| YouTube Channel

ज्वरसिंहरस (jvarasiMharasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरसिंहरस
पु०
ज्वरस्य तद्रूपगजस्य सिंह इव हन्तृत्वात्कर्म० भैषज्यरत्नावल्युक्ते औषधभेदे तल्लक्षणं यथा“पारदं गन्धकं तालं भल्लातकमथैव वज्रीर्क्षारसमायुक्तमेकत्र विमएदयेत् मृत्तिकाभाजने स्थाप्यमुद्रितव्यं विचक्षणैः अग्निं प्रज्वालयेत्तत्र प्रहरद्वयसंख्या शीतलं खलयेत्तत्र भावना प्रदीयते ।भृङ्गराजरसैरत्र गण्डदूर्वाभवै रसैः चित्रकस्य रसे-नापि भावना दीयते पुनः पश्चात्तच्चूर्णयेद् यत्नात्कूपिकायाञ्च धारयेत् ज्वर उत्पद्यते यस्य चतुर्थे चापरेपुनः माषैकञ्च रसं देयं तत्क्षणान्नाशयेज्ज्वरम् ।ज्वरशान्तेः परं पथ्यं देयं मुद्गौदनः पयः ज्वरसिंह-रसो नाम सर्वज्वरविनाशनः”