| YouTube Channel

ज्वरकुञ्जरपारीन्द्ररस (jvarakuJjarapArIndrarasa)

 
वाचस्पत्यम्
Sanskrit
ज्वरकुञ्जरपारीन्द्ररस
पु०
ज्वर एव कुञ्जरस्तस्य पारीन्द्रःसिंह इव हिंसकत्वात् तादृशो रसः भैषज्यर० उक्तेज्वरनाशके औषधभेदे तल्लक्षणं तत्रोक्तं यथा“मूर्च्छितं रसकर्षैकं तदर्द्धं जारिताभ्रकम् तारं ताप्यञ्चरसजं रसकं ताम्रकं तथा मौक्तिकं विद्रुमंलौहं गिरिजगैरिकं शिला गन्धकं हेमसारञ्च पलार्द्धञ्च पृथक् पृ-थक् क्षीरावी सुरवल्ली शोथघ्नी गणिकारिका झाटा-मला ज्योत्स्निका सतिक्ता तु सदर्शना अग्निजिह्वापूतितैला शूर्पपर्णी प्रसारिणी प्रत्येकस्वरसं दत्त्वामर्दयेत् त्रिदिनावधि भक्षयेत् पर्णखण्डेन चतुर्गुञ्जा-प्रमाणतः महाग्निकारको रोग सङ्करघ्नः प्रयोगराट् ।सततं सन्ततान्येद्युस्तृतीयकचतुर्थकान् ज्वरान् सर्वान्निहन्त्याशु भास्करस्तिमिरं तथा कासं श्वासं प्रसेहञ्चसशोथं पाण्डुकामलाम् ग्रहणों क्षयरोगञ्च सर्वोप-द्रवसंयुतम् ज्वरकुञ्जरपारीन्द्रः प्रथितः पृथिवीतले”