| YouTube Channel

ज्वरातिसार (jvarAtisAra)

 
वाचस्पत्यम्
Sanskrit
ज्वरातिसार
पु०
ज्वरयुक्तोऽतिसारः ज्वरयुक्ते अति-साररोगे तत्स्वरूपादि भैषज्यर० उक्तो यथा “पित्तज्वरेपित्तमवोऽतिसारस्तथातिसारे यदि वा ज्वरः स्यात् ।दोषस्य दुष्यस्य समानभावाज्ज्वरातिसारः कथितो भिष-ग्भिः” “ज्वरातिसारयोरुक्तमन्योन्यं भोषजं पृथक् नतन्मिलितथोः कुर्य्यादन्योन्यं वर्द्धयेद् यतः प्रायोज्वरहरं भेदि, स्तम्भनन्त्वतिसारनुत् अतोऽन्योन्यविरुद्ध-त्वाद् वर्द्धनं तत्परस्परम् ज्वरातिसारिणामादौ कुर्य्यात्लङ्घनपाचने प्रायस्तावामसम्बन्धं विना भवतोयतः ज्वरातिसारे पेयादिक्रमः स्याल्लङ्धिते हितः ।ज्वरातिसारी पेयां वा पिवेत् साम्लां शृतां नरः”