| YouTube Channel

ज्वरनागमयूरचूर्ण (jvaranAgamayUracUrNa)

 
वाचस्पत्यम्
Sanskrit
ज्वरनागमयूरचूर्ण
न०
ज्वर एव नागः सर्पस्तस्य मयूरइव हिम्सकत्वात् कर्म० ।“लौहाभ्रटङ्गनं ताम्रं तालकं वङ्गमेव शुद्ध-सूतं गन्धकञ्च शिग्रुवीजं फलत्रिकम् चन्दनातिविषापाठा वचा रजनीद्वयम् उशीरं चित्रकं देवकाष्ठञ्चसपटोलकम् जीवकर्षभकाजाज्यस्तालीशं वंशलोचना ।कण्टकारीफलं मूलं शटीपत्रं कटुत्रयम् गुडूचीसत्वधन्याकं कटुका क्षेत्रपर्पटी मुस्तकं बालकं विल्वंयष्ठीमधुसमं समम् भागाच्चतुर्गुणं देयं कृष्णजीरस्यचूर्णकम् तत्समं तालपुष्पञ्च चूर्णं दण्डोत्पलाभ-वम् कैरातं तत्समं देयं तत्समं चपलाभवम् ।एतच्चूर्णं समाख्यातं ज्वरनागमयूरकम् प्रतिकर्षमितं-खाद्यं युक्त्या वा रुचिवर्द्धनम् सन्ततादिज्वरं हन्ति-साध्यासाध्यं संशयः क्षयोद्मवञ्च धातुस्थं कामशी-कोद्भवं ज्वरम् भूतावेशज्वरञ्चैवमभिचारसमुद्भवम् ।दाहशीतज्वरं घोरं चातुर्थ्यादिविपर्य्ययम् जीर्णञ्चविषमं सर्वं प्लोहानमुदरं तथा कामलां पाण्डुरोगञ्चशोथं हन्ति संशयः भ्रमं तृष्णाञ्च कासञ्च शूला-नाहौ क्षयं तथा यकृतं गुल्मशूलञ्च आमवातं निहन्तिच त्रिकपृष्ठकटीजानुपार्श्वानां शूलनाशनम् अनुपानंशीतजलं देयमुष्णवारिणा” भैषज्यर० उक्ते औषधभेदे