| YouTube Channel

ज्वरान्तकः (jvarAntakaH)

 
Apte Hindi
Hindi
ज्वरान्तकः
पुं*
ज्वरः-अन्तकः -
शिव का विशेष रूप
Wordnet
Sanskrit
Synonyms:
आरग्वधः, राजवृक्षः, सम्पाकः, चतुरङ्गुलः, आरेवतः, व्याधिघातः, कृतमालः, सुवर्णकः, मन्थानः, रोचनः, दीर्घफलः, नृपदृमः, हिमपुष्पः, राजतनुः, कण्डुघ्नः, ज्वरान्तकः, अरुजः, स्वर्णपुष्पम्, स्वर्णद्रुः, कुष्ठसुदनः, कर्णाभरणकः, महाराजद्रुमः, कर्णिकारः, स्वर्णाङ्गः, प्रग्रहः, शम्पाकः, शम्पातः
noun
वृक्षविशेषः यस्य माषः दीर्घः अस्ति।
"आरग्वधस्य पुष्पाणि पीतानि तथा पर्णानि शिरीषसदृशानि भवन्ति।"
शब्दकल्पद्रुमः
Sanskrit
ज्वरान्तकः,
पुं,
(ज्वरस्य अन्तको विनाशकः ।)नेपालनिम्बः आरग्वधः इति राजनिर्घण्टः
ज्वरघ्नौषधविशेषः यथा, --“भास्करो गन्धकः शर्व्वो देवी विहङ्गतीक्ष्णकम् ।शोणितं गगनञ्चैव पुष्पकञ्च महेश्वरम्
भूनिम्बादिगणैर्भाव्यं मधुना गुटिका दृढा ।चातुर्थकं तृतीयञ्च ज्वरं सन्ततकं तथा
आमज्वरं भूतकृतं सर्व्वज्वरमपोहति
अत्र भास्करः ताम्रम् शर्व्वो रसः देवीसौराष्ट्रमृत्तिका विहङ्गं स्वर्णमाक्षिकम् ।गगनं अभ्रकम् पुष्पकं रसाञ्जनम् महेश्वरंसुवर्णम् अन्यत् सुगमम् ताम्रादीनां सम-भागचूर्णं भूनिम्बादिक्वाथेन भावयेत् भूनिम्बा-द्यष्टादशद्रव्याणि सर्व्वद्रव्यतुल्यानि अष्टभागा-वशिष्टं क्वाथं कृत्वा दिनत्रयं विभाव्य विशोष्यमधुना विमर्द्द्य अनुरूपं लिहेत् ज्वरान्तकोरसः ।” इति भैषज्यरत्नावली
ज्वरनाश-कश्च