| YouTube Channel

ज्वराशनिः (jvarAzaniH)

 
Wordnet
Sanskrit
Synonyms:
ज्वराशनिः
noun
एकः ज्वराङ्कुशः
"ज्वराशनेः उल्लेखः कोषे अस्ति"
शब्दकल्पद्रुमः
Sanskrit
ज्वराशनिः,
पुं,
(ज्वरे अशनिर्वज्रमिवामोघत्वात् ।)ज्वरनाशकौषधविशेषः यथा, --“रसं गन्धं सैन्धवञ्च विषं ताम्रसमं भवेत् ।सर्व्वचूर्णसमं लौहं तत्समं चूर्णमभ्रकम्
लौहे लौहदण्डे निर्गुण्ड्याः स्वरसेन ।मर्द्दयेद्यत्नतः पश्चान्मरिचं सूततुल्यकम्
पर्णेन सह पातव्यो रसो रक्तिकसम्मितः ।सर्व्वज्वरहरश्रेष्ठो ज्वराशनिरुदाहृतः
कासं श्वासं महाघोरं विषमाख्यं ज्वरं वमिम् ।धातुस्थं प्रबलं दाहं ज्वरदोषं चिरोद्भवम्
यकृद्गुल्मोदरप्लीहश्वयथुञ्च विनाशयेत्
ज्वराशनी रसः ।” इति भैषज्यरत्नावली