| YouTube Channel

ज्वरशूलहररस (jvarazUlahararasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरशूलहररस
पु०
ज्वरस्य शूलंवेदनां हरति हृ--अच्कर्म०“रसगन्धकयोः कृत्वा कज्जलीं भाण्डमध्यगाम् ।तत्राधोवदनां ताम्रपात्रीं संरुध्य शोधयेत् पादाङ्गुष्ठ-प्रमाणेन चूल्ल्यां ज्वालेन तां दहेत् यामद्वयं ततस्तत्स्थंरसपात्रं समाहरेत् चूर्णयेद्रत्तियुगलं तृतीयं वाविचक्षणः ताम्बूलीदलयोगेन दद्यात् सर्वज्वरेष्वमुम् ।जीरसैन्धवसंलिप्तवक्त्राय ज्वरिणे हितम् स्वेदोद्गमोभवत्येव देवि! सर्वेषु पाप्मसु चातुर्थकादीन् विष-मान् नवमागामिनं ज्वरम् साधारणं सन्निपातं जय-त्येष संशयः ज्वरशूलहरो नाम रसोऽयं समुदा-हृतः” भैषज्यर० उक्ते औषधभेदे