| YouTube Channel

झगझगायमान (jhagajhagAyamAna)

 
शब्दकल्पद्रुमः
Sanskrit
झगझगायमानः, त्रि, (झगझग इवाचरतीति ।झगझग + “कर्त्तुः क्यङ् सलोपश्च ।” ११ ।इति क्यङ् ततः शानच् ।) चाकचिक्ययुक्तः ।झक्झकिया इति भाषा यथा, --“मयूरवरगामिनीं सुरदशुद्धवर्णोत्कटांरणक्वणितघण्टिकां निशितशक्तिहस्तोद्यताम् ।प्रभानिकररश्मिभिर्झगझगायमानांशुकांनयामि गुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम्
”इति देवीपुराणे रुरुवधे मातृस्तवनामाध्यायः
वाचस्पत्यम्
Sanskrit
झगझगायमान
त्रि०
झगझग + अभूततद्भावे भृशा० क्यङ्शानच् देवीप्यमाने “मयूरवरगामिनीं सुरदशुद्धव-र्णोत्कटां रणत्क्वणितघण्टिकां निशितशक्तिहस्तोद्य-ताम् प्रभानिकररश्मिभिर्झगखगायमानांशुकां नमामिगुहसम्भवां त्रिदशशत्रुनिर्णाशिनीम्” देवी०
पु०