| YouTube Channel

ज्वरकेशरिन् (jvarakezarin)

 
वाचस्पत्यम्
Sanskrit
ज्वरकेशरिन्
पु०
ज्वरस्य तद्रूपगजस्य केशरीव हन्तृत्वात् ।“शुद्धसूतं विषं व्योषं गन्धं त्रिफलमेव जयपाल-समं कृत्वा भृङ्गतोयेन मर्द्दयेत् गुञ्जामात्रा वटी कार्य्याबालानां सर्षपाकृतिः सितया समं पीता पित्त-ज्वरविनाशिनी मरिचेन प्रयुक्ता सा सन्निपातज्वरा-पहा पिप्पलीजीरकाभ्याञ्च दाहज्वरविनाशिनी ।ज्वरकेशरिनामायं रसो ज्वरविनाशनः” भैषज्यर०उक्ते औषधभेदे