| YouTube Channel

ज्वरबलि (jvarabali)

 
वाचस्पत्यम्
Sanskrit
ज्वरबलि
पु०
ज्वरशान्त्यै देयो बलिः शाक० भैष-ज्यर० उक्ते ज्वरनाशके वलिमेदे तत्प्रकारो यथा“ज्वरामयगृहोतस्य मुष्टिभिर्नवभिः कृतम् तण्डुलैरोदनं तेन कुर्य्यात् पुत्तलकं शुभम् तं हरिद्रावलि-प्ताङ्गं चतुःपितध्वजान्वितम् हरिद्रारसपूर्णाभिःपुटिकाभिश्चतसृभिः मण्डितं गन्धपुष्पाद्यैरवकीर्य्यविसर्जयेत् एवं दिनत्रयं कुर्य्यात् ज्वररोगोपशान्तये”(ओदनेन पुत्तलं निर्म्माय वीरणचाचिकायां संस्थाप्यहरिद्राभिरवलिप्य चतुःपितपताकाभिरलङ्कृत्य नन्ध-पुष्पाद्यैरवकीर्य्य हरिद्रारसपूर्णाश्चतस्रः पुटिकाश्चतुः-कोणे संस्थाप्याः) पुटिका अश्वत्थपत्ररचितठोङ्गा ।अन्योऽपि प्रकारो विधानपारिजातादौ दृश्यः