| YouTube Channel

ज्वराशनिरस (jvarAzanirasa)

 
वाचस्पत्यम्
Sanskrit
ज्वराशनिरस
पु०
ज्वरस्थाशनिरिवनाशकत्वात् कर्म० ।“रसं गन्धं सैन्धवञ्च विषं ताम्रं समं भजेत् सर्व-चूर्णसमं लौहं तत्समं चूर्णमभ्रकम् लौहे लौह-दण्डे निर्गुण्ड्याः स्वरसेन मर्दयेत् यत्नतःपश्चान्मरिचं सूततुल्यकम् पर्णेन सह दातव्यो रसोरत्तिकसन्मितः कासं श्वासं महाधोरं विभ्रमाख्यंज्वरं वमिम् धातुस्थं प्रवलं दाहं ज्वरदोषं चिरोद्भवम् ।यकृद्गुल्मोदरप्लीहश्वयथुञ्च विनाशयेत्” भैषज्यर० उक्तेऔषधभेदे