| YouTube Channel

ज्वरारिरस (jvarArirasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरारिरस
न०
ज्वरस्यारिः कर्म्म० ।“दरदबलिरसानां शुल्वनागाभ्रकाणाम् शुभ-विटकशिलानां सर्वमेकत्र योज्यम् विपिननृपद-लोत्थैर्भावितं शोषयेत्तम् दिवसदशसमाप्तौ रत्तिकैकाञ्चकुर्य्यात् एकैकां भक्षेयदस्य चार्द्रकस्य रमैर्युताम् ।दत्तमात्रं ज्वरं हन्ति ज्वरारिः निगद्यते सर्वशूल-विनाशी कफपित्तविनाशनः” भैषज्यर० उक्तेऔषधभेदे सर्वं (सोँदाली) पत्ररसेन दशदिनंभावयित्वा गुञ्जाप्रमाणमार्द्रकरसेन देयम्”