| YouTube Channel

ज्वरान्तकरस (jvarAntakarasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरान्तकरस
पु०
ज्वरस्यान्तकः कर्म० ।“भास्करोगन्धकः सर्जो देवी विहङ्गतीक्ष्णकम् ।शीणितं गगनञ्चैव पुष्करञ्च महेश्वरम् भूनि-म्बादिगणैर्भाव्यं मधुना गुडिका दृढा चातुर्थकंतृतीयञ्च ज्वरं सन्ततकं तथा आमज्वरं भूतकृतं सर्व-ज्वरमपोहति” भैषज्यर० उक्ते औषधधेदे अत्रसर्जोरसः, देवी सौराष्ट्रमृत्तिका, विहङ्गं स्वणेमाक्षिकं, मुष्करं रसाञ्जनं, महेश्वरं सुवर्णम् अन्यत् सुगमम् ।ताम्रादीनां समभागचूर्णं भूनिम्बादिक्वार्थन भावयेत् ।भूनिम्बाद्यष्टादशद्रव्याणि सर्वद्रव्यतुल्यानि अष्टावशिष्टंक्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्य मधुना विमर्द्यअनुरूपं लिहेत्”