूपं तत् दिव्यरूपमवाप्य सिद्धर्षिचारणपथंजगामाथ वराप्सराः या कन्या दुहिता तस्या मत्-स्या मत्स्यसगन्धिनी राज्ञा दत्ता दाशाय कन्ये-यन्ते भवत्विति रूपसत्त्वसमायुक्ता सर्वैः समुदितागुणैः सा तु सत्यवतो नाम मत्स्यधात्यभिसंश्रयात् ।आसीत् सा मत्स्यगन्धिव किञ्चित्कालं शुचिस्मिता”