| YouTube Channel

ज्वरभैरवरस (jvarabhairavarasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरभैरवरस
पु०
ज्वरे भैरव इव नाशकत्वात् कर्म्म० ।“त्रिकटु त्रिफला टङ्कविषगन्धकपारदम् जैपालञ्च समंमर्द्यं द्रोणपुष्पोरसैर्दिनम् ताम्बूलेन समं खादेदर्द्धगुञ्जा-मितां वटीम् मुद्गयूषं शिखरिणी पथ्यं देयं प्रयत्नतः ।नवज्वरं त्रिदोषोत्थं जीर्णञ्च विषमज्वरम् दिनैकेननिहन्त्याशु रसोऽयं ज्वरभैरवः” भैषज्यर० उक्ते औषधभेदे