| YouTube Channel

ज्वरमुरारिरस (jvaramurArirasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरमुरारिरस
पु०
ज्वरो मुर इवासुरभेदस्तस्यारिः कर्म्म० ।“शुद्धसूतं शुद्धगन्धं विषञ्च दरदं पृथक् कर्षप्रमाणंकर्षार्द्धं लवङ्गं मरिचं पलम् शुद्धं कनकवीजञ्च पल-द्वयमितं तथा त्रिवृत कर्षमेकञ्च भावयेद्दन्तिकाद्रवैः ।सप्तधा ततः कार्य्या गुडीगुञ्जामृता शुभा ज्वर-मुरारिनामायं रसोज्वरकुलान्तकः अत्यन्ताजिर्ण-पूर्णे ज्वरे विष्टम्भसंयुते सर्वाग्रहणीगुल्मे चा-मवातेऽम्लपित्तके कासश्वासे यक्ष्मरोगेऽप्युदरे सर्वस-म्भवे गृध्रस्यां सन्धिमज्जस्थे वाते शोथे दुस्तरे ।यकृति प्लीहरोगे वातरोगे चिरोत्थिते अष्टादशकुष्ठरोगे सिद्धो गुहविनिर्म्मितः” भैषज्यर० उक्तेऔषधभेदे