| YouTube Channel

ज्वरभैरवचूर्ण (jvarabhairavacUrNa)

 
वाचस्पत्यम्
Sanskrit
ज्वरभैरवचूर्ण
न०
ज्वरस्य भैरव इवनाशकत्वात् कर्म० ।“नागरं त्रायमाणा पिचुमर्द्दो दुरालभा पथ्यामुस्तं वचा दारु व्याघ्री शृङ्गीशतावरी पर्पटंपिप्प-लीमूलं विशाला पुष्करं शटी मूर्वा कृष्णा हरिद्रेद्वेलोघ्रचन्दनमुष्ककम् कुटजस्य फलं वल्कं यष्टीमधुक-चित्रकम् शोभाञ्जनं बला चातिविषा कटुरोहिणी ।मूषली पद्मकाष्ठञ्च यमानी शालपर्णिका मरिचं चा-मृता विल्वं बालं पङ्कस्य पर्पटी तेजपत्रं त्वचं धात्रीपृश्निएर्णी पटोलकम् गन्धकं पारदं लौहमभ्रकञ्चमनःशिला एतेषां समभागेन चूर्णमेव विनिर्दिशेत् ।तदर्द्धं प्रक्षिपेत्तत्र चूर्णं भुनिम्बसम्भवम् मात्रामस्य प्रयु-ञ्जीत दृष्ट्वा दोषवलाबलम् चूर्णं भैरवसंज्ञन्तु ज्वरान्हन्ति संशयः पृथग्दोषांश्च विविधान् समस्तान्विषमज्वरान् द्वन्द्वजान् सन्निपातोत्थान् मानसानपिनाशयेत् प्राकृतं वैकृतञ्चैव सौम्यं तीक्ष्णमथापि वा ।अन्तर्गतं बहिःस्थञ्च निरामं साममेव ज्वरमष्टविधंहन्ति साध्यासाध्यं संशयः नानादेशोद्भवञ्चैव वारि-दोषभवं तथा विरुद्धभेषजभवं ज्वरमाशु व्यपोहति ।अग्निमान्द्र्यं यकृत् प्लीहा पाण्डुरोगमरोचकम् उद-रान्यन्त्रवृद्धिञ्च रक्तपित्तं त्वगामयम् श्वयथुञ्च शिरः-गूलं वातामयरुजां जयेत् ज्वरभैरवसंज्ञन्तु भैरवेण कृतंशुभम्” भैषज्यर० उक्ते औषधभेदे