| YouTube Channel

ज्वरार्य्यभ्र (jvarAryyabhra)

 
वाचस्पत्यम्
Sanskrit
ज्वरार्य्यभ्र
पु०
ज्वरस्वारिः कर्म्म० ।“अभ्रं ताम्रं रसं गन्धं विषञ्चेति समं-समम् द्विगुणं धूर्त्तवीजञ्च व्योषं पञ्चगुणं मतम् ।जलेन वटिकां कुर्य्याद् यथा दोषानुसारतः अभ्रंज्वरारिनामेदं सर्वज्वरविनाशनम् वातिकान् पैत्ति-कांश्चैव श्लैष्मिकान् सान्निपातिकान् विषमाख्यान् द्वन्द्व-जांश्च धातुस्थान् विषमज्वरान् नाशयेन्नात्र सन्देहोवृक्षमिन्द्राशनिर्यथा प्लीहानं यकृतं गुल्ममग्निमान्द्यंसशोथकम् कासं श्नासं तृषां कम्पं दाहं शीतं वमिंभ्रमिम्” भैषज्यर० उक्ते औषधभेदे