| YouTube Channel

ज्वरमातङ्गकेशरिरस (jvaramAtaGgakezarirasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरमातङ्गकेशरिरस
पु०
ज्वर एव मातङ्गो गजस्तत्रकेश-रीव कर्म्म० ।“पारदं गन्धकं चैव हरितालं समाक्षिकम् कटु-त्रयं तथा पथ्या क्षारौ द्वौ सैन्धवं तथा निम्बस्यविषमुष्टेश्च वीजं चित्रकगेव एषां माषमितं भागंग्राह्यं प्रति सुसंस्कृतम् द्विमाषं कानकफलं विषञ्चापिद्विमाषिकम् निर्गुण्डीस्वरसेनैव शोषयेत्तत् प्रयत्नतः ।सार्द्ध रत्तिप्रमाणेन वटी कार्य्या सुशोभना सर्वज्वरहरीचैषा भेदिनी दोषनाशिनी आमाजीर्णप्रशमनी कामलाषाण्डुरोगहा वह्निदीप्तिकरो चैषा जठरामयना-शिनी उष्णोदकानुपानेन दातव्या हितकारिणी ।भाषितो लोकनाथेन ज्वरमातङ्गकेशरी” भैषज्यर० उक्तेऔषधभेदे